कर्ण पर्व

अध्याय 79: द्वन्द्वयुद्ध छिड़े, कर्णपुत्र सुषेण मारा गया

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनाशीतितमोऽध्यायः ॥

17 श्लोक · 79 में से 101

इस अध्याय में क्या होता है

द्वन्द्वयुद्ध छिड़े, कर्णपुत्र सुषेण मारा गया

धृतराष्ट्र पूछते हैं कि अर्जुन के कर्ण से लड़ने जाने पर युद्ध कैसा हुआ। सञ्जय बताते हैं कि दोनों सेनाएँ हवा से उड़ते वर्षा के बादलों जैसी भिड़ीं, ऐसी क्रूर असमय वर्षा जिसने क्षत्रियों के प्राण बहा दिए। फिर द्वन्द्व जुड़ते हैं: नकुल कृतवर्मा से, धृष्टद्युम्न सेना सहित कर्ण से, दुःशासन भीम से। उत्तमौजा कर्ण के पुत्र सुषेण का सिर काट देते हैं, जो गूँजता हुआ धरती पर गिरता है। शोक और क्रोध से भरा कर्ण उनके घोड़े, रथ और ध्वज काट डालता है। शिखण्डी रथहीन कृप पर बाण नहीं चलाते और अश्वत्थामा कृप को बचा ले जाता है। भीम ग्रीष्म के मध्याह्न सूर्य की भाँति कौरव सेना को तपाते हैं।

[धृतराष्ट्र उवाच

79.1

समागमे पाण्डवसृञ्जयानां
महाभये मामकानामगाधे ।
धनञ्जये तात रणाय याते
कर्णेन तद्युद्वमथोऽत्र कीदृक् ॥]

samāgame pāṇḍavasṛñjayānāṃ
mahābhaye māmakānāmagādhe |
dhanañjaye tāta raṇāya yāte
karṇena tadyudvamatho'tra kīdṛk ||]

सञ्जय उवाच

79.2

तेषामनीकानि महाध्वजानि
रणे समृद्धानि सुसङ्गतानि ।
भेरीनिरादोन्मुखराण्यंगर्ज--
न्मेघा इव प्रावृषि मारुतास्ताः

teṣāmanīkāni mahādhvajāni
raṇe samṛddhāni susaṅgatāni |
bherīnirādonmukharāṇyaṃgarja--
nmeghā iva prāvṛṣi mārutāstāḥ

79.3

महागजाभ्राकुलमस्त्रतोयं
वादित्रनेमीतलशब्दवच्च ।
हिरण्यचित्रायुधविद्युतं च
शरासिनाराचमहास्त्रधारम्

mahāgajābhrākulamastratoyaṃ
vāditranemītalaśabdavacca |
hiraṇyacitrāyudhavidyutaṃ ca
śarāsinārācamahāstradhāram

79.4

तद्भीमवेगं रुधिरौघवाहि
खङ्गाकुलं क्षत्रियजीवघाति ।
अनार्तवं क्रूरमनिष्टवर्षं
बभूव संरम्भकरं प्रजानाम्

tadbhīmavegaṃ rudhiraughavāhi
khaṅgākulaṃ kṣatriyajīvaghāti |
anārtavaṃ krūramaniṣṭavarṣaṃ
babhūva saṃrambhakaraṃ prajānām

79.5

एकं रथं सम्परिवार्य मृत्युं
नयन्त्यनेके च रथाः समेताः ।
एकस्तथैकं रथिनं रथाग्र्यां--
स्तथा रथश्चापि रथाननेकान्

ekaṃ rathaṃ samparivārya mṛtyuṃ
nayantyaneke ca rathāḥ sametāḥ |
ekastathaikaṃ rathinaṃ rathāgryāṃ--
stathā rathaścāpi rathānanekān

79.6

रथं ससूतं सहयं च कञ्चि--
त्कश्चिद्रती मृत्युवशं निनाय ।
निनाय चाप्येकगजेन कश्चि--
द्रथान्बहून्मृत्युवशे तथाश्वान्

rathaṃ sasūtaṃ sahayaṃ ca kañci--
tkaścidratī mṛtyuvaśaṃ nināya |
nināya cāpyekagajena kaści--
drathānbahūnmṛtyuvaśe tathāśvān

79.7

रथान्ससूतान्सहयान्गजांश्च
सर्वानरीन्मृत्युवशं शरौघैः ।
निन्ये हयांश्चैव तथा ससादी--
न्पदातिसङ्घांश्च तथैव पार्थः

rathānsasūtānsahayāngajāṃśca
sarvānarīnmṛtyuvaśaṃ śaraughaiḥ |
ninye hayāṃścaiva tathā sasādī--
npadātisaṅghāṃśca tathaiva pārthaḥ

