न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा
na bāhyaṃ dravyamutsṛjya siddhirbhavati bhārata |
śārīraṃ dravyamutsṛjya siddhirbhavati vā na vā
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयोदशोऽध्यायः ॥
15 श्लोक · 13 में से 372
सहदेव कहते हैं कि केवल बाहरी वस्तुएँ छोड़ने से सिद्धि नहीं मिलती; जो धन छोड़कर भी शरीर में आसक्त रहे, उसने कुछ नहीं पाया। ऐसा धर्म हमारे शत्रुओं को मिले, और हमारे सुहृदों को उस राजा का धर्म मिले जो शरीर की ममता भी छोड़कर पृथ्वी पर शासन करता है। फिर प्रसिद्ध वचन: दो अक्षर 'मम' मृत्यु है, तीन अक्षर 'न मम' शाश्वत ब्रह्म। दोनों आत्मा में ही रहते हैं। यदि आत्मा अविनाशी है तो शरीर मारना वास्तविक हिंसा नहीं; यदि शरीर के साथ नष्ट होता है तो सब कर्मकाण्ड व्यर्थ है। इसलिए स्वायम्भुव मनु और चक्रवर्तियों का मार्ग अपनाइए। अन्त में वे युधिष्ठिर को पिता, माता, भाई और गुरु कहकर दुःख में कही बातों के लिए क्षमा माँगते हैं।
सहदेव उवाच
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा
na bāhyaṃ dravyamutsṛjya siddhirbhavati bhārata |
śārīraṃ dravyamutsṛjya siddhirbhavati vā na vā
बाह्यद्रव्यविमुक्तस्य शारीरेष्वनुगृध्यतः ।
यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथाऽस्तु नः
bāhyadravyavimuktasya śārīreṣvanugṛdhyataḥ |
yo dharmo yatsukhaṃ vā syāddviṣatāṃ tattathā'stu naḥ
शारीरंद्रव्यमुत्सृज्य पृथिवीमनुशासतः ।
यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथाऽस्तु नः
śārīraṃdravyamutsṛjya pṛthivīmanuśāsataḥ |
yo dharmo yatsukhaṃ vā syātsuhṛdāṃ tattathā'stu naḥ
द्व्यक्षरस्तु भवेन्मृत्युरुयक्षरं ब्रह्म शाश्वतम् ।
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम्
dvyakṣarastu bhavenmṛtyuruyakṣaraṃ brahma śāśvatam |
mameti dvyakṣaro mṛtyurna mameti ca śāśvatam
ब्रह्ममृत्यू ततो राजन्नात्मन्येव समाश्रितौ ।
अदृश्यमानौ भूतानि योजयेतामसंशयम्
brahmamṛtyū tato rājannātmanyeva samāśritau |
adṛśyamānau bhūtāni yojayetāmasaṃśayam
अविनाशोऽस्य सत्वस्य नियतो यदि भारत ।
हित्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते
avināśo'sya satvasya niyato yadi bhārata |
hitvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate
अथापि च सहोत्पत्तिः सत्वस्य प्रलयस्तथा ।
नष्टे शरीरे नष्टः स्याद्वृथा च स्यात्क्रियापथः
athāpi ca sahotpattiḥ satvasya pralayastathā |
naṣṭe śarīre naṣṭaḥ syādvṛthā ca syātkriyāpathaḥ
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः ।
पन्था निषेवितः सद्भिः स निषेव्यो विजानता
tasmādekāntamutsṛjya pūrvaiḥ pūrvataraiśca yaḥ |
panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā
स्वायंभुवेन मनुना तथाऽन्यैश्तक्रवर्तिभिः ।
यद्ययं ह्यधमः पन्थाः कस्मात्तैस्तैर्निषेवितः
svāyaṃbhuvena manunā tathā'nyaiśtakravartibhiḥ |
yadyayaṃ hyadhamaḥ panthāḥ kasmāttaistairniṣevitaḥ
कृतत्रेतादियुक्तानि गुणवन्ति च भारत ।
युगानि बहुशस्तैश्च भुक्तेयमवनी नृप
kṛtatretādiyuktāni guṇavanti ca bhārata |
yugāni bahuśastaiśca bhukteyamavanī nṛpa
लब्ध्वाऽपि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् ।
न भुङ्क्ते यो नृपः सम्यक्किंफलं तस्य जीविते
labdhvā'pi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām |
na bhuṅkte yo nṛpaḥ samyakkiṃphalaṃ tasya jīvite
अथवा वसतो राजन्वने वन्येन जीवतः ।
द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते
athavā vasato rājanvane vanyena jīvataḥ |
dravyeṣu yasya mamatā mṛtyorāsye sa vartate
बाह्यान्तराणां भूतानां स्वभावं पश्य भारत ।
ये तु पश्यन्ति तद्भूतं मुच्यन्ते ते महाभयात्
bāhyāntarāṇāṃ bhūtānāṃ svabhāvaṃ paśya bhārata |
ye tu paśyanti tadbhūtaṃ mucyante te mahābhayāt
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः ।
दुःखप्रलापानार्तस्य तन्मे त्वं क्षन्तुमर्हसि
bhavānpitā bhavānmātā bhavānbhrātā bhavānguruḥ |
duḥkhapralāpānārtasya tanme tvaṃ kṣantumarhasi
तथ्यं वा यदि वाऽतथ्यं यन्मयैतत्प्रभाषितम् ।
तद्विद्वि पृथिवीपाल भक्त्या भरतसत्तम
tathyaṃ vā yadi vā'tathyaṃ yanmayaitatprabhāṣitam |
tadvidvi pṛthivīpāla bhaktyā bharatasattama
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)