आश्वमेधिक पर्व

अध्याय 23: अनुगीता: सात होता और इन्द्रियों का विवाद

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रयोविंशोऽध्यायः ॥

29 श्लोक · 23 में से 118

इस अध्याय में क्या होता है

अनुगीता: सात होता और इन्द्रियों का विवाद

ब्राह्मण सात होताओं का वर्णन करते हैं: नासिका, नेत्र, जिह्वा, त्वचा, कान, मन और बुद्धि। एक ही सूक्ष्म आकाश में रहकर भी वे एक दूसरे को नहीं देखते, क्योंकि हर एक केवल अपना विषय जानता है। गन्ध केवल नासिका जानती है, रस केवल जिह्वा, रूप केवल नेत्र, स्पर्श केवल त्वचा, शब्द केवल कान; संकल्प केवल मन जानता है और निश्चय केवल बुद्धि। मन कहता है कि मेरे बिना इन्द्रियाँ सूने घर और बुझी आग हैं। इन्द्रियाँ उत्तर देती हैं: यदि तुम सबसे बड़े हो तो नाक से रूप और आँख से रस ग्रहण करके दिखाओ। हमारे बिना तुम केवल स्मृतियों और स्वप्नों पर जीते हो, और प्राण चुकने पर लकड़ी जल चुकी आग की तरह बुझ जाते हो।

ब्राह्मण उवाच

23.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे सप्तहोतॄणां विधानमिह यादृशम्

atrāpyudāharantīmamitihāsaṃ purātanam |
subhage saptahotṝṇāṃ vidhānamiha yādṛśam

23.2

घ्राणश्चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम् ।
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः

ghrāṇaścakṣuśca jihvā ca tvak śrotraṃ caiva pañcamam |
mano buddhiśca saptaite hotāraḥ pṛthagāśritāḥ

23.3

सूक्ष्माकाशे समं प्राप्ते न पश्यन्तीतरेतरम् ।
एतद्वै सप्तहोतृत्वं स्वभावाद्विद्धि शोभने

sūkṣmākāśe samaṃ prāpte na paśyantītaretaram |
etadvai saptahotṛtvaṃ svabhāvādviddhi śobhane

ब्राह्मण्युवाच

23.4

सूक्ष्मे तु काशे सम्प्राप्ते कथं नान्योन्यदर्शिनः ।
कथं स्वभावाद्भगवन्नेतदाचक्ष्व मे प्रभो

sūkṣme tu kāśe samprāpte kathaṃ nānyonyadarśinaḥ |
kathaṃ svabhāvādbhagavannetadācakṣva me prabho

ब्राह्मण उवाच

23.5

गुणज्ञानेषु विज्ञानं गुणज्ञानामभिज्ञता ।
परस्परं गुणानेते नाभिजानन्ति कर्हिचित्

guṇajñāneṣu vijñānaṃ guṇajñānāmabhijñatā |
parasparaṃ guṇānete nābhijānanti karhicit

23.6

जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति

jihvā cakṣustathā śrotraṃ tvaṅmano buddhireva ca |
na gandhānadhigacchanti ghrāṇastānadhigacchati

23.7

घ्राणं चक्षुस्तथा क्षोत्रं त्वङ्मनो बुद्धिरेव च ।
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति

ghrāṇaṃ cakṣustathā kṣotraṃ tvaṅmano buddhireva ca |
na rasānadhigacchanti jihvā tānadhigacchati

23.8

घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति

ghrāṇaṃ jihvā tathā śrotraṃ tvaṅmano buddhireva ca |
na rūpāṇyadhigacchanti cakṣustānyadhigacchati

23.9

घ्राणं जिह्वा ततश्चक्षुः श्रोत्रं बुद्धिर्मनस्तथा ।
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति

ghrāṇaṃ jihvā tataścakṣuḥ śrotraṃ buddhirmanastathā |
na sparśānadhigacchanti tvakca tānadhigacchati

23.10

घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च ।
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति

ghrāṇaṃ jihvā ca cakṣuśca tvaṅmano buddhireva ca |
na śabdānadhigacchanti śrotraṃ tānadhigacchati

23.11

घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिरेव च ।
सङ्कल्पान्नाधिगच्छन्ति मनस्तानधिगच्छति

ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhireva ca |
saṅkalpānnādhigacchanti manastānadhigacchati

23.12

घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च ।
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति

ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca |
na niṣṭhāmadhigacchanti buddhistāmadhigacchati

23.13

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रियाणां च संवादं मनसश्चैव भामिनि

atrāpyudāharantīmamitihāsaṃ purātanam |
indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini

