भीष्म पर्व

अध्याय 68: श्रीकृष्ण का स्तव और भीष्म की विनती

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टषष्टितमोऽध्यायः ॥

20 श्लोक · 68 में से 122

इस अध्याय में क्या होता है

श्रीकृष्ण का स्तव और भीष्म की विनती

भीष्म दुर्योधन को श्रीकृष्ण का वह स्तव सुनाते हैं जो ऋषियों और देवों ने गाया था। नारद ने उन्हें साध्यों और देवों का स्वामी कहा। मार्कण्डेय ने उन्हें भूत, वर्तमान और भविष्य, यज्ञों का यज्ञ और तपों का तप कहा। भृगु ने देवों का देव और विष्णु का पुरातन रूप कहा। व्यास ने उन्हें वसुओं में वासुदेव और इन्द्र को स्थापित करने वाला बताया। अङ्गिरा ने सब प्राणियों का स्रष्टा कहा, असित देवल ने कहा कि अव्यक्त उनके शरीर से उत्पन्न है। उनका सिर आकाश में, भुजाएँ पृथ्वी पर, उदर में तीनों लोक हैं। यह सुनकर दुर्योधन केशव और पाण्डवों का आदर करने लगता है। भीष्म फिर सन्धि की विनती करते हैं और चेताते हैं कि नर नारायण का अपमान उसका नाश करेगा। दुर्योधन प्रणाम करके विश्राम को जाता है।

भीष्म उवाच

68.1

स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत ।
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि

stavaṃ vai brahmasaṃyuktaṃ śṛṇu kṛṣṇasya bhārata |
brahmarṣibhiśca devaiśca yaḥ purā kathito bhuvi

68.2

साध्यानामपि देवानां देवदेवेश्वरः प्रभुः ।
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत्

sādhyānāmapi devānāṃ devadeveśvaraḥ prabhuḥ |
lokabhāvanabhāvajña iti tvāṃ nārado'bravīt

68.3

भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह ।
यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि

bhūtaṃ bhavyaṃ bhaviṣyacca mārkaṇḍeyo'bhyuvāca ha |
yajñaṃ tvāṃ caiva yajñānāṃ tapaśca tapasāmapi

68.4

देवानामपि देवं च त्वामाह भगवान्भृगुः ।
पुराणां चैव परमं विष्णो रूपं तवेति च

devānāmapi devaṃ ca tvāmāha bhagavānbhṛguḥ |
purāṇāṃ caiva paramaṃ viṣṇo rūpaṃ taveti ca

68.5

वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा ।
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत्

vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā |
devadevo'si devānāmiti dvaipāyano'bravīt

68.6

पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम् ।
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत्

pūrve prajānisarge ca dakṣamāhuḥ prajāpatim |
sraṣṭāraṃ sarvabhūtānāmaṅgirāstvāṃ tathā'bravīt

68.7

अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् ।
देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत्

avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam |
devāstvatsaṃbhavāścaiva devalastvasito'bravīt

68.8

शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा ।
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः

śirasā te divyaṃ vyāptaṃ bāhubhyāṃ pṛthivī tathā |
jaṭharaṃ te trayo lokāḥ puruṣo'si sanātanaḥ

68.9

एवं त्वामभिजानन्ति तपसा भाविता नराः ।
आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः

evaṃ tvāmabhijānanti tapasā bhāvitā narāḥ |
ātmadarśanatṛptānāmṛṣīṇāṃ cāsi sattamaḥ

68.10

राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन

rājarṣīṇāmudārāṇāmāhaveṣvanivartinām |
sarvadharmapradhānānāṃ tvaṃ gatirmadhusūdana

68.11

इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः ।
सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः

iti nityaṃ yogavirdbhirbhagavānpuruṣottamaḥ |
sanatkumārapramukhaiḥ stūyate'bhyarcyate hariḥ

68.12

एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः ।
केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम्

eṣa te vistarastāta saṃkṣepaśca prakīrtitaḥ |
keśavasya yathā tattvaṃ suprīto bhaja keśavam

सञ्जय उवाच

68.13

पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव ।
केशवं बहुमेने स पाण्डवांश्च महारथान्

puṇyaṃ śrutvaitadākhyānaṃ mahārāja sutastava |
keśavaṃ bahumene sa pāṇḍavāṃśca mahārathān

68.14

तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः ।
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः

tamabravīnmahārāja bhīṣmaḥ śāntanavaḥ punaḥ |
māhātmyaṃ te śrutaṃ rājankeśavasya mahātkamanaḥ

68.15

नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप ।
यदर्थं नृषु संभूतौ नरानारायणावृषी

narasya ca yathātattvaṃ yanmāṃ tvaṃ pṛcchase nṛpa |
yadarthaṃ nṛṣu saṃbhūtau narānārāyaṇāvṛṣī

68.16

अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ ।
यथा च पाण्डवा राजन्नवध्या युधि कस्यचित्

avadhyau ca yathā vīrau saṃyugeṣvaparājitau |
yathā ca pāṇḍavā rājannavadhyā yudhi kasyacit

68.17

प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु ।
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः

prītimānhi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu |
tasmādbravīmi rājendra śamo bhavatu pāṇḍavaiḥ

68.18

पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी ।
नरानारायणौ देवाववज्ञाय नशिष्यसि

pṛthivīṃ bhuṅkṣva sahito bhrātṛbhirbalibhirvaśī |
narānārāyaṇau devāvavajñāya naśiṣyasi

68.19

एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते ।
व्यसर्जयच्च राजानं शयनं च विवेश ह

evamuktvā tava pitā tūṣṇīmāsīdviśāṃpate |
vyasarjayacca rājānaṃ śayanaṃ ca viveśa ha

68.20

राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने ।
शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ

rājā ca śibiraṃ prāyātpraṇipatya mahātmane |
śiśye ca śayane śubhre rātriṃ tāṃ bharatarṣabha

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)