आश्रमवासिक पर्व

अध्याय 34: गंगा के जल से वीर प्रकट होते हैं

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि चतुस्त्रिंशोऽध्यायः ॥

21 श्लोक · 34 में से 41

इस अध्याय में क्या होता है

गंगा के जल से वीर प्रकट होते हैं

रात होने पर सायंकाल का कर्म करके सब भागीरथी के तट पर व्यास के पास एकत्र होते हैं: धृतराष्ट्र और पाण्डव, गान्धारी और स्त्रियाँ, और प्रजा। व्यास जल में उतरकर लोकों का आवाहन करते हैं। भारी कोलाहल उठता है, और भीष्म तथा द्रोण के नेतृत्व में दोनों सेनाओं के राजा हजारों की संख्या में नदी से निकलते हैं: विराट, द्रुपद, द्रौपदी के पुत्र, अभिमन्यु, घटोत्कच, कर्ण, दुर्योधन, शकुनि, दुःशासन, शल्य और अनेक अन्य, प्रत्येक अपने वेश, ध्वज, रथ और शस्त्र के साथ। वे दिव्य वस्त्रों में दमकते हैं, वैर, अहंकार और क्रोध से रहित। व्यास की कृपा से धृतराष्ट्र को दिव्य दृष्टि मिलती है और गान्धारी अपने पुत्रों को देखती हैं। सारी भीड़ अपलक देखती रहती है।

वैशम्पायन उवाच

34.1

ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः

tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ |
vyāsamabhyagamansarve ye tatrāsansamāgatāḥ

34.2

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत्

dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā |
śucirekamanāḥ sārdhamṛṣibhistairupāviśat

34.3

गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् ।
पौरजानपदश्चापि जनः सर्वो यथा वयः

gāndhāryā saha nāryastu sahitāḥ samupāviśan |
paurajānapadaścāpi janaḥ sarvo yathā vayaḥ

34.4

ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् ।
अवतीर्याजुहावाथ सँर्वाल्लोकान्महामुनिः

tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam |
avatīryājuhāvātha sam̐rvāllokānmahāmuniḥ

34.5

पाण्डवानां च ये योधाः कौरवाणां च सर्वशः ।
राजानश्च महाभागा नानादेशनिवासिनः ।
प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति

pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ |
rājānaśca mahābhāgā nānādeśanivāsinaḥ |
pratīkṣya tasthuste sarve teṣāmāgamanaṃ prati

34.6

ततः सुतुमुलः शब्दो जलान्ते जनमेजय ।
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः

tataḥ sutumulaḥ śabdo jalānte janamejaya |
prādurāsīdyathāyogaṃ kurupāṇḍavasenayoḥ

34.7

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः

tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ |
sasainyāḥ salilāttasmātsamuttasthuḥ sahasraśaḥ

34.8

विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः

virāṭadrupadau caiva sahaputrau sasainikau |
draupadeyāśca saubhadro rākṣasaśca ghaṭotkacaḥ

34.9

कर्णदुर्योधनौ चैव शकुनिश्च महारथः ।
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः

karṇaduryodhanau caiva śakuniśca mahārathaḥ |
duḥśāsanādayaścaiva dhārtarāṣṭrā mahābalāḥ

34.10

जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान् ।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः

jārāsandhirbhagadatto jalasandhaśca vīryavān |
bhūriśravāḥ śalaḥ śalyo vṛṣasenaśca sānujaḥ

34.11

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः ।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुज

lakṣmaṇo rājaputraśca dhṛṣṭadyumnassahātmajaḥ |
śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuśca sānuja

34.12

अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।
बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः

acalo vṛṣakaścaiva rākṣasaścāpyalāyudhaḥ |
bāhlikaḥ somadattaśca cekitānaśca pārthivaḥ

34.13

एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः

ete cānye ca bahavo bahutvādye na kīrtitāḥ |
sarve bhāsuradehāste samuttasthurjalāttataḥ

34.14

यस्य् वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।
यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते

yasy vīrasya yo veṣo yo dhvajo yacca vāhanam |
yadvarma yatpraharaṇaṃ tena tena sa dṛśyate

34.15

दिव्यांबरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः

divyāṃbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ |
nirvairā nirahaṅkārā vigatakrodhamatsarāḥ

34.16

गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः ।
दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः

gandharvairupagīyantaḥ stūyamānāśca bandibhiḥ |
divyamālyasrajopetāstathā divyāpsarovṛtāḥ

34.17

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्

dhṛtarāṣṭrasya ca tadā divyaṃ cakṣurnarādhipa |
muniḥ satyavatīputraḥ prītaḥ prādāttapobalāt

34.18

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृघे हताः

divyajñānabalopetā gāndhārī ca yaśasvinī |
dadarśa putrāṃstānsarvānye cānye'pi mṛghe hatāḥ

34.19

तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षमम् ।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः

tadadbhutamacintyaṃ ca sumahadromaharṣamam |
vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ

34.20

तदुत्सवमहोदग्रं हृष्टनारीनराकुलम् ।
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा

tadutsavamahodagraṃ hṛṣṭanārīnarākulam |
āścaryabhūtaṃ dadṛśe citraṃ paṭagataṃ yathā

34.21

धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा ।
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः

dhṛtarāṣṭrastu tānsarvānpaśyandivyena cakṣuṣā |
mumude bharataśreṣṭha prasādāttasya vai muneḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)