शान्ति पर्व

अध्याय 26: युधिष्ठिर का प्रायोपवेशन का संकल्प

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षङ्विशोऽध्यायः ॥

33 श्लोक · 26 में से 372

इस अध्याय में क्या होता है

युधिष्ठिर का प्रायोपवेशन का संकल्प

युधिष्ठिर शोक से मुक्त नहीं हो पाते। वे मृतकों के नाम लेते हैं: अभिमन्यु, द्रौपदी के पुत्र, धृष्टद्युम्न, विराट, द्रुपद, वृषसेन। बचपन में वे जिन भीष्म की गोद में खेले, उन्हें गिरवाया। सबसे बड़ा पाप द्रोण से झूठ बोलना था: अश्वत्थामा नाम का हाथी मरने पर उन्होंने सत्य का कवच उतारकर कहा, 'अश्वत्थामा मारा गया'। उन्होंने बड़े भाई कर्ण को मरवाया और बालक अभिमन्यु को द्रोण की सेना में भेजा; तब से वे अर्जुन और श्रीकृष्ण की ओर देख नहीं पाते। द्रौपदी के पाँच पुत्र चले गए। वे घोषणा करते हैं कि यहीं प्रायोपवेशन करूँगा, अन्न-जल त्यागकर शरीर सुखा दूँगा। व्यास रोकते हैं: संयोग का अन्त वियोग है और जीवन का मृत्यु; विधाता ने जैसा बनाया वैसा कर्म करो।

युधिष्ठिर उवाच

26.1

अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च ।
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ

abhimanyau hate bāle draupadyāstanayeṣu ca |
dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau

26.2

वृषसेने च धर्मज्ञे धृष्टकेतौ तु पार्थिवे ।
तथाऽन्येषु नरेन्द्रेषु नानादेश्येषु संयुगे

vṛṣasene ca dharmajñe dhṛṣṭaketau tu pārthive |
tathā'nyeṣu narendreṣu nānādeśyeṣu saṃyuge

26.3

न च मुञ्चति मां शोको ज्ञातिघातिनमातुरम् ।
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारिणम्

na ca muñcati māṃ śoko jñātighātinamāturam |
rājyakāmukamatyugraṃ svavaṃśocchedakāriṇam

26.4

यस्याङ्के क्रीडमानेन मया विपरिवर्तितम् ।
स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः

yasyāṅke krīḍamānena mayā viparivartitam |
sa mayā rājyalubdhena gāṅgeyo yudhi pātitaḥ

26.5

यदा ह्येनं विघूर्णन्तं मदर्थं पार्थसायकैः ।
तक्ष्यमाणं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम्

yadā hyenaṃ vighūrṇantaṃ madarthaṃ pārthasāyakaiḥ |
takṣyamāṇaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam

26.6

जीर्णसिंहमिव प्राज्ञं नरसिंहं पितामहम् ।
कीर्यमाणं शरैर्दीप्तैर्दृष्ट्वा मे व्यथितं मनः

jīrṇasiṃhamiva prājñaṃ narasiṃhaṃ pitāmaham |
kīryamāṇaṃ śarairdīptairdṛṣṭvā me vyathitaṃ manaḥ

26.7

प्राड्भुखं सीदमानं च रथात्पररथारुजम् ।
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत्

prāḍbhukhaṃ sīdamānaṃ ca rathātpararathārujam |
ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo'bhavat

26.8

यः सवाणधनुष्पाणिर्योधयामास भार्गवम् ।
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे

yaḥ savāṇadhanuṣpāṇiryodhayāmāsa bhārgavam |
bahūnyahāni kauravyaḥ kurukṣetre mahāmṛdhe

26.9

समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः ।
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे

sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ |
kanyārthamāhvayadvīro rathenaikena saṃyuge

26.10

येन चोग्रायुधो राजा चक्रवर्ती दुरासदः ।
दग्धश्चास्त्रप्रतापेन स मया युधि पातितः

yena cogrāyudho rājā cakravartī durāsadaḥ |
dagdhaścāstrapratāpena sa mayā yudhi pātitaḥ

26.11

स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् ।
न बाणैः पातयामास सोऽर्जुनेन निपातितः

svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam |
na bāṇaiḥ pātayāmāsa so'rjunena nipātitaḥ

26.12

यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् ।
तदैवाविशदन्युग्रो ज्वरो मां मुनिसत्तम

yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam |
tadaivāviśadanyugro jvaro māṃ munisattama

26.13

येन संवर्धिता बाला येन स्म परिरक्षिताः ।
स मया राज्यलुब्धेन पापेन गुरुधातिना ।
अल्पकालस्य राज्यस्य कृते मूढेन पातितः

yena saṃvardhitā bālā yena sma parirakṣitāḥ |
sa mayā rājyalubdhena pāpena gurudhātinā |
alpakālasya rājyasya kṛte mūḍhena pātitaḥ

