शान्ति पर्व

अध्याय 197: जापक, इक्ष्वाकु और सत्य का दान

इति श्रीमन्महाभारते सान्तिपर्वणि मोक्षधर्मपर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥

138 श्लोक · 197 में से 372

इस अध्याय में क्या होता है

जापक, इक्ष्वाकु और सत्य का दान

भीष्म काल, मृत्यु, यम, इक्ष्वाकु और एक ब्राह्मण का विवाद सुनाते हैं। हिमालय तले जापक कौशिक हज़ार वर्ष संहिता जपता है; वेदमाता सावित्री प्रकट होकर वर देती हैं कि उसकी जप में रुचि बढ़ेगी। धर्म आकर कहते हैं कि शरीर त्यागकर जीते हुए लोकों में जाओ; वह शरीर के बिना जाने से मना करता है। तीर्थयात्रा पर आए राजा इक्ष्वाकु उसे दान देना चाहते हैं; ब्राह्मण दान नहीं लेता, उलटे राजा से माँगने को कहता है, और इक्ष्वाकु जप का फल माँग लेते हैं। ब्राह्मण फल देकर, सत्य को यज्ञ और तप से ऊपर बताते हुए, उसे लेने का आग्रह करता है। फिर झगड़ते हुए विरूप और विकृत न्याय माँगने आते हैं, जो परीक्षा लेने आए काम और क्रोध निकलते हैं।

युधिष्ठिर उवाच

197.1

कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च ।
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति

kālamṛtyuyamānāṃ te ikṣvākorbrāhmaṇasya ca |
vivādo vyāhṛtaḥ pūrvaṃ tadbhavānvaktumarhati

भीष्म उवाच

197.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च

atrāpyudāharantīmamitihāsaṃ purātanam |
ikṣvākoḥ sūryaputrasya yadvṛttaṃ brāhmaṇasya ca

197.3

कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे ।
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ।
येनैव कारणेनात्र धर्मवादसमन्वितः

kālasya mṛtyośca tathā yadvṛttaṃ tannibodha me |
yathā sa teṣāṃ saṃvādo yasminsthāne'pi cābhavat |
yenaiva kāraṇenātra dharmavādasamanvitaḥ

197.4

ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः ।
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः

brāhmaṇo jāpakaḥ kaściddharmavṛtto mahāyaśāḥ |
ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ

197.5

तस्यापरोक्षं विज्ञानं षडङ्गेषु वभूव ह ।
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः

tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu vabhūva ha |
vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ

197.6

सोयं ब्राह्मं पस्तेपे संहितां संयतो जपन् ।
तस्य वर्षसहस्रं तु नियमेन तथा गतम्

soyaṃ brāhmaṃ pastepe saṃhitāṃ saṃyato japan |
tasya varṣasahasraṃ tu niyamena tathā gatam

197.7

स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल ।
जप्यमावर्तयंस्तूष्णीं न स तां किंचिदब्रवीत्

sa devyā darśitaḥ sākṣātprītāsmīti tadā kila |
japyamāvartayaṃstūṣṇīṃ na sa tāṃ kiṃcidabravīt

197.8

तस्यानुकम्पया देवी प्रीता समभवत्तदा ।
वेदमाता ततस्तस्य तज्जप्यं समपूजयत्

tasyānukampayā devī prītā samabhavattadā |
vedamātā tatastasya tajjapyaṃ samapūjayat

197.9

चतुर्भिरक्षरैर्युक्ता सोमपानेऽक्षराष्टका ।
जगद्बीजसमायुक्ता चनुर्विशाक्षरात्मिका

caturbhirakṣarairyuktā somapāne'kṣarāṣṭakā |
jagadbījasamāyuktā canurviśākṣarātmikā

197.10

समाप्य जप्यं तूत्थाय शिरसा पादयोस्तदा ।
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्

samāpya japyaṃ tūtthāya śirasā pādayostadā |
papāta devyā dharmātmā vacanaṃ cedamabravīt

197.11

दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम ।
यदि चापि प्रसन्नासि जप्ये मे रमतां मनः

diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama |
yadi cāpi prasannāsi japye me ramatāṃ manaḥ

सावित्र्युवाच

197.12

किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते ।
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति

kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te |
prabrūhi japatāṃ śreṣṭha sarvaṃ tatte bhaviṣyati

197.13

इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् ।
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः

ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit |
japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ

197.14

मनसश्च समाधिर्मे वर्धेताहरहः शुभे ।
तत्तथेति ततो देवी मधुरं प्रत्यभाषत

manasaśca samādhirme vardhetāharahaḥ śubhe |
tattatheti tato devī madhuraṃ pratyabhāṣata

