संकल्पदंशमशकं शोकहर्षहिमातपम् ।
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम्
saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam |
mohāndhakāratimiraṃ lobhavyādhisarīsṛpam
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टाविंशोऽध्यायः ॥
25 श्लोक · 28 में से 118
ब्राह्मण कहता है कि वह एक भयंकर दुर्गम मार्ग पार कर एक महावन में आ गया है, जिसमें संकल्प ही डाँस-मच्छर हैं, शोक और हर्ष ही सर्दी-गर्मी हैं, मोह अन्धकार है, लोभ सर्प है और काम-क्रोध लुटेरे हैं। पत्नी पूछती है कि वह वन कहाँ है, उसमें कौन से वृक्ष, नदियाँ और पर्वत हैं। वह उत्तर देता है कि उससे एक होने से बड़ा सुख नहीं और उससे अलग होने से बड़ा दुःख नहीं। उस वन में सात महावृक्ष अनेक रंगों के फूल-फल देते हैं; वहाँ सात अतिथि, सात आश्रम, सात समाधियाँ और सात दीक्षाएँ हैं। एक ही अग्नि मन है और पाँच इन्द्रियाँ उसकी समिधा। वहाँ प्रज्ञा का वृक्ष है, जिसका फल मोक्ष, छाया शान्ति और जल तृप्ति है। जो वहाँ पहुँचते हैं, उनका पुनर्जन्म नहीं होता।
ब्राह्मण उवाच
संकल्पदंशमशकं शोकहर्षहिमातपम् ।
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम्
saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam |
mohāndhakāratimiraṃ lobhavyādhisarīsṛpam
विषयैकात्ययाध्वानं कामक्रोधकिरातकम् ।
तदतीत्य महादुर्गं प्रविष्टोस्मि महद्वनम्
viṣayaikātyayādhvānaṃ kāmakrodhakirātakam |
tadatītya mahādurgaṃ praviṣṭosmi mahadvanam
ब्राह्मण्युवाच
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।
कियन्तः पर्वताश्चैव कियत्यध्यनि तद्वनम्
kva tadvanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ |
kiyantaḥ parvatāścaiva kiyatyadhyani tadvanam
ब्राह्मण उवाच
नैतदस्ति पृथग्भावः किञ्चिनद्यत्ततः सुखम् ।
नैतदस्त्यपृथग्भावः किञ्चिद्दुःखतरं ततः
naitadasti pṛthagbhāvaḥ kiñcinadyattataḥ sukham |
naitadastyapṛthagbhāvaḥ kiñcidduḥkhataraṃ tataḥ
तस्माद्ध्रस्वतरं नास्ति न ततोस्ति महत्तरम् ।
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम्
tasmāddhrasvataraṃ nāsti na tatosti mahattaram |
nāsti tasmādduḥkhataraṃ nāstyanyattatsamaṃ sukham
न तत्राविश्यि शोचन्ति न प्रहृष्यन्ति च द्विजाः ।
न च बिभ्यति केभ्यश्चिन्नैभ्यो बिभ्यति केचन
na tatrāviśyi śocanti na prahṛṣyanti ca dvijāḥ |
na ca bibhyati kebhyaścinnaibhyo bibhyati kecana
तस्मिन्वने सप्त महाद्रुमाश्च
फलानि सप्तातिथयश्च सप्त ।
सप्ताश्रमाः सप्त समाधयश्च
दीक्षाश्च सप्तैतदरण्यरूपम्
tasminvane sapta mahādrumāśca
phalāni saptātithayaśca sapta |
saptāśramāḥ sapta samādhayaśca
dīkṣāśca saptaitadaraṇyarūpam
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वन्म्
pañcavarṇāni divyāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanm
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam
शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
śaṅkarāṇi trivarṇāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam
सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
surabhīṇi dvivarṇāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
surabhīṇyekavarṇāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च ।
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः
bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca |
visṛjantau mahāvṛkṣau tadvanaṃ vyāpya tiṣṭhataḥ
एको वह्निः सुमना ब्राह्मणोत्र
पञ्चेन्द्रियाणि समिधश्चात्र सन्ति ।
तेभ्यो वृक्षाःक सप्त फलन्ति दीक्षा
गुणाः फलान्यतिथयः फलाशाः
eko vahniḥ sumanā brāhmaṇotra
pañcendriyāṇi samidhaścātra santi |
tebhyo vṛkṣāḥka sapta phalanti dīkṣā
guṇāḥ phalānyatithayaḥ phalāśāḥ
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः ।
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम्
ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ |
arciteṣu pralīneṣu teṣvanyadrocate vanam
प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम् ।
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्
prajñāvṛkṣaṃ mokṣaphalaṃ śānticchāyāsamanvitam |
jñānāśrayaṃ tṛptitoyamantaḥkṣetrajñabhāskaram
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति पुनर्भवः ।
ऊर्ध्वं चाधश्च तिर्यक्च तस्य नान्तोऽधिगम्यते
ye'dhigacchanti tatsantasteṣāṃ nāsti punarbhavaḥ |
ūrdhvaṃ cādhaśca tiryakca tasya nānto'dhigamyate
सप्त स्त्रियस्तत्र चरन्ति सत्या-
स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः ।
ऊर्ध्वं रसानाददते प्रजाभ्यः
सर्वान्यथा नित्यमनित्यता च
sapta striyastatra caranti satyā-
stvavāṅmukhā bhānumatyo janitryaḥ |
ūrdhvaṃ rasānādadate prajābhyaḥ
sarvānyathā nityamanityatā ca
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च ।
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह
tatraiva pratitiṣṭhanti punastatrodayanti ca |
sapta saptarṣayaḥ siddhā vasiṣṭhapramukhaiḥ saha
यशो वर्चो भगश्चैव विजयः सिद्धतेजसः ।
एतमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्
yaśo varco bhagaścaiva vijayaḥ siddhatejasaḥ |
etamevānuvartante sapta jyotīṃṣi bhāskaram
ऋषयः पर्वताश्चैव सन्ति तत्र समासतः ।
नद्यश्च परितो वारि वहन्त्यो ब्रह्मिसम्भवम्
ṛṣayaḥ parvatāścaiva santi tatra samāsataḥ |
nadyaśca parito vāri vahantyo brahmisambhavam
नदीनां सङ्गमश्चैव वैताने समुपहरे ।
स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम्
nadīnāṃ saṅgamaścaiva vaitāne samupahare |
svātmatṛptā yato yānti sākṣādeva pitāmaham
कृशाशाः सुव्रताः शान्तास्तपसा दग्धकिल्बिषाः ।
आत्मन्यात्मानमावेश्य ब्राह्मणास्तमुपासते
kṛśāśāḥ suvratāḥ śāntāstapasā dagdhakilbiṣāḥ |
ātmanyātmānamāveśya brāhmaṇāstamupāsate
शमिमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।
तदरण्यमभिप्रेत्य यथातत्वमजायत
śamimapyatra śaṃsanti vidyāraṇyavido janāḥ |
tadaraṇyamabhipretya yathātatvamajāyata
एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः ।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना
etadevedṛśaṃ puṇyamaraṇyaṃ brāhmaṇā viduḥ |
viditvā cānutiṣṭhanti kṣetrajñenānudarśinā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)