शान्ति पर्व

अध्याय 150: जनमेजय की विनती और शौनक की स्वीकृति

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥

22 श्लोक · 150 में से 372

इस अध्याय में क्या होता है

जनमेजय की विनती और शौनक की स्वीकृति

जनमेजय उत्तर देते हैं कि मैं आपकी निन्दा के योग्य हूँ, इसलिए कृपा चाहता हूँ; यह मेरा ही किया है और मैं आग में जलने की तरह जल रहा हूँ। मुझे यम से भी भय है। वे विनती करते हैं कि जैसे पिता अज्ञानी पुत्र पर, वैसे कृपा करें ताकि कुल बचे। शौनक कहते हैं कि ज्ञानी प्रज्ञा के शिखर से लोगों को पर्वत से देखने की तरह देखते हैं, और राजा से ब्राह्मणों को प्रसन्न करने को कहते हैं। जनमेजय कहते हैं कि मैं पश्चात्ताप करता हूँ और फिर अधर्म नहीं करूँगा। शौनक उनसे दम्भ छोड़ने और ब्राह्मणों से कभी द्रोह न करने की प्रतिज्ञा माँगते हैं। जनमेजय चरण छूकर मन, वचन और कर्म से यह प्रतिज्ञा करते हैं।

भीष्म उवाच

150.1

एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः ।
गर्ह्यं भवान्गर्हयते निन्द्यं निन्दति मां पुनः

evamuktaḥ pratyuvāca taṃ muniṃ janamejayaḥ |
garhyaṃ bhavāngarhayate nindyaṃ nindati māṃ punaḥ

150.2

धिक्कार्यं मां धिक्कुरुते तस्मात्त्वाऽहं प्रसादये ।
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितम्

dhikkāryaṃ māṃ dhikkurute tasmāttvā'haṃ prasādaye |
sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitam

150.3

स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः ।
प्राप्तं घोरं भयं नूनं मया वैवस्वतादपि

svakarmāṇyabhisaṃdhāya nābhinandati me manaḥ |
prāptaṃ ghoraṃ bhayaṃ nūnaṃ mayā vaivasvatādapi

150.4

तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् ।
सर्वं मन्युं विनीय त्वमभि मां वद शौनक

tattu śalyamanirhṛtya kathaṃ śakṣyāmi jīvitum |
sarvaṃ manyuṃ vinīya tvamabhi māṃ vada śaunaka

150.5

[महानासं ब्राह्मणानां भूयो वक्ष्यामि सांप्रतम् ।]
गन्ता गतिं ब्राह्मणानां भविष्याम्यर्थवान्पुनः ।
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्

[mahānāsaṃ brāhmaṇānāṃ bhūyo vakṣyāmi sāṃpratam |]
gantā gatiṃ brāhmaṇānāṃ bhaviṣyāmyarthavānpunaḥ |
astu śeṣaṃ kulasyāsya mā parābhūdidaṃ kulam

150.6

न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति ।
स्तुतीरलभमानानां संविदं वेद निश्चयात्

na hi no brahmaśaptānāṃ śeṣaṃ bhavitumarhati |
stutīralabhamānānāṃ saṃvidaṃ veda niścayāt

150.7

निन्दमानः स्वमात्मानं भूयो वक्ष्यामि सांप्रतम् ।
भूयश्चैवाभिमज्जन्ति निर्धर्मा निर्जला इव

nindamānaḥ svamātmānaṃ bhūyo vakṣyāmi sāṃpratam |
bhūyaścaivābhimajjanti nirdharmā nirjalā iva

150.8

न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन ।
अवाक्च प्रपतिष्यन्ति पुलिन्दशवरा इव

na hyayajñā amuṃ lokaṃ prāpnuvanti kathaṃcana |
avākca prapatiṣyanti pulindaśavarā iva

150.9

अविज्ञायैव मे प्रज्ञां बालस्येव स पण्डितः ।
ब्रह्मन्पितेव पुत्रस्य प्रीतिमान्भव शौनक

avijñāyaiva me prajñāṃ bālasyeva sa paṇḍitaḥ |
brahmanpiteva putrasya prītimānbhava śaunaka

शौनक उवाच

150.10

किमाश्चर्यं यतः प्राज्ञो बहुकुर्यादसांप्रतम् ।
इति वै पण्डितो भूत्वा भूतानां को नु तप्यते

kimāścaryaṃ yataḥ prājño bahukuryādasāṃpratam |
iti vai paṇḍito bhūtvā bhūtānāṃ ko nu tapyate

150.11

प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् ।
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति

prajñāprāsādamāruhya aśocyaḥ śocate janān |
jagatīsthānivādristhaḥ prajñayā pratipatsyati

150.12

न चोपलभते कश्चिन्न चाश्चर्याणि पश्यति ।
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु

na copalabhate kaścinna cāścaryāṇi paśyati |
nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu

150.13

विदित्वा भवतो वीर्यं माहात्म्यं चैव चागमे ।
कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते

viditvā bhavato vīryaṃ māhātmyaṃ caiva cāgame |
kuruṣveha yathāśānti brahmā śaraṇamastu te

150.14

तद्वै वारित्रकं तात ब्राह्मणानामकुप्यताम् ।
अथवा तप्यसे पापे धर्मं चेदनुपश्यसि

tadvai vāritrakaṃ tāta brāhmaṇānāmakupyatām |
athavā tapyase pāpe dharmaṃ cedanupaśyasi

जनमेजय उवाच

150.15

अनुतप्ये च पापेन न चाधर्मं चराम्यहम् ।
बुभूषेद्भजमानं च प्रीतिमान्भव शौनक

anutapye ca pāpena na cādharmaṃ carāmyaham |
bubhūṣedbhajamānaṃ ca prītimānbhava śaunaka

शौनक उवाच

150.16

छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप ।
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मरन्

chittvā dambhaṃ ca mānaṃ ca prītimicchāmi te nṛpa |
sarvabhūtahite tiṣṭha dharmaṃ caiva pratismaran

150.17

न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये ।
तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह

na bhayānna ca kārpaṇyānna lobhāttvāmupāhvaye |
tāṃ me daivīṃ giraṃ satyāṃ śṛṇu tvaṃ brāhmaṇaiḥ saha

150.18

सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये ।
क्रोशतां सर्वभूतानां हाहाधिगिति जल्पताम्

so'haṃ na kenaciccārthī tvāṃ ca dharmādupāhvaye |
krośatāṃ sarvabhūtānāṃ hāhādhigiti jalpatām

150.19

वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः ।
ता वाचः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशं

vakṣyanti māmadharmajñaṃ tyakṣyanti suhṛdo janāḥ |
tā vācaḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśaṃ

150.20

केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति कार्यताम् ।
जानीहि मत्कृतं तात ब्राह्मणान्प्रति भारत

kecideva mahāprājñāḥ pratijñāsyanti kāryatām |
jānīhi matkṛtaṃ tāta brāhmaṇānprati bhārata

150.21

यथा ते सत्कृताः क्षेमं लभेरंस्त्वं तथा कुरु ।
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप

yathā te satkṛtāḥ kṣemaṃ labheraṃstvaṃ tathā kuru |
pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa

जनमेजय उवाच

150.22

नैव वाचा न मनसा पुनर्जातु न कर्मणा ।
द्रोग्धाऽस्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे

naiva vācā na manasā punarjātu na karmaṇā |
drogdhā'smi brāhmaṇānvipra caraṇāveva te spṛśe

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)