सौप्तिक पर्व

अध्याय 2: दैव और पुरुषार्थ पर कृपाचार्य

इति श्रीमन्महाभारते सौप्तिकपर्वणि द्वितीयोऽध्यायः ॥

36 श्लोक · 2 में से 18

इस अध्याय में क्या होता है

दैव और पुरुषार्थ पर कृपाचार्य

कृपाचार्य दैव और पुरुषार्थ का उपदेश देते हैं। केवल भाग्य से या केवल कर्म से कार्य सिद्ध नहीं होते, दोनों के मेल से होते हैं, जैसे जुते हुए खेत पर बरसा मेघ ही फल देता है। जो देवताओं को नमस्कार करके और वृद्धों से सलाह लेकर उद्यम करता है, वह प्रायः विफल नहीं होता; जो राग, क्रोध, भय या लोभ से कार्य करता है, उसकी लक्ष्मी शीघ्र नष्ट होती है। दुर्योधन ने हितैषियों की बात न मानी, दुष्टों से मन्त्रणा की और अधिक गुणवान पाण्डवों से वैर ठाना; उसका अनर्थ हम पर भी आ पड़ा। कृप का परामर्श है कि धृतराष्ट्र, गान्धारी और बुद्धिमान विदुर के पास जाकर पूछें कि क्या उचित है और वही करें। पुरुषार्थ करके भी कार्य न सधे तो उसे दैव का आघात समझें।

कृप उवाच

2.1

श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो ।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज

śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho |
mamāpi tu vacaḥ kiñcicchṛṇuṣvādya mahābhuja

2.2

आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः ।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते

ābaddhā mānuṣāḥ sarve nibaddhāḥ karmaṇordvayoḥ |
daive puruṣakāre ca paraṃ tābhyāṃ na vidyate

2.3

न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम ।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः

na hi daivena sidhyanti kāryāṇyekena sattama |
na cāpi karmaṇaikena dvābhyāṃ siddhistu yogataḥ

2.4

ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः ।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः

tābhyāmubhābhyāṃ sarvārthā nibaddhā adhamottamāḥ |
pravṛttāścaiva dṛśyante nivṛttāścaiva sarvaśaḥ

2.5

पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम् ।
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम्

parjanyaḥ parvate varṣankinnu sādhayate phalam |
kṛṣṭe kṣetre tathā varṣankiṃ na sādhayate phalam

2.6

उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम् ।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः

utthānaṃ cāpi daivasya hyanutthānaṃ ca daivatam |
vyarthaṃ bhavati sarvatra pūrvastatra viniścayaḥ

2.7

सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते ।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी

suvṛṣṭe ca yathā deve samyak kṣetre ca karṣite |
bījaṃ mahāguṇaṃ bhūyāttathā siddhirhi mānuṣī

2.8

तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते ।
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः

tayordaivaṃ tu duścintyaṃ svavaśenaiva vartate |
prājñāḥ puruṣakāre tu vartante devamāsthitāḥ

2.9

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ ।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च

tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha |
viceṣṭantaḥ sma dṛśyante nivṛttāstu tathaiva ca

2.10

कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति ।
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्

kṛtaḥ puruṣakāraśca so'pi daivena sidhyati |
tathāsya karmaṇaḥ karturabhinirvartate phalam

2.11

उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम् ।
अभलं दृश्यते लोके सम्यगप्युपपादितम्

utthānaṃ ca manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam |
abhalaṃ dṛśyate loke samyagapyupapāditam

2.12

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः ।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते

tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ |
utthānaṃ te vigarhanti prājñānāṃ tanna rocate

2.13

प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि ।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्

prāyaśo hi kṛtaṃ karma nāphalaṃ dṛśyate bhuvi |
akṛtvā ca punarduḥkhaṃ karma paśyenmahāphalam

2.14

चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया ।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि

caṣṭāmakurvaṃllabhate yadi kiñcidyadṛcchayā |
yo vā na labhate kṛtvā durdarśau tāvubhāvapi

2.15

शक्नोति जीवितुं दक्षो नालसः सुखमेधते ।
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः

śaknoti jīvituṃ dakṣo nālasaḥ sukhamedhate |
dṛśyante jīvaloke'smindakṣāḥ prāyo hitaiṣiṇaḥ

