द्रोण पर्व

अध्याय 82: युधिष्ठिर का प्रातःकर्म और श्रीकृष्ण का आगमन

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि द्व्यशीतितमोऽध्यायः ॥

35 श्लोक · 82 में से 203

इस अध्याय में क्या होता है

युधिष्ठिर का प्रातःकर्म और श्रीकृष्ण का आगमन

सञ्जय युधिष्ठिर के शिविर में चौदहवें दिन के प्रभात का वर्णन करते हैं। मागध, सूत और गायक स्तुति करते हैं, मृदङ्ग और शङ्ख बजते हैं, और राजा जागते हैं। एक सौ आठ युवा सेवक उन्हें अभिमन्त्रित, चन्दनयुक्त जल से स्नान कराते हैं। श्वेत वस्त्र और माला धारण कर वे पूर्वमुख होकर जप करते हैं, फिर अग्निशाला में जाकर समिधा और मन्त्रपूत आहुतियाँ देते हैं। तब वे सहस्रों वेदज्ञ ब्राह्मणों को सोने के निष्क, घोड़े, वस्त्र और सोने के सींगों तथा चाँदी के खुरों वाली कपिला गायें देते हैं, और मङ्गल वस्तुओं का स्पर्श करते हैं। विश्वकर्मा के बनाए रत्नजटित आसन पर बैठे राजा को द्वारपाल श्रीकृष्ण के आगमन की सूचना देता है। वे उन्हें भीतर बुलाकर उत्तम आसन देते हैं और आदरपूर्वक कुशल पूछते हैं।

सञ्जय उवाच

82.1

तयोः संवदतोरेव कृष्णदारुकयोस्तथा ।
साऽत्यगाद्रजनी राजन्नथ राजा स्म बोध्यते

tayoḥ saṃvadatoreva kṛṣṇadārukayostathā |
sā'tyagādrajanī rājannatha rājā sma bodhyate

82.2

पठन्ति पाणिध्वनिका मागधाः स्तवगायकाः ।
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम्

paṭhanti pāṇidhvanikā māgadhāḥ stavagāyakāḥ |
vaitālikāśca sūtāśca tuṣṭuvuḥ puruṣarṣabham

82.3

नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः ।
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः

nartakāścāpyanṛtyanta jagurgītāni gāyakāḥ |
kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ

82.4

मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः ।
आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः

mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ |
āḍambarāśca śaṅkhāśca dundubhyaśca mahāsvanāḥ

82.5

एवमेतानि सर्वाणि तथान्यान्यपि भारत ।
वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः

evametāni sarvāṇi tathānyānyapi bhārata |
vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ

82.6

स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् ।
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत्

sa meghasamanirghoṣo mahāñśabdo'spṛśaddivam |
pārthivapravaraṃ suptaṃ yudhiṣṭhiramabodhayat

82.7

प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे ।
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः

pratibuddhaḥ sukhaṃ supto mahārhe śayanottame |
utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ nṛpaḥ

82.8

ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च ।
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे

tataḥ śuklāmbarāḥ snātāstaruṇāḥ śatamaṣṭa ca |
snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire

82.9

भद्रासने सूपविष्टः परिधायाम्बरं लघु ।
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः

bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu |
sasnau candanasaṃyuktaiḥ pānīyairabhimantritaiḥ

82.10

उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः ।
आप्लुतः साधिवासेन जलेन ससुगन्धिना

utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ |
āplutaḥ sādhivāsena jalena sasugandhinā

82.11

राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् ।
जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि

rājahaṃsanibhaṃ prāpya uṣṇīṣaṃ śithilārpitam |
jalakṣayanimittaṃ vai veṣṭayāmāsa mūrdhani

82.12

हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः ।
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः

hariṇā candanenāṅgamupalipya mahābhujaḥ |
sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ

82.13

कृत्वेन्द्रियाणामैकाग्र्यं मनसश्च महामनाः ।
जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः ।
तत्राग्निशरणं दीप्तं प्रविवेश विनीतवत्

kṛtvendriyāṇāmaikāgryaṃ manasaśca mahāmanāḥ |
jajāpa japyaṃ kaunteyaḥ satāṃ mārgamanuṣṭhitaḥ |
tatrāgniśaraṇaṃ dīptaṃ praviveśa vinītavat

82.14

समिद्भिः स पवित्राभिरग्निमाहुतिभिस्तथा ।
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः

samidbhiḥ sa pavitrābhiragnimāhutibhistathā |
mantrapūtābhirarcitvā niścakrāma gṛhāttataḥ

82.15

द्वितीयां पुरुषव्याघ्रः कक्ष्यां निर्गम्य पार्थिवः ।
ततो वेदविदो वृद्धानपश्यद्ब्राह्मणर्षभान्

dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ nirgamya pārthivaḥ |
tato vedavido vṛddhānapaśyadbrāhmaṇarṣabhān

