वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः ।
बभूवुः पाण्डवा राजन्मातृशोकेनि चान्विताः
vanaṃ gate kauravendre duḥkhaśokasamanvitāḥ |
babhūvuḥ pāṇḍavā rājanmātṛśokeni cānvitāḥ
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोविंशोऽध्यायः ॥
16 श्लोक · 23 में से 41
कुरुराज के वन जाने पर पाण्डव माता के शोक में डूब जाते हैं। नगरवासी भी शोक करते हैं, और ब्राह्मण इसी की चर्चा करते हैं: वृद्ध राजा निर्जन वन में कैसे रहते होंगे, गान्धारी कैसी होंगी, और पुत्रों तथा राजलक्ष्मी को छोड़ने वाली कुन्ती कैसी होंगी? भाई की सेवा करने वाले विदुर और स्वामी का अन्न निभाने वाले संजय किस दशा में होंगे? वृद्ध माता, पुत्रहीन राजा, गान्धारी और बुद्धिमान विदुर का स्मरण कर पाण्डवों को न राज्य में सुख मिलता है, न स्त्रियों में, न वेदाध्ययन में। वे बार-बार स्वजनों का वध, रणभूमि में बालक अभिमन्यु का अन्त, कभी न भागने वाले कर्ण को याद करते हैं, और वीरों से सूनी पृथ्वी में उन्हें शान्ति नहीं मिलती।
वैशम्पायन उवाच
वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः ।
बभूवुः पाण्डवा राजन्मातृशोकेनि चान्विताः
vanaṃ gate kauravendre duḥkhaśokasamanvitāḥ |
babhūvuḥ pāṇḍavā rājanmātṛśokeni cānvitāḥ
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् ।
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति
tathā paurajanaḥ sarvaḥ śocannāste janādhipam |
kurvāṇāśca kathāstatra brāhmaṇā nṛpatiṃ prati
कथं न राजा वृद्धः स वने वसति निर्जने ।
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्
kathaṃ na rājā vṛddhaḥ sa vane vasati nirjane |
gāndhārī ca mahābhāgā sā ca kuntī pṛthā katham
सुखार्हः स हि राजर्षिरसुखी तद्वनं महत् ।
किमवस्थः समासाद्य प्रज्ञाचक्षुर्महामनाः
sukhārhaḥ sa hi rājarṣirasukhī tadvanaṃ mahat |
kimavasthaḥ samāsādya prajñācakṣurmahāmanāḥ
सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा ।
राज्यश्रियं परित्यज्य वनं सा समरोचयत्
suduṣkaraṃ kṛtavatī kuntī putrānapāsya sā |
rājyaśriyaṃ parityajya vanaṃ sā samarocayat
विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान् ।
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः
viduraḥ kimavasthaśca bhrātṛśuśrūṣurātmavān |
sa ca gāvalgaṇirdhīmānbhartṛpiṇḍānupālakaḥ
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः ।
तत्रतत्र कथाश्चक्रुः समासाद्य परस्परम्
ākumāraṃ ca paurāste cintāśokasamāhatāḥ |
tatratatra kathāścakruḥ samāsādya parasparam
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः ।
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे
pāṇḍavāścaiva te sarve bhṛśaṃ śokaparāyaṇāḥ |
śocanto mātaraṃ vṛddhāmūṣurnāticiraṃ pure
तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम् ।
गान्धारीं च महाभागां विदुरं च महामतिम्
tathaiva vṛddhaṃ pitaraṃ hataputraṃ janeśvaram |
gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा ।
न राज्ये न च नारीषु न वेदाध्ययनेषु च
naiṣāṃ babhūva samprītistānvicintayatāṃ tadā |
na rājye na ca nārīṣu na vedādhyayaneṣu ca
परं निर्वेदमगमंश्चिन्तयन्ता नराधिपम् ।
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः
paraṃ nirvedamagamaṃścintayantā narādhipam |
taṃ ca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥpunaḥ
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि ।
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः
abhimanyośca bālasya vināśaṃ raṇamūrdhani |
karṇasya ca mahābāhoḥ saṅgrāmeṣvapalāyinaḥ
तथैव द्रौपदेयानामन्येषां सुहृदामपि ।
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन्
tathaiva draupadeyānāmanyeṣāṃ suhṛdāmapi |
vadhaṃ saṃsmṛtya te vīrā nātipramanaso'bhavan
हतप्रवीरां पृथिवीं हृतरत्नां च भारत ।
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे
hatapravīrāṃ pṛthivīṃ hṛtaratnāṃ ca bhārata |
sadaiva cintayantaste na śamaṃ copalebhire
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी ।
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत्
draupadī hataputrā ca subhadrā caiva bhāminī |
nātiprītiyute devyau tadāstāmaprahṛṣṭavat
वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम् ।
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः
vairāṭyāstanayaṃ dṛṣṭvā pitaraṃ te parikṣitam |
dhārayanti sma te prāṇāṃstava pūrvapitāmahāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)