197.15

इदं चैवापरं प्राह देवी तत्प्रियकाम्यया ।
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः

idaṃ caivāparaṃ prāha devī tatpriyakāmyayā |
nirayaṃ naiva yātā tvaṃ yatra yātā dvijarṣabhāḥ

197.16

यास्यसि ब्रह्मणः स्थानमनिमित्तमतन्द्रितः ।
साधु ते भविता चैतद्यत्त्वयाऽहमिहार्थिता

yāsyasi brahmaṇaḥ sthānamanimittamatandritaḥ |
sādhu te bhavitā caitadyattvayā'hamihārthitā

197.17

नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति ।
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ।
भविता च विवादोऽत्र तव तेषां च धर्मतः

niyato japa caikāgro dharmastvāṃ samupaiṣyati |
kālo mṛtyuryamaścaiva samāyāsyanti te'ntikam |
bhavitā ca vivādo'tra tava teṣāṃ ca dharmataḥ

भीष्म उवाच

197.18

एवमुक्त्वा भगवती जगाम भवनं स्वकम्

evamuktvā bhagavatī jagāma bhavanaṃ svakam

197.19

ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा ।
सदा दान्तो जितक्रोधः सत्यसन्धोऽनसूयकः

brāhmaṇo'pi japannāste divyaṃ varṣaśataṃ tathā |
sadā dānto jitakrodhaḥ satyasandho'nasūyakaḥ

197.20

समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः ।
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्

samāpte niyame tasminnatha viprasya dhīmataḥ |
sākṣātprītastadā dharmo darśayāmāsa taṃ dvijam

धर्म उवाच

197.21

द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः ।
जप्यस्यास्य फलं यत्तत्प्रंप्राप्तं तच्च मे शृणु

dvijāte paśya māṃ dharmamahaṃ tvāṃ draṣṭumāgataḥ |
japyasyāsya phalaṃ yattatpraṃprāptaṃ tacca me śṛṇu

197.22

जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः ।
देवानां निलयान्साधो सर्वानुत्क्रम्य यास्यसि

jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ |
devānāṃ nilayānsādho sarvānutkramya yāsyasi

197.23

प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् ।
त्यक्त्वाऽऽत्मनः शरीरं च ततो लोकानवाप्स्यसि

prāṇatyāgaṃ kuru mune gaccha lokānyathepsitān |
tyaktvā''tmanaḥ śarīraṃ ca tato lokānavāpsyasi

ब्राह्मण उवाच

197.24

कृतं लोकेन मे धर्म गच्छ त्वं च यथासुखम् ।
बहुदुःखमहं देहं नोत्सृजेयमहं विभो

kṛtaṃ lokena me dharma gaccha tvaṃ ca yathāsukham |
bahuduḥkhamahaṃ dehaṃ notsṛjeyamahaṃ vibho

धर्म उवाच

197.25

अचलं ते मनः कृत्वा त्यज देहं महामते ।
अनेन किं ते संयोगः कथं मोहं गमिष्यसि

acalaṃ te manaḥ kṛtvā tyaja dehaṃ mahāmate |
anena kiṃ te saṃyogaḥ kathaṃ mohaṃ gamiṣyasi

197.26

अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव ।
स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ

avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṅgava |
svargamāroha bho vipra kiṃ vā vai rocate'nagha

ब्राह्मण उवाच

197.27

किमुक्तं धर्म किं नेति कस्मान्मां प्रोक्तवानसि ।
त्यज देहं द्विजेति त्वं ससंबुध्यात्र मे यदि

kimuktaṃ dharma kiṃ neti kasmānmāṃ proktavānasi |
tyaja dehaṃ dvijeti tvaṃ sasaṃbudhyātra me yadi

197.28

न रोचये स्वर्गवासं विना देहमहं विभो ।
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽऽत्मना

na rocaye svargavāsaṃ vinā dehamahaṃ vibho |
gaccha dharma na me śraddhā svargaṃ gantuṃ vinā''tmanā

धर्म उवाच

197.29

अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव ।
गच्छ लोकानरजसो यत्र गत्वा न शोचसि

alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava |
gaccha lokānarajaso yatra gatvā na śocasi

ब्राह्मण उवाच

197.30

रमे जपन्महाभाग कृतं लोकैः सनातनैः ।
सशरीरेण गन्तव्यं मया स्वर्गं न चान्यथा

rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ |
saśarīreṇa gantavyaṃ mayā svargaṃ na cānyathā

धर्म उवाच

197.31

एवं ते कायसंप्रातिर्वर्तते मुनिसत्तम ।
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज ।
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः

evaṃ te kāyasaṃprātirvartate munisattama |
yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija |
eṣa kālastathā mṛtyuryamaśca tvāmupāgatāḥ