26.14

आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः ।
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति

ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ |
abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati

26.15

तन्मे दहति गात्राणि यन्मां गुरुरभाषत ।
सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सुतः

tanme dahati gātrāṇi yanmāṃ gururabhāṣata |
satyamākhyāhi rājaṃstvaṃ yadi jīvati me sutaḥ

26.16

सत्यमामर्शयन्विप्रो मयि तत्परिपृष्टवान् ।
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितो मया

satyamāmarśayanvipro mayi tatparipṛṣṭavān |
kuñjaraṃ cāntaraṃ kṛtvā mithyopacarito mayā

26.17

सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ।
सत्यकञ्चुकमुन्मुच्य मया स गुरुराहवे

subhṛśaṃ rājyalubdhena pāpena gurughātinā |
satyakañcukamunmucya mayā sa gururāhave

26.18

अश्वत्थामा हत इति निरुक्तः कुञ्जरे हते ।
काँल्लोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम्

aśvatthāmā hata iti niruktaḥ kuñjare hate |
kām̐llokāṃstu gamiṣyāmi kṛtvā karma suduṣkaram

26.19

अघातयं च यत्कर्णं समरेष्वपलायिनम् ।
ज्येष्ठभ्रातरमत्युग्रः को मत्तः पापकृत्तमः

aghātayaṃ ca yatkarṇaṃ samareṣvapalāyinam |
jyeṣṭhabhrātaramatyugraḥ ko mattaḥ pāpakṛttamaḥ

26.20

अभिमन्युं च यद्वालं जातं सिंहमिवाद्रिषु ।
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्

abhimanyuṃ ca yadvālaṃ jātaṃ siṃhamivādriṣu |
prāveśayamahaṃ lubdho vāhinīṃ droṇapālitām

26.21

तदाप्रभृति वीभत्सुं न शक्नोमि निरीक्षितुम् ।
कृष्णं च पुण्डरीकाक्षं किल्विषी भ्रूणहा यथा

tadāprabhṛti vībhatsuṃ na śaknomi nirīkṣitum |
kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilviṣī bhrūṇahā yathā

26.22

द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रैर्विनाकृताम् ।
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव

draupadīṃ cāpyaduḥkhārhāṃ pañcaputrairvinākṛtām |
śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatairiva

26.23

सोऽहमागस्करः पापः पृथिवीनाशकारकः ।
आसीन एवमेवेदं शोषयिष्ये कलेवरम्

so'hamāgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ |
āsīna evamevedaṃ śoṣayiṣye kalevaram

26.24

प्रायोपविष्टं जानीध्वमथ मां गुरुघातिनम् ।
जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत्

prāyopaviṣṭaṃ jānīdhvamatha māṃ gurughātinam |
jātiṣvanyāsvapi yathā na bhaveyaṃ kulāntakṛt

26.25

न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन ।
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधनाः

na bhokṣye na ca pānīyamupayokṣye kathaṃcana |
śoṣayiṣye priyānprāṇānihastho'haṃ tapodhanāḥ

26.26

यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः ।
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम्

yatheṣṭaṃ gamyatāṃ kāmamanujāne prasādya vaḥ |
sarve māmanujānīta tyakṣyāmīdaṃ kalevaram

वैशंपायन उवचा

26.27

तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् ।
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः

tamevaṃvādinaṃ pārthaṃ bandhuśokena vihvalam |
maivamityabravīdvyāso nigṛhya munisattamaḥ

व्यास उवाच

26.28

अतिवेलं महाराज न शोकं कर्तुमर्हसि ।
पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो

ativelaṃ mahārāja na śokaṃ kartumarhasi |
punaruktaṃ tu vakṣyāmi diṣṭametaditi prabho

26.29

संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् ।
बुद्धुदा इव तोयेषु भवन्ति न भवन्ति च

saṃyogā viprayogāśca jātānāṃ prāṇināṃ dhruvam |
buddhudā iva toyeṣu bhavanti na bhavanti ca

26.30

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam

26.31

सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् ।
भूतिः श्रीर्ह्रीर्धृतिः कीर्तिर्दक्षे वसति नालसे

sukhaṃ duḥkhāntamālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam |
bhūtiḥ śrīrhrīrdhṛtiḥ kīrtirdakṣe vasati nālase

26.32

नालं सुखाय सुहृदो नाले दुःखाय शत्रवः ।
न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम्

nālaṃ sukhāya suhṛdo nāle duḥkhāya śatravaḥ |
na ca prajñālamarthebhyo na sukhebhyo'pyalaṃ dhanam

26.33

यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्क्ररु ।
अत एव हि सिद्धिस्ते नेशस्त्वं ह्यात्मनो नृप

yathā sṛṣṭo'si kaunteya dhātrā karmasu tatkraru |
ata eva hi siddhiste neśastvaṃ hyātmano nṛpa

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)