शल्य पर्व

अध्याय 41: आर्ष्टिषेण और विश्वामित्र को ब्राह्मणत्व कैसे मिला

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकचत्वारिंशोऽध्यायः ॥

32 श्लोक · 41 में से 67

इस अध्याय में क्या होता है

आर्ष्टिषेण और विश्वामित्र को ब्राह्मणत्व कैसे मिला

जनमेजय पूछते हैं कि आर्ष्टिषेण, सिन्धुद्वीप, देवापि और विश्वामित्र ब्राह्मण कैसे बने। कृतयुग में आर्ष्टिषेण बहुत समय गुरुकुल में रहकर भी वेद पूरे न कर सके। निराश होकर उन्होंने इस तीर्थ में तप किया, वेद पाए और वर दिया कि यहाँ स्नान करने वाले को अश्वमेध का फल मिलेगा और हिंसक जीवों का भय न रहेगा। सिन्धुद्वीप और देवापि ने भी यहीं ब्राह्मणत्व पाया। गाधि अपने पुत्र विश्वामित्र को राजा बनाकर स्वर्ग गए। राक्षसों से लड़ने निकले विश्वामित्र वसिष्ठ के आश्रम पहुँचे, जहाँ सैनिकों ने उत्पात किया। वसिष्ठ के कहने पर उनकी गौ ने भयंकर शबर उत्पन्न किए, जिन्होंने सेना भगा दी। तप को श्रेष्ठ मानकर विश्वामित्र जल, वायु और पत्तों पर रहे, और ब्रह्मा ने उन्हें ब्राह्मणत्व दिया।

जनमेजय उवाच

41.1

आर्ष्टिषेणस्तथा ब्रह्मन्विपुलं तप्तवांस्तपः ।
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा

ārṣṭiṣeṇastathā brahmanvipulaṃ taptavāṃstapaḥ |
sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃstadā

41.2

देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम ।
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे

devāpiśca kathaṃ brahmanviśvāmitraśca sattama |
tanmamācakṣva bhagavanparaṃ kautūhalaṃ hi me

वैशम्पायन उवाच

41.3

पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः ।
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः

purā kṛtayuge rājannārṣṭiṣeṇo dvijottamaḥ |
vasangurukule nityaṃ nityamadhyayane rataḥ

41.4

तस्य राजन्गुरुकुले वसतो नित्यमेव च ।
समाप्तिं नागमद्विद्या नापि वेदा विशाम्पते

tasya rājangurukule vasato nityameva ca |
samāptiṃ nāgamadvidyā nāpi vedā viśāmpate

41.5

स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः ।
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्

sa nirviṇṇastato rājaṃstapastepe mahātapāḥ |
tato vai tapasā tena prāpya vedānanuttamān

41.6

स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः ।
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः

sa vidvānvedayuktaśca siddhaścāpyṛṣisattamaḥ |
tatra tīrthe varānprādāttrīneva sumahātapāḥ

41.7

अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः ।
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम्

asmiṃstīrthe mahānadyā adyaprabhṛti mānavaḥ |
āpluto vājimedhasya phalaṃ prāpsyati puṣkalam

41.8

अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति ।
अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम्

adyaprabhṛti naivātra bhayaṃ vyālādbhaviṣyati |
api cālpena kālena phalaṃ prāpsyati puṣkalam

41.9

एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः ।
एवं सिद्वः स भगवानार्ष्टिषेणः प्रतापवान्

evamuktvā mahātejā jagāma tridivaṃ muniḥ |
evaṃ sidvaḥ sa bhagavānārṣṭiṣeṇaḥ pratāpavān

41.10

तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् ।
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत्

tasminneva tadā tīrthe sindhudvīpaḥ pratāpavān |
devāpiśca mahārāja brāhmaṇyaṃ prāpaturmahat

41.11

तथाच कौशिकस्तात तपोनित्यो जितेन्द्रियः ।
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्

tathāca kauśikastāta taponityo jitendriyaḥ |
tapasā vai sutaptena brāhmaṇatvamavāptavān

41.12

गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि ।
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान्

gādhirnāma mahānāsītkṣatriyaḥ prathito bhuvi |
tasya putro'bhavadrājanviśvāmitraḥ pratāpavān