79.8

कृपः शिखण्डी च रणे समेतौ
दुर्योधनं सात्यकिरध्यगच्छत् ।
श्रुतश्रवा द्रोणपुत्रेण सार्धं
युधामन्युश्चित्रसेनेन सार्धम्

kṛpaḥ śikhaṇḍī ca raṇe sametau
duryodhanaṃ sātyakiradhyagacchat |
śrutaśravā droṇaputreṇa sārdhaṃ
yudhāmanyuścitrasenena sārdham

79.9

कर्णस्य पुत्रं तु रथी सुषेणं
समागतं सृञ्जयश्चोत्तमौजाः ।
गान्धारराजं सहदेवोऽक्षधूर्तं
महर्षभं सिंह इवाभ्यधावत्

karṇasya putraṃ tu rathī suṣeṇaṃ
samāgataṃ sṛñjayaścottamaujāḥ |
gāndhārarājaṃ sahadevo'kṣadhūrtaṃ
maharṣabhaṃ siṃha ivābhyadhāvat

79.10

शतानीको नाकुलिः कर्णपुत्रं
युवा युवानं वृषसेनं शरौघैः ।
समार्पयत्कर्णपुत्रश्च शूरः
पाञ्चालेयं शरवर्षैरनेकैः

śatānīko nākuliḥ karṇaputraṃ
yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ |
samārpayatkarṇaputraśca śūraḥ
pāñcāleyaṃ śaravarṣairanekaiḥ

79.11

रथर्षभः कृतवर्माणभार्च्छ--
न्माद्रीपुत्रो नकुलश्चित्रयोधी ।
पाञ्चालानामधिपो याज्ञसेनिः
सेनापतिः कर्णमार्च्छत्ससैन्यम्

ratharṣabhaḥ kṛtavarmāṇabhārccha--
nmādrīputro nakulaścitrayodhī |
pāñcālānāmadhipo yājñaseniḥ
senāpatiḥ karṇamārcchatsasainyam

79.12

दुःशासनो भारत भारतं तु
व्यात्ताननं क्रूरमिवान्तकाभम् ।
भीमं रणे शस्त्रभृतां वरिष्ठं
भीमं समार्च्छत्तमसह्यवेगम्

duḥśāsano bhārata bhārataṃ tu
vyāttānanaṃ krūramivāntakābham |
bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ
bhīmaṃ samārcchattamasahyavegam

79.13

कर्णात्मजं तत्र जघान वीर--
स्तथाच्छिनच्चोत्तमौजाः प्रसह्य ।
तस्योत्तमाङ्गं निपपात भूमौ
निनादयद्गां निनदेन खं च

karṇātmajaṃ tatra jaghāna vīra--
stathācchinaccottamaujāḥ prasahya |
tasyottamāṅgaṃ nipapāta bhūmau
ninādayadgāṃ ninadena khaṃ ca

79.14

सुषेणशीर्षं पतितं पृथिव्यां
विलोक्य कर्णोऽथ तदार्तरूपः ।
क्रोधाद्धयांस्तस्य रथं ध्वजं च
बाणैः सुधारैर्निशितैरकृन्तत्

suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ
vilokya karṇo'tha tadārtarūpaḥ |
krodhāddhayāṃstasya rathaṃ dhvajaṃ ca
bāṇaiḥ sudhārairniśitairakṛntat

79.15

स तूत्तमौजा निशितैः पृषत्कै--
र्विव्याध खङ्गेन च भास्वरेण ।
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा
शिखण्डिवाहं स ततोऽध्यरोहत्

sa tūttamaujā niśitaiḥ pṛṣatkai--
rvivyādha khaṅgena ca bhāsvareṇa |
pārṣṇigrahāṃścaiva kṛpasya hatvā
śikhaṇḍivāhaṃ sa tato'dhyarohat

79.16

कृपं तु दृष्ट्वा विरथं रथस्थो
नैच्छच्छरैस्ताडयितुं शिखण्डी ।
तं द्रौणिरावार्य रथं कृपस्य
समुज्जहे पङ्कगतां यथा गाम्

kṛpaṃ tu dṛṣṭvā virathaṃ rathastho
naicchaccharaistāḍayituṃ śikhaṇḍī |
taṃ drauṇirāvārya rathaṃ kṛpasya
samujjahe paṅkagatāṃ yathā gām

79.17

हिरण्यवर्मा निशितैः पृषत्कै--
स्तवात्मजानामनिलात्मजो वै ।
अतापयत्सैन्यमतीव भीमः
काले शुचौ मध्यगतो यथाऽर्कः

hiraṇyavarmā niśitaiḥ pṛṣatkai--
stavātmajānāmanilātmajo vai |
atāpayatsainyamatīva bhīmaḥ
kāle śucau madhyagato yathā'rkaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)