भीष्म उवाच

197.32

अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो ।
ब्राह्मणं तं महाभागमुपगम्येदमब्रवन्

atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho |
brāhmaṇaṃ taṃ mahābhāgamupagamyedamabravan

यम उवाच

197.33

तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च ।
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे

tapaso'sya sutaptasya tathā sucaritasya ca |
phalaprāptistava śreṣṭhā yamo'haṃ tvāmupabruve

काल उवाच

197.34

यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् ।
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः

yathāvadasya japyasya phalaṃ prāptastvamuttamam |
kālaste svargamāroḍhuṃ kālo'haṃ tvāmupāgataḥ

मृत्युरुवाच

197.35

मृत्युं मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम् ।
कालेन चोदितो विप्र त्वामितो नेतुमद्य वै

mṛtyuṃ māṃ viddhi dharmajña rūpiṇaṃ svayamāgatam |
kālena codito vipra tvāmito netumadya vai

ब्राह्मण उवाच

197.36

स्वागतं सूर्यपुत्राय कालाय च महात्मने ।
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः

svāgataṃ sūryaputrāya kālāya ca mahātmane |
mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ

भीष्म उवाच

197.37

अर्ध्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागम ।
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः

ardhyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgama |
abravītparamaprītaḥ svaśaktyā kiṃ karomi vaḥ

197.38

स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः ।
भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः

svakāryanirbharā yūyaṃ paropadravahetavaḥ |
bhavanto lokasāmānyāḥ kimarthaṃ brūta sattamāḥ

यम उवाच

197.39

वयमप्येवमत्युग्रा धातुराज्ञापुरः सराः ।
चोदिता धावमाना वै कर्मभावमनुव्रताः

vayamapyevamatyugrā dhāturājñāpuraḥ sarāḥ |
coditā dhāvamānā vai karmabhāvamanuvratāḥ

भीष्म उवाच

197.40

तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः ।
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो

tasminnevātha kāle tu tīrthayātrāmupāgataḥ |
ikṣvākuragamattatra sametā yatra te vibho

197.41

सर्वानेव तु राजर्षिः संपूज्याथ प्रणम्य च ।
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः

sarvāneva tu rājarṣiḥ saṃpūjyātha praṇamya ca |
kuśalapraśnamakarotsarveṣāṃ rājasattamaḥ

197.42

तस्मै सोऽथासनं दत्त्वा पाद्यमर्ध्यं तथैव च ।
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्

tasmai so'thāsanaṃ dattvā pādyamardhyaṃ tathaiva ca |
abravīdbrāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam

197.43

स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि ।
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु माम

svāgataṃ te mahārāja brūhi yadyadihecchasi |
svaśaktyā kiṃ karomīha tadbhavānprabravītu māma

राजोवाच

197.44

राजाऽहं ब्राह्मणश्च त्वं यदा षट्‌कर्मसंस्थितः ।
ददानि वसु किंचित्ते प्रार्थितं तद्वदस्व मे

rājā'haṃ brāhmaṇaśca tvaṃ yadā ṣaṭ‌karmasaṃsthitaḥ |
dadāni vasu kiṃcitte prārthitaṃ tadvadasva me

ब्राह्मण उवाच

197.45

द्विविधो ब्राह्मणो राजन्धर्मश्च द्विविधः स्मृतः ।
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽह प्रतिग्रहात्

dvividho brāhmaṇo rājandharmaśca dvividhaḥ smṛtaḥ |
pravṛttaśca nivṛttaśca nivṛtto'ha pratigrahāt

197.46

तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप ।
अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते ।
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्

tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa |
ahaṃ na pratigṛhṇāmi kimiṣṭaṃ kiṃ dadāmi te |
brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim

राजोवाच

197.47

क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् ।
प्रयच्छ युद्धमित्येवंवादी चास्मि द्विजोत्तम

kṣatriyo'haṃ na jānāmi dehīti vacanaṃ kvacit |
prayaccha yuddhamityevaṃvādī cāsmi dvijottama

ब्राह्मण उवाच

197.48

तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप ।
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर

tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa |
anyonyasyottaraṃ nāsti yadiṣṭaṃ tatsamācara

राजोवाच

197.49

स्वशक्त्याऽहं ददानीति त्वया पूर्वमुदाहृतम् ।
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज

svaśaktyā'haṃ dadānīti tvayā pūrvamudāhṛtam |
yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija

