शान्ति पर्व

अध्याय 199: बृहस्पति मनु से ज्ञान और कर्म पूछते हैं

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनद्विशततमोऽध्यायः ॥

28 श्लोक · 199 में से 372

इस अध्याय में क्या होता है

बृहस्पति मनु से ज्ञान और कर्म पूछते हैं

युधिष्ठिर ज्ञानयोग का फल और भूतात्मा को जानने का उपाय पूछते हैं। भीष्म बताते हैं कि बृहस्पति ने प्रजापति मनु को प्रणाम करके पूछा था कि मन्त्रविधि क्यों है, ज्ञान में विद्वान क्या फल देखते हैं, और पृथ्वी, आकाश, जल तथा उनके निवासी किससे जन्मे; वेद और वेदांग पढ़कर भी वे भूतों का मूल नहीं जानते थे। मनु उत्तर देते हैं कि कर्मविधि इसलिए है कि इष्ट मिले और अनिष्ट न मिले, और ज्ञानविधि इसलिए कि इष्ट अनिष्ट दोनों छूट जाएँ। शरीर, वाणी और मन से किए कर्म उन्हीं में फल देते हैं। वह मूल रस, गन्ध, शब्द, स्पर्श और रूप से परे है, न स्त्री, न पुरुष, न नपुंसक, न सत् न असत्; वही अविनाशी अक्षर है।

युधिष्ठिर उवाच

199.1

किं फलं ज्ञानयोगस्य वेदानां नियमस्य च ।
भूतात्मा च कथं ज्ञेयस्तन्मे ब्रूहि पितामह

kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca |
bhūtātmā ca kathaṃ jñeyastanme brūhi pitāmaha

भीष्म उवाच

199.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः

atrāpyudāharantīmamitihāsaṃ purātanam |
manoḥ prajāpatervādaṃ maharṣeśca bṛhaspateḥ

199.3

प्रजापतिं श्रेष्ठतमं प्रजानां
देवर्षिसङप्रवरो महर्षिः ।
बृहस्पतिः प्रश्नमिमं पुराणं
प्रपच्छ शिष्योऽथ गुरुं प्रणम्य

prajāpatiṃ śreṣṭhatamaṃ prajānāṃ
devarṣisaṅapravaro maharṣiḥ |
bṛhaspatiḥ praśnamimaṃ purāṇaṃ
prapaccha śiṣyo'tha guruṃ praṇamya

199.4

यत्कारणं मन्त्रविधिः प्रवृत्तो
ज्ञाने फलं यत्प्रवदन्ति विप्राः ।
यन्मन्त्रशब्दैरकृतप्रकाशं
तदुच्यतां मे भगवन्यथावत्

yatkāraṇaṃ mantravidhiḥ pravṛtto
jñāne phalaṃ yatpravadanti viprāḥ |
yanmantraśabdairakṛtaprakāśaṃ
taducyatāṃ me bhagavanyathāvat

199.5

यत्स्तोत्रशास्त्रागममन्त्रिविद्भि
र्यज्ञैरनेकैरथ गोप्रदानैः ।
फलं महद्भिर्यदुपास्यते च
किं तत्कथं वा भविता क्व वा तत्

yatstotraśāstrāgamamantrividbhi
ryajñairanekairatha gopradānaiḥ |
phalaṃ mahadbhiryadupāsyate ca
kiṃ tatkathaṃ vā bhavitā kva vā tat

199.6

मही महीजाः पवनोऽन्तरिक्षं
जलौकसश्चैव जलं तथा द्यौः ।
दिवौकसश्चापि यतः प्रसूता
स्तदुच्यतां मे भगवन्पुराणम्

mahī mahījāḥ pavano'ntarikṣaṃ
jalaukasaścaiva jalaṃ tathā dyauḥ |
divaukasaścāpi yataḥ prasūtā
staducyatāṃ me bhagavanpurāṇam

199.7

ज्ञानं यतः प्रार्थयते नरो वै
ततस्तदर्था भवति प्रवृत्तिः ।
न चाप्यहं वेद परं पुराणं
मिथ्याप्रवृत्तिं च कथं नु कुर्याम्

jñānaṃ yataḥ prārthayate naro vai
tatastadarthā bhavati pravṛttiḥ |
na cāpyahaṃ veda paraṃ purāṇaṃ
mithyāpravṛttiṃ ca kathaṃ nu kuryām

199.8

ऋक्सामसङ्घांश्च यजूंषि चाहं
छन्दांसि नक्षत्रगतिं निरुक्तम् ।
अधीत्य च व्याकरणं सकल्पं
शिक्षां च भूतप्रकृतिं न वेद्मि

ṛksāmasaṅghāṃśca yajūṃṣi cāhaṃ
chandāṃsi nakṣatragatiṃ niruktam |
adhītya ca vyākaraṇaṃ sakalpaṃ
śikṣāṃ ca bhūtaprakṛtiṃ na vedmi