मन उवाच

23.14

नाघ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च ।
रूपं चक्षुर्न गृह्णाति त्वक् स्पर्सं नावबुध्यते

nāghrāti māmṛte ghrāṇaṃ rasaṃ jihvā na vetti ca |
rūpaṃ cakṣurna gṛhṇāti tvak sparsaṃ nāvabudhyate

23.15

न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन ।
प्रवरं सर्वबूतानामहमस्मि सनातनम्

na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathañcana |
pravaraṃ sarvabūtānāmahamasmi sanātanam

23.16

अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः ।
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः

agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ |
indriyāṇi na bhāsante mayā hīnāni nityaśaḥ

23.17

काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः ।
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः

kāṣṭhānīvārdraśuṣkāṇi yatamānairapīndriyaiḥ |
guṇārthānnādhigacchanti māmṛte sarvajantavaḥ

इन्द्रियाण्यूचुः

23.18

एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् ।
ऋतेऽस्मानस्मदर्थांस्त्वं भोगान्भुङ्क्ते भवान्यदि

evametadbhavetsatyaṃ yathaitanmanyate bhavān |
ṛte'smānasmadarthāṃstvaṃ bhogānbhuṅkte bhavānyadi

23.19

यद्यस्मासु प्रलीनेषु तप्रणं प्राणधारणम् ।
भोगान्भुङ्क्ते भवान्सत्यं यथैतन्मन्यते तथा

yadyasmāsu pralīneṣu tapraṇaṃ prāṇadhāraṇam |
bhogānbhuṅkte bhavānsatyaṃ yathaitanmanyate tathā

23.20

अथवाऽस्मासु लीनेषु तिष्ठत्सु विषयेषु च ।
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत्

athavā'smāsu līneṣu tiṣṭhatsu viṣayeṣu ca |
yadi saṅkalpamātreṇa bhuṅkte bhogānyathārthavat

23.21

अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा ।
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा

atha cenmanyase siddhimasmadartheṣu nityadā |
ghrāṇena rūpamādatsva rasamādatsva cakṣuṣā

23.22

श्रोत्रेण गन्धानादत्स्व स्पर्शानादत्स्व जिह्वया ।
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च

śrotreṇa gandhānādatsva sparśānādatsva jihvayā |
tvacā ca śabdamādatsva buddhyā sparśamathāpi ca

23.23

बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् ।
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हति

balavanto hyaniyamā niyamā durbalīyasām |
bhogānapūrvānādatsva nocchiṣṭaṃ bhoktumarhati

23.24

यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति ।
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति

yathā hi śiṣyaḥ śāstāraṃ śrutyarthamabhidhāvati |
tataḥ śrutamupādāya śrutārthamupatiṣṭhati

23.25

विषयानेवमस्माभिर्दर्शितानभिमन्यसे ।
अनुभूतानतीतांश्च स्वप्ने जागरणे तथा

viṣayānevamasmābhirdarśitānabhimanyase |
anubhūtānatītāṃśca svapne jāgaraṇe tathā

23.26

वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् ।
अस्मदर्थे कृते दृश्यते प्राणधारणम्

vaimanasyaṃ gatānāṃ ca jantūnāmalpacetasām |
asmadarthe kṛte dṛśyate prāṇadhāraṇam

23.27

बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च ।
बुभुक्षया पीड्यमानो विषयानेन धावति

bahūnapi hi saṅkalpānmatvā svapnānupāsya ca |
bubhukṣayā pīḍyamāno viṣayānena dhāvati

23.28

अगारमद्वारमिव प्रविश्य
सङ्कल्पभोगान्विषयानविन्दन् ।
प्राणक्षये शान्तिमुपैति नित्यं
दारुक्षयेऽग्निर्ज्वलितो यथैव

agāramadvāramiva praviśya
saṅkalpabhogānviṣayānavindan |
prāṇakṣaye śāntimupaiti nityaṃ
dārukṣaye'gnirjvalito yathaiva

23.29

कामं तु नष्टेषु गुणेषु सङ्गः
कामं च नान्योन्यगुणोपलब्धिः ।
अस्मान्विना नास्ति तपोपलब्धि-
स्तामप्यृते त्वां न भजेत्प्रहर्षः

kāmaṃ tu naṣṭeṣu guṇeṣu saṅgaḥ
kāmaṃ ca nānyonyaguṇopalabdhiḥ |
asmānvinā nāsti tapopalabdhi-
stāmapyṛte tvāṃ na bhajetpraharṣaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)