ब्राह्मण उवाच

197.50

युद्धं मम सदा वाणी याचतीति विकत्थसे ।
न च युद्धं मया सार्धं किमर्थं याचसे पुनः

yuddhaṃ mama sadā vāṇī yācatīti vikatthase |
na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ

राजोवाच

197.51

वाग्वज्राब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः ।
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह

vāgvajrābrāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ |
vāgyuddhaṃ tadidaṃ tīvraṃ mama vipra tvayā saha

ब्राह्मण उवाच

197.52

सेयमद्य प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् ।
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम्

seyamadya pratijñā me svaśaktyā kiṃ pradīyatām |
brūhi dāsyāmi rājendra vibhave sati māciram

राजोवाच

197.53

यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया ।
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि

yattadvarṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā |
phalaṃ prāptaṃ tatprayaccha mama ditsurbhavānyadi

ब्राह्मण उवाच

197.54

परमं गृह्यतां तस्य फलं यज्जपितं मया ।
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि

paramaṃ gṛhyatāṃ tasya phalaṃ yajjapitaṃ mayā |
ardhaṃ tvamavicāreṇa phalaṃ tasya hyavāpnuhi

197.55

अथवा सर्वमेवेह मामकं जापकं फलम् ।
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि

athavā sarvameveha māmakaṃ jāpakaṃ phalam |
rājanprāpnuhi kāmaṃ tvaṃ yadi sarvamihecchasi

राजोवाच

197.56

कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया ।
स्वस्ति तेऽस्तु गमिष्यामि किंच तस्य फलं वद

kṛtaṃ sarveṇa bhadraṃ te japyaṃ yadyācitaṃ mayā |
svasti te'stu gamiṣyāmi kiṃca tasya phalaṃ vada

ब्राह्मण उवाच

197.57

फलप्राप्तिं न जानामि दत्तं यज्जपितं मया ।
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः

phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā |
ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ

राजोवाच

197.58

अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति ।
फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम् ।
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम्

ajñātamasya dharmasya phalaṃ kiṃ me kariṣyati |
phalaṃ bravīṣi dharmasya na cejjapyakṛtasya mām |
prāpnotu tatphalaṃ vipro nāhamicche sasaṃśayam

ब्राह्मण उवाच

197.59

नाददेऽपरदत्तं वै दत्तं वा चाफलं मया ।
वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि

nādade'paradattaṃ vai dattaṃ vā cāphalaṃ mayā |
vākyaṃ pramāṇaṃ rājarṣe mamādya tava caiva hi

197.60

सकृदंशो निपतति सकृत्कन्या प्रदीतये ।
सकृदेव ददानीति त्रीण्येतानि सकृत्सकृत्

sakṛdaṃśo nipatati sakṛtkanyā pradītaye |
sakṛdeva dadānīti trīṇyetāni sakṛtsakṛt

197.61

नाभिसंधिर्मया जप्ये कृतपूर्वः कदाचन ।
जप्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम्

nābhisaṃdhirmayā japye kṛtapūrvaḥ kadācana |
japyasya rājaśārdūla kathaṃ vetsyāmyahaṃ phalam

197.62

ददस्वेति त्वया चोक्तं दत्तं वाचा फलं मया ।
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव

dadasveti tvayā coktaṃ dattaṃ vācā phalaṃ mayā |
na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava

197.63

अथैवं वदतो मेऽद्य वचनं न करिष्यसि ।
महानधर्मो भविता तव राजन्मृषा कृतः

athaivaṃ vadato me'dya vacanaṃ na kariṣyasi |
mahānadharmo bhavitā tava rājanmṛṣā kṛtaḥ

197.64

न युक्ता तु मृषावाणी त्वया वक्तुमरिंदम ।
तथा मयाऽप्यभिहितं मिथ्या कर्तुं न शक्यते

na yuktā tu mṛṣāvāṇī tvayā vaktumariṃdama |
tathā mayā'pyabhihitaṃ mithyā kartuṃ na śakyate

197.65

संश्रुतं च मया पूर्वं ददानीत्यविचारितम् ।
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान्

saṃśrutaṃ ca mayā pūrvaṃ dadānītyavicāritam |
tadgṛhṇīṣvāvicāreṇa yadi satye sthito bhavān

197.66

इहागम्य हि मां राजञ्जाप्यं फलमयाचथाः ।
तन्मे निसृष्टं गृह्णीष्व भव सत्येस्थितोपि च

ihāgamya hi māṃ rājañjāpyaṃ phalamayācathāḥ |
tanme nisṛṣṭaṃ gṛhṇīṣva bhava satyesthitopi ca

197.67

नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् ।
कुत एवापरान्राजन्मृषावादपरायणः

nāyaṃ loko'sti na paro na ca pūrvānsa tārayet |
kuta evāparānrājanmṛṣāvādaparāyaṇaḥ

