द्विवोधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते
dvivodho jāyate vyādhiḥ śārīro mānasastathā |
parasparaṃ tayorjanma nirdvandvaṃ nopapadyate
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि द्वादशोऽध्यायः ॥
17 श्लोक · 12 में से 118
श्रीकृष्ण बताते हैं कि रोग दो प्रकार का है, शरीर का और मन का, और दोनों एक दूसरे से उपजते हैं। शीत, उष्ण और वायु शरीर के गुण हैं, सत्त्व, रज और तम मन के। इनका सन्तुलन ही स्वास्थ्य है, और एक दूसरे को दबाता है, जैसे हर्ष शोक को। फिर वे युधिष्ठिर के शोक को टोकते हैं। केवल यही दुःख क्यों याद करते हो? एक वस्त्र में सभा में घसीटी गई द्रौपदी, मृगचर्म पहनकर वनवास, जटासुर, चित्रसेन, जयद्रथ और कीचक की लात, इन्हें क्यों नहीं याद करते? द्रोण और भीष्म से युद्ध समाप्त हुआ। अब वह युद्ध सामने है जो अकेले मन से लड़ना है, जिसमें न बाण काम आते हैं, न सेवक, न बन्धु। उसे न जीता तो दुर्गति होगी। यह जानकर पितृ पितामहों का राज्य चलाओ।
वासुदेव उवाच
द्विवोधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते
dvivodho jāyate vyādhiḥ śārīro mānasastathā |
parasparaṃ tayorjanma nirdvandvaṃ nopapadyate
शरीरे जायते व्याधिः शरीरः स निगद्यते ।
मानसे जायते व्याधिर्मानसस्तु निगद्यते
śarīre jāyate vyādhiḥ śarīraḥ sa nigadyate |
mānase jāyate vyādhirmānasastu nigadyate
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम्
śītoṣṇe caiva vāyuśca guṇā rājañśarīrajāḥ |
teṣāṃ guṇānāṃ sāmyaṃ cettadāhuḥ svasthalakṣaṇam
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते
uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate
सत्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम्
satvaṃ rajastamaśceti traya ātmaguṇāḥ smṛtāḥ |
teṣāṃ guṇānāṃ sāmyaṃ cettadāhuḥ svasthalakṣaṇam
तेषामन्यतमोत्सेके विधानमुपदिश्यते ।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते
teṣāmanyatamotseke vidhānamupadiśyate |
harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ।
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति
kaścidduḥkhe vartamānaḥ sukhasya smartumicchati |
kaścitsukhe vartamāno duḥkhasya smartumicchati
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा ।
स्मर्तुमिच्छसि कौन्तेय दैवं हि बलवत्तरम् ।
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे
sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā |
smartumicchasi kaunteya daivaṃ hi balavattaram |
athavā te svabhāvo'yaṃ yena pārthāvakṛṣyase
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।
मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि
dṛṣṭvā sabhāgatāṃ kṛṣṇāmekavastrāṃ rajasvalām |
miṣatāṃ pāṇḍaveyānāṃ na tasya smartumicchasi
प्रव्राजनं च नगरादजिनैश्च विवासनम् ।
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि
pravrājanaṃ ca nagarādajinaiśca vivāsanam |
mahāraṇyanivāsaśca na tasya smartumicchasi
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः ।
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि
jaṭāsurātparikleśaścitrasenena cāhavaḥ |
saindhavācca parikleśo na tasya smartumicchasi
पुनरज्ञातचर्यायां कीचकेन पदा वधः ।
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि
punarajñātacaryāyāṃ kīcakena padā vadhaḥ |
yājñasenyāstathā pārtha na tasya smartumicchasi
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम ।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्
yacca te droṇabhīṣmābhyāṃ yuddhamāsīdariṃdama |
manasaikena yoddhavyaṃ tatte yuddhamupasthitam
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ।
परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः
tasmādabhyupagantavyaṃ yuddhāya bharatarṣabha |
paramavyaktarūpasya pāraṃ yuktyā svakarmabhiḥ
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्
yatra naiva śaraiḥ kāryaṃ na bhṛtyairna ca bandhubhiḥ |
ātmanaikena yoddhavyaṃ tatte yuddhamupasthitam
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि ।
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि
tasminnanirjite yuddhe kāmavasthāṃ gamiṣyasi |
etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi
एथां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्
ethāṃ buddhiṃ viniścitya bhūtānāmāgatiṃ gatim |
pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)