2.16

यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम् ।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति

yadi dakṣaḥ samārambhātkarmaṇo nāśnute phalam |
nāsya vācyaṃ bhavetkiñcillabdhavyaṃ vā'dhigacchati

2.17

नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित् ।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः

nākṛtvā karma loke hi phalaṃ vindati karhicit |
sa tu vaktavyatāṃ yāti dveṣyo bhavati bhūyaśaḥ

2.18

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा ।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः

evametadanādṛtya vartate yastvato'nyathā |
sa karotyātmano'narthāneṣa buddhimatāṃ nayaḥ

2.19

हीनं पुरुषकारेण यदि दैवेन वा पुनः ।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्

hīnaṃ puruṣakāreṇa yadi daivena vā punaḥ |
kāraṇābhyāmathaitābhyāmutthānamaphalaṃ bhavet

2.20

हीनं पुरुषकारेण कर्म त्विह न सिध्यति

hīnaṃ puruṣakāreṇa karma tviha na sidhyati

2.21

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते ।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते

daivatebhyo namaskṛtya yastvarthānsamyagīhate |
dakṣo dākṣiṇyasampanno na sa moghairvihanyate

2.22

सम्यगीहा पुनरियं या बृद्धानुपसेवते ।
आपृच्छति च यच्छ्रेयः करोति च हितं वचः

samyagīhā punariyaṃ yā bṛddhānupasevate |
āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ

2.23

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः ।
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते

utthāyotthāya hi sadā praṣṭavyā vṛddhasammatāḥ |
te sma yoge paraṃ mūlaṃ tanmūlā siddhirucyate

2.24

वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत् ।
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्

vṛddhānāṃ vacanaṃ śrutvā yo'bhyutthānaṃ prayojayet |
utthānasya phalaṃ samyaktadā sa labhate'cirāt

2.25

रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः ।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः

rāgātkrodhādbhayāllobhādyo'rthānīheta mānavaḥ |
anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ

2.26

सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना ।
असमर्थः समारब्धो मूढत्वादविचिनन्तितः

soyaṃ duryodhanenārtho lubdhenādīrghadarśinā |
asamarthaḥ samārabdho mūḍhatvādavicinantitaḥ

2.27

हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह ।
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः

hitabuddhīnanādṛtya sammantryāsādhubhiḥ saha |
vāryamāṇo'karodvairaṃ pāṇḍavairguṇavattaraiḥ

2.28

पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति ।
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः

pūrvamapyatiduḥśīlo na dhairyaṃ kartumarhati |
tapatyarthe vipanne hi mitrāṇāṃ na kṛtaṃ vacaḥ

2.29

अनुवर्तामहे यत्तु तं वयं पापपूरुषम् ।
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्

anuvartāmahe yattu taṃ vayaṃ pāpapūruṣam |
asmānapyanayastasmātprāpto'yaṃ dāruṇo mahān

2.30

अेन तु ममाद्यापि व्यसनेनोपतापिता ।
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते

aena tu mamādyāpi vyasanenopatāpitā |
buddhiścintayate kiñcitsvaṃ śreyo nāvabudhyate

2.31

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः ।
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति

muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo janāḥ |
tatrāsya buddhirvinayastatra śreyaśca paśyati

2.32

ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः ।
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्

tato'sya mūlaṃ kāryāṇāṃ buddhyā niścitya vai budhāḥ |
te'tra pṛṣṭā yathā brūyustatkartavyaṃ tathā bhavet

2.33

ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम् ।
उपपृच्छामहे गत्वा विदुरं च महामतिम्

te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca yaśasvinīm |
upapṛcchāmahe gatvā viduraṃ ca mahāmatim

2.34

ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम् ।
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः

te pṛṣṭāstu vadeyuryacchreyo naḥ samanantaram |
tadasmābhiḥ punaḥ kāryamiti me naiṣṭhikī matiḥ

2.35

अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्

anārambhāttu kāryāṇāṃ nārthaḥ sampadyate kvacit

2.36

कृते पुरुषकारे तु येषां कार्यं न सिध्यति ।
दैवेनोपहतास्ते तु नात्र कार्या विचारणा

kṛte puruṣakāre tu yeṣāṃ kāryaṃ na sidhyati |
daivenopahatāste tu nātra kāryā vicāraṇā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)