82.16

दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च ।
सहस्रानुचरान्सौरान्सहस्रं चाष्ट चापरान्

dāntānvedavratasnātānsnātānavabhṛtheṣu ca |
sahasrānucarānsaurānsahasraṃ cāṣṭa cāparān

82.17

अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः ।
तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः

akṣataiḥ sumanobhiśca vācayitvā mahābhujaḥ |
tāndvijānmadhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ

82.18

प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः ।
अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः

prādātkāñcanamekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ |
alaṅkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāśca dakṣiṇāḥ

82.19

तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डुनन्दनः ।
हेमशृङ्गा रौप्यखुरा दत्त्वा तेभ्यः प्रदक्षिणम्

tathā gāḥ kapilā dogdhrīḥ savatsāḥ pāṇḍunandanaḥ |
hemaśṛṅgā raupyakhurā dattvā tebhyaḥ pradakṣiṇam

82.20

स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् ।
माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम्

svastikānvardhamānāṃśca nandyāvartāṃśca kāñcanān |
mālyaṃ ca jalakumbhāṃśca jvalitaṃ ca hutāśanam

82.21

पूर्णान्यक्षतपात्राणि रुचकं रोचनास्तथा ।
स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम्

pūrṇānyakṣatapātrāṇi rucakaṃ rocanāstathā |
svalaṅkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam

82.22

मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् ।
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यां ततोऽगमत्

maṅgalyānpakṣiṇaścaiva yaccānyadapi pūjitam |
dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyāṃ tato'gamat

82.23

ततस्तस्यां नहाबाहोस्तिष्ठतः परिचारकाः ।
सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम्

tatastasyāṃ nahābāhostiṣṭhataḥ paricārakāḥ |
sauvarṇaṃ sarvatobhadraṃ muktāvaidūryamaṇḍitam

82.24

परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् ।
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम्

parārdhyāstaraṇāstīrṇaṃ sottaracchadamṛddhimat |
viśvakarmakṛtaṃ divyamupajahrurvarāsanam

82.25

तत्र तस्योपविष्टस्य भूषणानि महात्मनः ।
उपाजह्रुर्महार्हाणि प्रेप्याः शुभ्राणि सर्वशः

tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ |
upājahrurmahārhāṇi prepyāḥ śubhrāṇi sarvaśaḥ

82.26

युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः ।
रूपमासीन्महाराज द्विषतां शोकवर्धनम्

yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ |
rūpamāsīnmahārāja dviṣatāṃ śokavardhanam

82.27

चामरैश्चन्द्ररश्म्याभैर्हेमदण्डैः सुशोभनैः ।
दोधूयमानैः शुशुभे विद्युद्भिरिव तोयदः

cāmaraiścandraraśmyābhairhemadaṇḍaiḥ suśobhanaiḥ |
dodhūyamānaiḥ śuśubhe vidyudbhiriva toyadaḥ

82.28

संस्तूयमानः सूत्रैश्च वन्द्यमानश्च वन्दिभिः ।
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः

saṃstūyamānaḥ sūtraiśca vandyamānaśca vandibhiḥ |
upagīyamāno gandharvairāste sma kurunandanaḥ

82.29

ततो मुहूर्तमासीच्च वन्दिनां निनदो महान् ।
रथानां नेमिघोषश्च खुरघोषश्च वाजिनाम्

tato muhūrtamāsīcca vandināṃ ninado mahān |
rathānāṃ nemighoṣaśca khuraghoṣaśca vājinām

82.30

हादेन गजघण्टानां शङ्खानां निनदेन च ।
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी

hādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca |
narāṇāṃ padaśabdaiśca kampatīva sma medinī

82.31

ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः ।
शिरसा वन्दनीयं तमभिवाद्य जनेश्वरम्

tataḥ śuddhāntamāsādya jānubhyāṃ bhūtale sthitaḥ |
śirasā vandanīyaṃ tamabhivādya janeśvaram

82.32

कुण्डली बद्धनिस्त्रिंशः सन्नद्धकवचो युवा ।
अभिप्रणम्य शिरसा द्वास्थो धर्मात्मजाय वै

kuṇḍalī baddhanistriṃśaḥ sannaddhakavaco yuvā |
abhipraṇamya śirasā dvāstho dharmātmajāya vai

82.33

न्यवेदयद्धृषीकेशमुपयान्तं महात्मने ।
सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवः

nyavedayaddhṛṣīkeśamupayāntaṃ mahātmane |
so'bravītpuruṣavyāghraḥ svāgatenaiva mādhavaḥ

82.34

प्रवेश्यतां समीपं मे किमर्थं प्रविलम्बसे ।
आसनं च मधुघ्नाय दीयतां परमार्चितम् ।
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने

praveśyatāṃ samīpaṃ me kimarthaṃ pravilambase |
āsanaṃ ca madhughnāya dīyatāṃ paramārcitam |
tataḥ praveśya vārṣṇeyamupaveśya varāsane

82.35

सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः

satkṛtya satkṛtastena paryapṛcchadyudhiṣṭhiraḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)