199.9

स मे भवाञ्शंसतु सर्वमेत
त्सामान्यशब्दैश्च विशेषणैश्च ।
स मे भवाञ्शंसतु तावदेत
ज्ज्ञाने फलं कर्मणि वा यदस्ति

sa me bhavāñśaṃsatu sarvameta
tsāmānyaśabdaiśca viśeṣaṇaiśca |
sa me bhavāñśaṃsatu tāvadeta
jjñāne phalaṃ karmaṇi vā yadasti

199.10

यथा च देहाच्च्यवते शरीरी
(मनुरुवाच)
पुनः शरीरं च यथाऽभ्युपैति ।
यद्यत्प्रियं यस्य सुखं तदाहु
स्तदेव दुःखं प्रवदन्त्यनिष्टम्

yathā ca dehāccyavate śarīrī
(manuruvāca)
punaḥ śarīraṃ ca yathā'bhyupaiti |
yadyatpriyaṃ yasya sukhaṃ tadāhu
stadeva duḥkhaṃ pravadantyaniṣṭam

199.11

इष्टं च मे स्यादितरच्च न स्या
देतत्कृते कर्मविधिः प्रवृत्तः ।
इष्टं त्वनिष्टं च न मां भजेते
त्येतत्कृते ज्ञानविधिः प्रवृत्तः

iṣṭaṃ ca me syāditaracca na syā
detatkṛte karmavidhiḥ pravṛttaḥ |
iṣṭaṃ tvaniṣṭaṃ ca na māṃ bhajete
tyetatkṛte jñānavidhiḥ pravṛttaḥ

199.12

[कामात्मकाश्छन्दसि कर्मयोगा
(बृहस्पतिरुवाच)
एभिर्विमुक्तः परमश्नुवीत् ।
नानाविधे कर्मपथे सुखार्थी
नरः प्रवृत्तो निरयं प्रयाति ।]
इष्टं त्वनिष्टं च सुखासुखे च
साशीस्तपश्छन्दति कर्मभिश्च

[kāmātmakāśchandasi karmayogā
(bṛhaspatiruvāca)
ebhirvimuktaḥ paramaśnuvīt |
nānāvidhe karmapathe sukhārthī
naraḥ pravṛtto nirayaṃ prayāti |]
iṣṭaṃ tvaniṣṭaṃ ca sukhāsukhe ca
sāśīstapaśchandati karmabhiśca

मनुरुवाच

199.13

एभिर्विमुक्तः परमाविवेश
एतत्कृते कर्मविधिः प्रवृत्तः ।
[कामात्मकांश्छन्दति कर्मयोग
एभिर्विमुक्तः परमाददीत ॥]

ebhirvimuktaḥ paramāviveśa
etatkṛte karmavidhiḥ pravṛttaḥ |
[kāmātmakāṃśchandati karmayoga
ebhirvimuktaḥ paramādadīta ||]

199.14

आत्मादिभिः कर्मभिरिध्यमानो
धर्मे प्रवृत्तो द्युतिमान्सुखार्थी ।
परं हि तत्कर्मफलादपेतं
निराशिषो यत्पदमाप्नुवन्ति

ātmādibhiḥ karmabhiridhyamāno
dharme pravṛtto dyutimānsukhārthī |
paraṃ hi tatkarmaphalādapetaṃ
nirāśiṣo yatpadamāpnuvanti

199.15

प्रजाः सृष्टा मनसा कर्मणा च
द्वावेवैतौ सत्पथौ लोकजुष्टौ ।
दृष्टं कर्माशाश्वतं चान्तवच्च
मनस्त्यागे कारणं नान्यदस्ति

prajāḥ sṛṣṭā manasā karmaṇā ca
dvāvevaitau satpathau lokajuṣṭau |
dṛṣṭaṃ karmāśāśvataṃ cāntavacca
manastyāge kāraṇaṃ nānyadasti

199.16

निराशिषो ब्रह्म परं ह्युपेतम्

nirāśiṣo brahma paraṃ hyupetam

199.17

स्वेनात्मना चक्षुरिव प्रणेता
निशात्यये तमसा संवृतात्मा ।
ज्ञानं तु विज्ञानगुणेन युक्तं
कर्माशुभं पश्यति वर्जनीयम्

svenātmanā cakṣuriva praṇetā
niśātyaye tamasā saṃvṛtātmā |
jñānaṃ tu vijñānaguṇena yuktaṃ
karmāśubhaṃ paśyati varjanīyam

199.18

सर्पान्कृशाग्राणि तथोदपानं
त्वा मनुष्याः परिवर्जयन्ति ।
अज्ञामतस्तत्र पतन्ति मूढा
ज्ञाने फलं पश्य यथा विशिष्टम्

sarpānkṛśāgrāṇi tathodapānaṃ
tvā manuṣyāḥ parivarjayanti |
ajñāmatastatra patanti mūḍhā
jñāne phalaṃ paśya yathā viśiṣṭam