197.68

न यज्ञाध्ययने दानं नियमास्तारयन्ति हि ।
यथा सत्यं परे लोके तथेह पुरुषर्षभ

na yajñādhyayane dānaṃ niyamāstārayanti hi |
yathā satyaṃ pare loke tatheha puruṣarṣabha

197.69

तपांसि यानि चीर्णानि चरिष्यन्ति च यत्तपः ।
समाशतैः सहस्रैश्च तत्सत्यान्न विशिष्यते

tapāṃsi yāni cīrṇāni cariṣyanti ca yattapaḥ |
samāśataiḥ sahasraiśca tatsatyānna viśiṣyate

197.70

सत्यमेकं परं ब्रह्म सत्यमेकं परं तपः ।
सत्यमेकं परो यज्ञः सत्यमेकं परं श्रुतम्

satyamekaṃ paraṃ brahma satyamekaṃ paraṃ tapaḥ |
satyamekaṃ paro yajñaḥ satyamekaṃ paraṃ śrutam

197.71

सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।
तपो धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम्

satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam |
tapo dharmo damaścaiva sarvaṃ satye pratiṣṭhitam

197.72

सत्यं वेदास्तथाङ्गानि सत्यं यज्ञास्तथा विधिः ।
व्रतचर्या तथा सत्यमोंकारः सत्यमेव च

satyaṃ vedāstathāṅgāni satyaṃ yajñāstathā vidhiḥ |
vratacaryā tathā satyamoṃkāraḥ satyameva ca

197.73

प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च ।
सत्येन वायुरभ्येति सत्येन तपते रविः

prāṇināṃ jananaṃ satyaṃ satyaṃ santatireva ca |
satyena vāyurabhyeti satyena tapate raviḥ

197.74

सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती

satyena cāgnirdahati svargaḥ satye pratiṣṭhitaḥ |
satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī

197.75

तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् ।
समां कक्षां धारयतो यः सत्यं ततोऽधिकम्

tulāmāropito dharmaḥ satyaṃ caiveti naḥ śrutam |
samāṃ kakṣāṃ dhārayato yaḥ satyaṃ tato'dhikam

197.76

यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते ।
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि

yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate |
kimarthamanṛtaṃ karma kartuṃ rājaṃstvamicchasi

197.77

सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः ।
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम्

satye kuru sthiraṃ bhāvaṃ mā rājannanṛtaṃ kṛthāḥ |
kasmāttvamanṛtaṃ vākyaṃ dehīti kuruṣe'śubham

197.78

यदि जप्यफलं दत्तं मया नेच्छसि वै नृप ।
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि

yadi japyaphalaṃ dattaṃ mayā necchasi vai nṛpa |
svadharmebhyaḥ paribhraṣṭo lokānanucariṣyasi

197.79

संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति ।
उभावानृतिकावेतो न मृपा कर्तुमर्हसि

saṃśrutya yo na ditseta yācitvā yaśca necchati |
ubhāvānṛtikāveto na mṛpā kartumarhasi

राजोवाच

197.80

योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज ।
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्

yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija |
dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham

ब्राह्मण उवाच

197.81

न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम् ।
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम्

na cchandayāmi te rājannāpi te gṛhamāvrajam |
ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham

धर्म उवाच

197.82

अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् ।
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च

avivādo'stu yuvayorvittaṃ māṃ dharmamāgatam |
dvijo dānaphalairyukto rājā satyaphalena ca

स्वर्ग उवाच

197.83

स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् ।
अविवादोऽस्तु युवयोरुमौ तुल्यफलौ युवाम्

svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayamāgatam |
avivādo'stu yuvayorumau tulyaphalau yuvām

राजोवाच

197.84

कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम् ।
विप्रो यदीच्छते दातुं चीर्णं गृह्णातु मे फलम्

kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāgatam |
vipro yadīcchate dātuṃ cīrṇaṃ gṛhṇātu me phalam

ब्राह्मण उवाच

197.85

बाल्ये यदि स्मादज्ञानान्मया हस्तः प्रसारितः ।
निवृत्तलक्षणं धर्ममुपासे संहितां जपन्

bālye yadi smādajñānānmayā hastaḥ prasāritaḥ |
nivṛttalakṣaṇaṃ dharmamupāse saṃhitāṃ japan

197.86

निवृत्तं मां चिराद्राजन्विप्रलोभयसे कथम् ।
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप ।
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात्

nivṛttaṃ māṃ cirādrājanvipralobhayase katham |
svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa |
tapaḥsvādhyāyaśīlo'haṃ nivṛttaśca pratigrahāt

