ततः प्रभाते राजा स धृतराष्ट्रोंऽबिकासुतः ।
आनाय्य पाण्डवान्वीरान्वनषासे कृतक्षणः
tataḥ prabhāte rājā sa dhṛtarāṣṭroṃ'bikāsutaḥ |
ānāyya pāṇḍavānvīrānvanaṣāse kṛtakṣaṇaḥ
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षोडशोऽध्यायः ॥
13 श्लोक · 16 में से 41
कार्तिकी पूर्णिमा की प्रातः धृतराष्ट्र वेदपारग ब्राह्मणों से इष्टि कराते हैं, वल्कल और मृगचर्म पहनते हैं और अग्निहोत्र को आगे रखकर निकलते हैं। कौरव और पाण्डव घरानों की स्त्रियाँ ऊँचे स्वर में रोती हैं। युधिष्ठिर काँपते हुए हाथ जोड़कर पुकारते हैं, आप कहाँ जा रहे हैं, और भूमि पर गिर पड़ते हैं; अर्जुन उन्हें सँभालते हैं। भीम, नकुल-सहदेव, विदुर, संजय, युयुत्सु, कृप और धौम्य आँसू बहाते पीछे चलते हैं। कुन्ती आगे चलती हैं, आँखों पर पट्टी बाँधे गान्धारी का हाथ उनके कन्धे पर है, और धृतराष्ट्र का हाथ गान्धारी के कन्धे पर। द्रौपदी, सुभद्रा, शिशु सहित उत्तरा और चित्राङ्गदा भी साथ चलती हैं। नगर वैसे ही शोक करता है जैसे द्यूत के बाद पाण्डवों के जाने पर।
वैशम्पायन उवाच
ततः प्रभाते राजा स धृतराष्ट्रोंऽबिकासुतः ।
आनाय्य पाण्डवान्वीरान्वनषासे कृतक्षणः
tataḥ prabhāte rājā sa dhṛtarāṣṭroṃ'bikāsutaḥ |
ānāyya pāṇḍavānvīrānvanaṣāse kṛtakṣaṇaḥ
गान्धारीसहितो धीमानभ्यनन्दद्यथाविधि ।
कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः
gāndhārīsahito dhīmānabhyanandadyathāvidhi |
kārtikyāṃ kārayitveṣṭiṃ brāhmaṇairvedapāragaiḥ
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः ।
वधूजनवृतो राजा निर्ययौ भवनात्ततः
agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ |
vadhūjanavṛto rājā niryayau bhavanāttataḥ
ततः स्त्रियः कौरवपाण्डवानां
याञ्चापराः कौरवराजवंश्याः ।
तासां नादः प्रादुरासीत्तदानीं
वैचित्रिवीर्ये नृपतौ प्रयाते
tataḥ striyaḥ kauravapāṇḍavānāṃ
yāñcāparāḥ kauravarājavaṃśyāḥ |
tāsāṃ nādaḥ prādurāsīttadānīṃ
vaicitrivīrye nṛpatau prayāte
ततो लाजैः सुमनोभिश्च राजा
विचित्राभिस्तद्गृहं पूजयित्वा ।
संयोज्याश्वैर्भृत्यवर्गं च सर्वं
ततः समुत्सृज्य ययौ नरेन्द्रः
tato lājaiḥ sumanobhiśca rājā
vicitrābhistadgṛhaṃ pūjayitvā |
saṃyojyāśvairbhṛtyavargaṃ ca sarvaṃ
tataḥ samutsṛjya yayau narendraḥ
ततो राजा प्राञ्जलिर्वेपमानो
युधिष्ठिरः सस्वरं बाष्पकण्ठः ।
विनद्योच्चैर्गां महाराज साधो
क्व यास्यसीत्यपतत्ताति भूमौ
tato rājā prāñjalirvepamāno
yudhiṣṭhiraḥ sasvaraṃ bāṣpakaṇṭhaḥ |
vinadyoccairgāṃ mahārāja sādho
kva yāsyasītyapatattāti bhūmau
तथाऽर्जुनस्तीव्रदुःखाभितप्तो
मुहुर्मुहुर्निः श्वसन्भारताग्र्यः ।
युधिष्ठिरं मैवमित्येवमुक्त्वा
निगृह्याथो दीनतरो बभूव
tathā'rjunastīvraduḥkhābhitapto
muhurmuhurniḥ śvasanbhāratāgryaḥ |
yudhiṣṭhiraṃ maivamityevamuktvā
nigṛhyātho dīnataro babhūva
वृकोदरः फल्गुनश्चैव वीरौ
माद्रीपुत्रौ विदुरः संजयश्च ।
वैश्यापुत्रः सहितो गौतमेन
धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः
vṛkodaraḥ phalgunaścaiva vīrau
mādrīputrau viduraḥ saṃjayaśca |
vaiśyāputraḥ sahito gautamena
dhaumyo viprāścānvayurbāṣpakaṇṭhāḥ
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं
स्कन्धासक्तं हस्तमथोद्वहन्ती ।
राजा गान्धार्याः स्कन्धदेशेऽवसज्य
पाणिं ययौ धृतराष्ट्रः प्रतीतः
kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ
skandhāsaktaṃ hastamathodvahantī |
rājā gāndhāryāḥ skandhadeśe'vasajya
pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ
तथा कृष्णा द्रौपदी यादवी च
बालापत्या चोत्तरा कौरवी च ।
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः
सार्धं राज्ञा प्रस्थितास्ता वधूभिः
tathā kṛṣṇā draupadī yādavī ca
bālāpatyā cottarā kauravī ca |
citrāṅgadā yāśca kāścitstriyo'nyāḥ
sārdhaṃ rājñā prasthitāstā vadhūbhiḥ
तासां नादो रुदतीनां तदाऽऽसी-
द्राजन्दुःखात्कुररीणामिवोच्चैः ।
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां
विट्शूद्राणां चैव भार्याः समन्तात्
tāsāṃ nādo rudatīnāṃ tadā''sī-
drājanduḥkhātkurarīṇāmivoccaiḥ |
tato niṣpeturbrāhmaṇakṣatriyāṇāṃ
viṭśūdrāṇāṃ caiva bhāryāḥ samantāt
तन्निर्याणे दुःखितः पौरवर्गो
गजाह्वये चैव बभूव राजन् ।
यथापूर्वं गच्छतां पाण्डवानां
द्यूते राजन्कौरवाणां सभायाम्
tanniryāṇe duḥkhitaḥ pauravargo
gajāhvaye caiva babhūva rājan |
yathāpūrvaṃ gacchatāṃ pāṇḍavānāṃ
dyūte rājankauravāṇāṃ sabhāyām
या नापश्यच्चन्द्रमा नैव सूर्यो
रामाः काश्चित्ताः स्म तस्मिन्नरेन्द्रे ।
महावनं गच्छति कौरवेन्द्रे
शोकेनार्ता राजमार्गं प्रपेदुः
yā nāpaśyaccandramā naiva sūryo
rāmāḥ kāścittāḥ sma tasminnarendre |
mahāvanaṃ gacchati kauravendre
śokenārtā rājamārgaṃ prapeduḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)