199.19

कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो
यज्ञा यथोक्तास्त्विह दक्षिणाश्च ।
अन्नप्रदानं मनसः समाधिः
पञ्चात्मकं कर्मफलं वदन्ति

kṛtsnastu mantro vidhivatprayukto
yajñā yathoktāstviha dakṣiṇāśca |
annapradānaṃ manasaḥ samādhiḥ
pañcātmakaṃ karmaphalaṃ vadanti

199.20

गुणात्मकं कर्म वदन्ति वेदा
स्तस्मान्मन्त्रो मन्नपूर्वं हि कर्म ।
विधिर्विधेयं मनसोपपत्तिः
फलस्य भोक्ता तु तथा शरीरी

guṇātmakaṃ karma vadanti vedā
stasmānmantro mannapūrvaṃ hi karma |
vidhirvidheyaṃ manasopapattiḥ
phalasya bhoktā tu tathā śarīrī

199.21

शब्दाश्च रूपाणि रसाश्च पुण्याः ।
स्पर्शाश्च गन्धाश्च शुभास्तथैव ।
नरोऽत्र हि स्थानगतः प्रभुः स्या
देतत्फलं सिद्ध्यति कर्मणोऽस्य

śabdāśca rūpāṇi rasāśca puṇyāḥ |
sparśāśca gandhāśca śubhāstathaiva |
naro'tra hi sthānagataḥ prabhuḥ syā
detatphalaṃ siddhyati karmaṇo'sya

199.22

यद्यच्छरीरेण करोति कर्म
शरीरयुक्तः समुपाश्नुते तत् ।
शरीरमेवायतनं सुखस्य
दुःखस्य चाप्यायतनं शरीरम्

yadyaccharīreṇa karoti karma
śarīrayuktaḥ samupāśnute tat |
śarīramevāyatanaṃ sukhasya
duḥkhasya cāpyāyatanaṃ śarīram

199.23

वाचा तु यत्कर्म करोति किंचि
द्वाचैव सर्वं समुपाश्नुते तत् ।
मनस्तु यत्कर्म करोति किंचि
न्मनःस्थ एवायमुपाश्नुते तत्

vācā tu yatkarma karoti kiṃci
dvācaiva sarvaṃ samupāśnute tat |
manastu yatkarma karoti kiṃci
nmanaḥstha evāyamupāśnute tat

199.24

यथायथा कर्मगुणां फलार्थी
करोत्ययं कर्मफले निविष्टः ।
तथातथाऽयं गुणसंप्रयुक्तः
शुभाशुभं कर्मफलं भुनस्ति

yathāyathā karmaguṇāṃ phalārthī
karotyayaṃ karmaphale niviṣṭaḥ |
tathātathā'yaṃ guṇasaṃprayuktaḥ
śubhāśubhaṃ karmaphalaṃ bhunasti

199.25

मत्स्यो यथा स्रोत इवाभिपाती
तथा कृतं पूर्वमुपैति कर्म ।
शुभे त्वसौ तुष्यति दुष्कृते तु
न तुष्यते वै परमः शरीरी

matsyo yathā srota ivābhipātī
tathā kṛtaṃ pūrvamupaiti karma |
śubhe tvasau tuṣyati duṣkṛte tu
na tuṣyate vai paramaḥ śarīrī

199.26

यतो जगत्सर्वमिदं प्रसूतं
ज्ञात्वाऽऽत्मवन्तो ह्युपयान्ति शान्तिम् ।
यन्मन्त्रशब्देरकृतप्रकाशं
तदुच्यमानं शणु मे परं यत्

yato jagatsarvamidaṃ prasūtaṃ
jñātvā''tmavanto hyupayānti śāntim |
yanmantraśabderakṛtaprakāśaṃ
taducyamānaṃ śaṇu me paraṃ yat

199.27

रसैर्विमुक्तं विविधैश्च गन्धै
रशब्दमस्पर्शमरूपवच्च ।
अग्राह्यमव्यक्तमवर्णमेकं
पञ्चप्रकारान्ससृजे प्रजानाम्

rasairvimuktaṃ vividhaiśca gandhai
raśabdamasparśamarūpavacca |
agrāhyamavyaktamavarṇamekaṃ
pañcaprakārānsasṛje prajānām

199.28

न स्त्री पुमान्नापि नपुंसकं च
न सन्न चासत्सदसच्च तन्न ।
पश्यन्ति तद्ब्रह्मविदो मनुष्या
स्तदक्षरं न क्षरतीति विद्धि

na strī pumānnāpi napuṃsakaṃ ca
na sanna cāsatsadasacca tanna |
paśyanti tadbrahmavido manuṣyā
stadakṣaraṃ na kṣaratīti viddhi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)