राजोवाच

197.87

यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम् ।
आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह

yadi vipra visṛṣṭaṃ te japyasya phalamuttamam |
āvayoryatphalaṃ kiṃcitsahitaṃ nau tadastviha

197.88

द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः ।
यदि धर्मः क्षुतो विप्र सहैव फलमस्तु नौ

dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ |
yadi dharmaḥ kṣuto vipra sahaiva phalamastu nau

197.89

मा वा भूत्सह भोज्यं नौ मदीयं फलमाप्नुहि ।
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः

mā vā bhūtsaha bhojyaṃ nau madīyaṃ phalamāpnuhi |
pratīccha matkṛtaṃ dharmaṃ yadi te mayyanugrahaḥ

भीष्म उवाच

197.90

ततो विकृतवैषौ द्वौ पुरुषौ समुपस्थितौ ।
गृहीत्वाऽन्योन्यमावेष्ठ्य कुचेलावूचतुर्वचः

tato vikṛtavaiṣau dvau puruṣau samupasthitau |
gṛhītvā'nyonyamāveṣṭhya kucelāvūcaturvacaḥ

197.91

न मे धारयसीत्येको धारयामीति चापरः ।
इहास्ति नौ विवादोऽयमयं राजाऽनुशासकः

na me dhārayasītyeko dhārayāmīti cāparaḥ |
ihāsti nau vivādo'yamayaṃ rājā'nuśāsakaḥ

197.92

सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् ।
अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ।

satyaṃ bravīmyahamidaṃ na me dhārayate bhavān |
anṛtaṃ vadasīha tvamṛṇaṃ te dhārayāmyaham |

197.93

तावुभौ सुभृशं तप्तौ राजानमिदमृचतुः ।
परीक्ष्यौ तु यथा स्याव नावामिह विगर्हितौ

tāvubhau subhṛśaṃ taptau rājānamidamṛcatuḥ |
parīkṣyau tu yathā syāva nāvāmiha vigarhitau

विरूप उवाच

197.94

घारयामि नरव्याघ्र विकृतस्येह गोः फलम् ।
ददतश्च न गृह्णाति विकृतो मे महीपते

ghārayāmi naravyāghra vikṛtasyeha goḥ phalam |
dadataśca na gṛhṇāti vikṛto me mahīpate

विकृत उवाच

197.95

न मे धारयते किंचिद्विरूपोऽयं नराधिप ।
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप

na me dhārayate kiṃcidvirūpo'yaṃ narādhipa |
mithyā bravītyayaṃ hi tvāṃ satyābhāsaṃ narādhipa

राजोवाच

197.96

विरूप किं धारयते भवानस्य ब्रवीतु मे ।
श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः

virūpa kiṃ dhārayate bhavānasya bravītu me |
śrutvā tathā kariṣye'hamiti me dhīyate manaḥ

विरूप उवाच

197.97

शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् ।
विकृतस्यास्य राजर्षे निखिलेन नराधिप

śṛṇuṣvāvahito rājanyathaitaddhārayāmyaham |
vikṛtasyāsya rājarṣe nikhilena narādhipa

197.98

अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुराऽनघ ।
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने

anena dharmaprāptyarthaṃ śubhā dattā purā'nagha |
dhenurviprāya rājarṣe tapaḥsvādhyāyaśīline

197.99

तस्याश्चायं मया राजन्फलमभ्येत्य याचितः ।
विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना

tasyāścāyaṃ mayā rājanphalamabhyetya yācitaḥ |
vikṛtena ca me dattaṃ viśuddhenāntarātmanā

197.100

ततो मे सुकृतं कर्म कृतमात्मविशुद्धये ।
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने

tato me sukṛtaṃ karma kṛtamātmaviśuddhaye |
gāvau ca kapile krītvā vatsale bahudohane

197.101

ते चोञ्छवृत्तये राजन्मया समुपवर्जिते ।
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो

te coñchavṛttaye rājanmayā samupavarjite |
yathāvidhi yathāśraddhaṃ tadasyāhaṃ punaḥ prabho

197.102

इहाद्यैव प्रयच्छामि गृहीत्वा द्विगुणां फलम् ।
एवं स्यात्पुरुषव्याघ्र कःशुद्धः कोऽत्र दोषवान्

ihādyaiva prayacchāmi gṛhītvā dviguṇāṃ phalam |
evaṃ syātpuruṣavyāghra kaḥśuddhaḥ ko'tra doṣavān

197.103

एवं विवदमानौ स्वस्त्यामिहाभ्यागतौ नृप ।
कुरु धर्ममधर्मं वा विनये नौ समादध

evaṃ vivadamānau svastyāmihābhyāgatau nṛpa |
kuru dharmamadharmaṃ vā vinaye nau samādadha