41.13

स राजा कौशिकस्तात महायोग्यभवत्किल ।
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः

sa rājā kauśikastāta mahāyogyabhavatkila |
sa putramabhiṣicyātha viśvāmitraṃ mahātapāḥ

41.14

देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः ।
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात्

dehanyāse manaścakre tamūcuḥ praṇatāḥ prajāḥ |
na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt

41.15

एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः ।
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम

evamuktaḥ pratyuvāca tato gādhiḥ prajāstataḥ |
viśvasya jagato goptā bhaviṣyati suto mama

41.16

इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च ।
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः

ityuktvā tu tato gādhirviśvāmitraṃ niveśya ca |
jagāma tridivaṃ rājanviśvāmitro'bhavannṛpaḥ

41.17

न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ।
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्

na sa śaknoti pṛthivīṃ yatnavānapi rakṣitum |
tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam

41.18

निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ।
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्

niryayau nagarāccāpi caturaṅgabalānvitaḥ |
sa gatvā dūramadhvānaṃ vasiṣṭhāśramamabhyayāt

41.19

तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ।
ततस्तु भगवान्विप्रो वसिष्ठो श्रममभ्ययात् ।
ददृशेऽथ ततः सर्वं भज्यमानं महाव्रनम्

tasya te sainikā rājaṃścakrustatrānayānbahūn |
tatastu bhagavānvipro vasiṣṭho śramamabhyayāt |
dadṛśe'tha tataḥ sarvaṃ bhajyamānaṃ mahāvranam

41.20

तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः ।
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह

tasya kruddho mahārāja vasiṣṭho munisattamaḥ |
sṛjasva śabarānghorāniti svāṃ gāmuvāca ha

41.21

तथोक्ता साऽसृजद्धेनुः पुरुषान्घोरदर्शनान् ।
ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम्

tathoktā sā'sṛjaddhenuḥ puruṣānghoradarśanān |
te tu tadbalamāsādya babhañjuḥ sarvatodiśam

41.22

तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः ।
तपः परं मन्यमानस्तपस्येव मनो दधे

tacchrutvā vidrutaṃ sainyaṃ viśvāmitrastu gādhijaḥ |
tapaḥ paraṃ manyamānastapasyeva mano dadhe

41.23

सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः ।
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः

so'smiṃstīrthavare rājansarasvatyāḥ samāhitaḥ |
niyamaiścopavāsaiśca karśayandehamātmanaḥ

41.24

जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् ।
तथा स्थण्डिलशायी च ये चान्ये नियमाःपृथक्

jalāhāro vāyubhakṣaḥ parṇāhāraśca so'bhavat |
tathā sthaṇḍilaśāyī ca ye cānye niyamāḥpṛthak

41.25

असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे ।
न चास्य नियमाद्बुद्धिरपयाति महात्मनः

asakṛttasya devāstu vratavighnaṃ pracakrire |
na cāsya niyamādbuddhirapayāti mahātmanaḥ

41.26

ततः परेण यत्नेन तप्त्वा बहुविधं तपः ।
तेजसा भास्कराकारो गाधिजः समपद्यत

tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ |
tejasā bhāskarākāro gādhijaḥ samapadyata

41.27

तपसा तु तथायुक्तं विश्वामित्रं पितामहः ।
अमन्यत महातेजा वरदोऽदर्शयत्तदा

tapasā tu tathāyuktaṃ viśvāmitraṃ pitāmahaḥ |
amanyata mahātejā varado'darśayattadā

41.28

स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति ।
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः

sa tu vavre varaṃ rājansyāmahaṃ brāhmaṇastviti |
tatheti cābravīdbrahmā sarvalokapitāmahaḥ

41.29

स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः ।
विचचार महीं कृत्स्नां कृतकामः सुरोपमः

sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ |
vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ

41.30

तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु ।
पयस्विनीस्तथा धेनूर्यानानि शयनानि च

tasmiṃstīrthavare rāmaḥ pradāya vividhaṃ vasu |
payasvinīstathā dhenūryānāni śayanāni ca

41.31

अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् ।
अददन्मुदितो राजन्पूजयित्वा द्विजोत्तमान्

atha vastrāṇyalaṅkāraṃ bhakṣyaṃ peyaṃ ca śobhanam |
adadanmudito rājanpūjayitvā dvijottamān

41.32

ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् ।
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः

yayau rājaṃstato rāmo bakasyāśramamantikāt |
yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)