सभा पर्व

अध्याय 63: भीष्म का आश्वासन: सिंह पर भौंकते कुत्ते

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि त्रिषष्टितमोऽध्यायः ॥

15 श्लोक · 63 में से 103

इस अध्याय में क्या होता है

भीष्म का आश्वासन: सिंह पर भौंकते कुत्ते

प्रलय की आँधी से क्षुब्ध समुद्र जैसे राजमण्डल को देखकर युधिष्ठिर ने भीष्म से पूछा कि यज्ञ निर्विघ्न रहे और प्रजा सुरक्षित रहे, इसके लिए क्या करें। भीष्म ने कहा, डरो मत, क्या कुत्ता सिंह को मार सकता है? ये राजा सोए सिंह के चारों ओर भौंकने वाले कुत्ते हैं; वृष्णियों के सिंह के सोते रहने तक ही भौंकते हैं। अल्पबुद्धि शिशुपाल इन सबको यमलोक ले जाना चाहता है। निश्चय ही अधोक्षज शिशुपाल में स्थित अपना तेज वापस लेना चाहते हैं, इसीलिए चेदिराज की बुद्धि भ्रष्ट हुई है, जैसे उस किसी की होती है जिसे श्रीकृष्ण लेना चाहें। तीनों लोकों के सब प्राणियों के उद्भव और प्रलय माधव ही हैं। शिशुपाल ने भीष्म को कठोर वचन सुनाए।

वैशम्पायन उवाच

63.1

ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम् ।
संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम् ।

tataḥ sāgarasaṅkāśaṃ dṛṣṭvā nṛpatimaṇḍalam |
saṃvartavātābhihataṃ bhīmaṃ kṣubdhamivārṇavam |

63.2

रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ।
भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम् ।
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ।

roṣātpracalitaṃ sarvamidamāha yudhiṣṭhiraḥ |
bhīṣmaṃ matimatāṃ mukhyaṃ vṛddhaṃ kurupitāmaham |
bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā |

63.3

असौ रोषात्प्रचलितो महान्नृपतिसागरः ।
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह

asau roṣātpracalito mahānnṛpatisāgaraḥ |
atra yatpratipattavyaṃ tanme brūhi pitāmaha

63.4

यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत् ।
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह

yajñasya ca na vighnaḥ syātprajānāṃ ca hitaṃ bhavet |
yathā sarvatra tatsarvaṃ brūhi me'dya pitāmaha

63.5

इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे ।
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः

ityuktavati dharmajñe dharmarāje yudhiṣṭhire |
uvācedaṃ vaco bhīṣmastataḥ kurupitāmahaḥ

63.6

मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति ।
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः

mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantumarhati |
śivaḥ panthāḥ sunīto'tra mayā pūrvataraṃ vṛtaḥ

63.7

प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः ।
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः

prasupte hi yathā siṃhe śvānastāta samāgatāḥ |
bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ

63.8

वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः ।
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ

vṛṣṇisiṃhasya suptasya tathā'mī pramuke sthitāḥ |
bhaṣante tāta saṅkruddhāḥ śvānaḥ siṃhasya sannidhau

63.9

न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः ।
तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छसि ।
तेन सिंहीकरोत्येतानसिंहश्चेदिपुङ्गवः

na hi sambudhyate yāvatsuptaḥ siṃha ivācyutaḥ |
tadidaṃ jñātapūrvaṃ hi tava saṃstotumicchasi |
tena siṃhīkarotyetānasiṃhaścedipuṅgavaḥ

63.10

पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः ।
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम्

pārthivānpārthivaśreṣṭha śiśupālo'lpacetanaḥ |
sarvānsarvātmanā tāta netukāmo yamakṣayam

63.11

नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः ।
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत

nūnametatsamādātuṃ punaricchatyadhokṣajaḥ |
yadasya śiśupālasya tejastiṣṭhati bhārata

63.12

विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर ।
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम्

viplutā cāsya bhadraṃ te buddhirbuddhimatāṃ vara |
cedirājasya kaunteya sarveṣāṃ ca mahīkṣitam

63.13

आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा ।
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा

ādātuṃ ca naravyāghro yaṃ yamicchatyayaṃ tadā |
tasya viplavate buddhirevaṃ cedipateryathā

63.14

चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः ।
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर

caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ |
prabhavaścaiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira

63.15

इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः ।
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत

iti tasya vacaḥ śrutvā tataścedipatirnṛpaḥ |
bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayāmāsa bhārata

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)