197.104

यदि नेच्छति मे दानं यथा दत्तमनेन वै ।
भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताऽद्य नौ

yadi necchati me dānaṃ yathā dattamanena vai |
bhavānatra sthiro bhūtvā mārge sthāpayitā'dya nau

राजोवाच

197.105

दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै ।
यथैव तेऽभ्यनुज्ञातं यथा गृह्णीष्व माचिरम्

dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāttvamadya vai |
yathaiva te'bhyanujñātaṃ yathā gṛhṇīṣva māciram

विकृत उवाच

197.106

दीयतामित्यनेनोक्तं ददानीति तथा मया ।
नायं मे धारयत्यत्र गच्छतां यत्र वाञ्छति

dīyatāmityanenoktaṃ dadānīti tathā mayā |
nāyaṃ me dhārayatyatra gacchatāṃ yatra vāñchati

राजोवाच

197.107

ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे ।
दणड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः

dadato'sya na gṛhṇāsi viṣamaṃ pratibhāti me |
daṇaḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ

विकृत उवाच

197.108

मयाऽस्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः ।
को ममात्रापराधो मे दण्डमाज्ञापय प्रभो

mayā'sya dattaṃ rājarṣe gṛhṇīyāṃ tatkathaṃ punaḥ |
ko mamātrāparādho me daṇḍamājñāpaya prabho

विरूप उवाच

197.109

दीयमानं यदि मया न गृह्णासि कथंचन ।
नियच्छति त्वां नृपतिरयं धर्मानुशासकः

dīyamānaṃ yadi mayā na gṛhṇāsi kathaṃcana |
niyacchati tvāṃ nṛpatirayaṃ dharmānuśāsakaḥ

विकृत उवाच

197.110

स्वयं मया याचितेन दत्तं कथमिहाद्य तत् ।
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते

svayaṃ mayā yācitena dattaṃ kathamihādya tat |
gṛhṇīyāṃ gacchatu bhavānabhyanujñāṃ dadāni te

ब्राह्मण उवाच

197.111

श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः ।
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम्

śrutametattvayā rājannanayoḥ kathitaṃ dvayoḥ |
pratijñātaṃ mayā yatte tadgṛhāṇāvicāritam

राजोवाच

197.112

प्रस्तुतं सुमहत्कार्यमनयोर्गह्वरं यथा ।
जापकस्य दृढीकारः कथमेतद्भविष्यति

prastutaṃ sumahatkāryamanayorgahvaraṃ yathā |
jāpakasya dṛḍhīkāraḥ kathametadbhaviṣyati

197.113

यदि तावन्न गृह्णामि जापकेनापवर्जितम् ।
कथं न लिप्येयमहं पापेन महताऽद्य वै

yadi tāvanna gṛhṇāmi jāpakenāpavarjitam |
kathaṃ na lipyeyamahaṃ pāpena mahatā'dya vai

197.114

तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः ।
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा

tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ |
nedānīṃ māmihāsādya rājadharmo bhavenmṛṣā

197.115

स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः ।
विप्रधर्मश्च गहनो मामनात्मानमाविशत्

svadharmaḥ paripālyastu rājñāmiti viniścayaḥ |
vipradharmaśca gahano māmanātmānamāviśat

ब्राह्मण उवाच

197.116

गृहाण धारयेऽहं च याचितं संश्रुतं मया ।
न चेद्भहीष्यसे राजञ्शपिष्ये त्वां न संशयः

gṛhāṇa dhāraye'haṃ ca yācitaṃ saṃśrutaṃ mayā |
na cedbhahīṣyase rājañśapiṣye tvāṃ na saṃśayaḥ

राजोवाच

197.117

धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः ।
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति

dhigrājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ |
ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhavediti

197.118

एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः ।
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम्

eṣa pāṇirapūrvaṃ me nikṣepārthaṃ prasāritaḥ |
yanme dhārayase vipra tadidānīṃ pradīyatām

ब्राह्मण उवाच

197.119

संहितां जपता यावान्गुणः कश्चित्कृतो मया ।
तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे

saṃhitāṃ japatā yāvānguṇaḥ kaścitkṛto mayā |
tatsarvaṃ pratigṛhṇīṣva yadi kiṃcidihāsti me

राजोवाच

197.120

जलमेतन्निपतितं मम पाणौ द्विजोत्तम ।
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान्

jalametannipatitaṃ mama pāṇau dvijottama |
samamastu sahaivāstu pratigṛhṇātu vai bhavān

विरूप उवाच

197.121

कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् ।
जिज्ञासमानौ युवयोर्मनोत्थं तु द्विजोत्तम

kāmakrodhau viddhi nau tvamāvābhyāṃ kārito bhavān |
jijñāsamānau yuvayormanotthaṃ tu dvijottama

197.122

सहेति च यदुक्तं ते समा लोकास्तवास्य च ।
नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता

saheti ca yaduktaṃ te samā lokāstavāsya ca |
nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā

197.123

कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ।
सर्वमन्योन्यनिष्कर्षे निकृष्टं पश्यतस्तव

kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām |
sarvamanyonyaniṣkarṣe nikṛṣṭaṃ paśyatastava

197.124

सर्वेषामुपरिस्थानं ब्रह्मणो व्यक्तजन्मनः ।
युवयोः स्थानमूलं निर्द्वन्द्वममलात्मकम्

sarveṣāmuparisthānaṃ brahmaṇo vyaktajanmanaḥ |
yuvayoḥ sthānamūlaṃ nirdvandvamamalātmakam

197.125

सर्वे गच्छाम यत्र स्वान्स्वाँल्लोकांश्च तथा वयम् ।
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि

sarve gacchāma yatra svānsvām̐llokāṃśca tathā vayam |
gaccha lokāñjitānsvena karmaṇā yatra vāñchasi

197.126

ततो धर्मयमाद्यास्ते वाक्यमूचुर्नपर्द्विजौ ।
अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकमिति स्मृतं

tato dharmayamādyāste vākyamūcurnapardvijau |
asmākaṃ yaḥ smṛto mūrdhā brahmalokamiti smṛtaṃ

197.127

तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम् ।
युवयोः काम आपन्नस्तत्काम्यमविशङ्कया

tatrasthau hi bhavantau hi yuvābhyāṃ nirjitā vayam |
yuvayoḥ kāma āpannastatkāmyamaviśaṅkayā

भीष्म उवाच

197.128

जापकानां फलावाप्तिर्मया ते संप्रदर्शिता ।
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः

jāpakānāṃ phalāvāptirmayā te saṃpradarśitā |
gatiḥ sthānaṃ ca lokāśca jāpakena yathā jitāḥ

197.129

प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् ।
अथवाऽग्निं समायाति सूर्यमाविशतेऽपि वा

prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam |
athavā'gniṃ samāyāti sūryamāviśate'pi vā

197.130

स तैजसेन भावेन यदि तत्र रमत्युत ।
गुणांस्तेषां समाधत्ते रागेण प्रतिमोहितः

sa taijasena bhāvena yadi tatra ramatyuta |
guṇāṃsteṣāṃ samādhatte rāgeṇa pratimohitaḥ

197.131

एवं सोमे तथा वायौ भूम्याकाशशरीरगः ।
सरागस्तत्र वसति गुणांस्तेषां समाचरन्

evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ |
sarāgastatra vasati guṇāṃsteṣāṃ samācaran

197.132

अथ तत्र विरागी स परं गच्छत्यसंशयम् ।
परमव्ययमिच्छन्स तमेवाविशते पुनः

atha tatra virāgī sa paraṃ gacchatyasaṃśayam |
paramavyayamicchansa tamevāviśate punaḥ

197.133

अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान् ।
ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः

amṛtāccāmṛtaṃ prāptaḥ śāntībhūto nirātmavān |
brahmabhūtaḥ sa nirdvandvaḥ sukhī śānto nirāmayaḥ

197.134

ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम् ।
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते

brahmasthānamanāvartamekamakṣarasaṃjñakam |
aduḥkhamajaraṃ śāntaṃ sthānaṃ tatpratipadyate

197.135

चतुर्भिर्लक्षणैर्हीनं तथा पड्भिः सषोडशैः ।
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते

caturbhirlakṣaṇairhīnaṃ tathā paḍbhiḥ saṣoḍaśaiḥ |
puruṣaṃ tamatikramya ākāśaṃ pratipadyate

197.136

अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति ।
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते

atha necchati rāgātmā sarvaṃ tadadhitiṣṭhati |
yacca prārthayate tacca manasā pratipadyate

197.137

अथवा चेक्षते लोकान्सर्वान्निरयसंज्ञितान् ।
निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम्

athavā cekṣate lokānsarvānnirayasaṃjñitān |
nispṛhaḥ sarvato muktastatra vai ramate sukham

197.138

एवमेषा महाराज जापकस्य गतिर्यथा ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमर्हसि

evameṣā mahārāja jāpakasya gatiryathā |
etatte sarvamākhyātaṃ kiṃ bhūyaḥ śrotumarhasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)