केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते ।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्
keśinyāstadvacaḥ śrutvā damayantī viśāṃpate |
śaṅkamānā nalaṃ taṃ vai keśinīmidamabravīt
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिसप्ततितमोऽध्यायः ॥
28 श्लोक · 73 में से 315
दमयन्ती केशिनी को फिर भेजती है कि चुपचाप बाहुक को देखे और अग्नि या जल न दे। केशिनी विस्मित लौटती है। नीचे द्वार पर वे झुकते नहीं, द्वार स्वयं ऊँचा हो जाता है। उनकी दृष्टि से खाली घड़े भर जाते हैं। सूर्य की ओर की गई घास जल उठती है, आग उन्हें नहीं जलाती, और हाथों में मसले फूल और ताज़े हो जाते हैं। दमयन्ती बाहुक का पकाया मांस मँगवाती है, चखकर नल का हाथ पहचानती है और रो पड़ती है। फिर वह दोनों बच्चों को भेजती है। बाहुक दौड़कर उन्हें गोद में लेते हैं और जोर से रोते हैं। सँभलकर कहते हैं कि ये मेरे बच्चों जैसे हैं, और लोग सन्देह न करें, इसलिए केशिनी को लौटा देते हैं।
बृहदश्व उवाच
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते ।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्
keśinyāstadvacaḥ śrutvā damayantī viśāṃpate |
śaṅkamānā nalaṃ taṃ vai keśinīmidamabravīt
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय
gaccha keśini bhūyastvaṃ parīkṣāṃ kuru bāhuke |
abruvāṇā samīpasthā caritānyasya lakṣaya
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि ।
तत्रसंचेष्टमानस्य संलक्षेथा विचेष्टितम्
yadā ca kiṃcitkuryātsa kāraṇaṃ tatra bhāmini |
tatrasaṃceṣṭamānasya saṃlakṣethā viceṣṭitam
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि ।
याचते न जलं देयं सकृच्चात्वरमाणया ।
एतत्सर्वं समीक्ष्यत्वं चरितं मे निवेदय
na cāsya pratibandhena deyo'gnirapi keśini |
yācate na jalaṃ deyaṃ sakṛccātvaramāṇayā |
etatsarvaṃ samīkṣyatvaṃ caritaṃ me nivedaya
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम् ।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम
nimittaṃ yattvayā dṛṣṭaṃ bāhuke daivamānuṣam |
yaccānyadapi paśyethāstaccākhyeyaṃ tvayā mama
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी ।
निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत्
damayantyaivamuktā sā jagāmātha ca keśinī |
niśāmyātha hayajñasya liṅgāni punarāgamat
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम्
sā tatsarvaṃ yathāvṛttaṃ damayantyai nyavedayat |
nimittaṃ yattayā dṛṣṭaṃ bāhuke divyamānuṣam
केशिन्युवाच
दृढं शुच्यपदानोसौ न मया मानुषः क्वचित् ।
दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः
dṛḍhaṃ śucyapadānosau na mayā mānuṣaḥ kvacit |
dṛṣṭapūrvaḥ śruto vā'pi damayanti tathāvidhaḥ
ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित् ।
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ।
संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम्
hrasvamāsādya tu dvāraṃ nāsau vinamate kvacit |
taṃ tu dṛṣṭvā yathāsaṅgamutsarpati yathāsukham |
saṃkaṭe'pyasya sumahadvivaraṃ jāyate'dhikam
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।
प्रेषितं तत्रराज्ञा तु मांसं बहु च पाशवम्
ṛtuparṇasya cārthāya bhojanīyamanekaśaḥ |
ṛtuparṇasya cārthāya bhojanīyamanekaśaḥ |
preṣitaṃ tatrarājñā tu māṃsaṃ bahu ca pāśavam
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः ।
ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः
tasya prakṣālanārthāya kumbhāstatropakalpitāḥ |
te tenāvekṣitāḥ kumbhāḥ pūrṇā evābhavaṃstataḥ
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः ।
तृणमुष्टिं समादाय सवितुस्तं समादधत्
tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ |
tṛṇamuṣṭiṃ samādāya savitustaṃ samādadhat
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः ।
तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता
atha prajvalitastatra sahasā havyavāhanaḥ |
tadadbhutatamaṃ dṛṣṭvā vismitā'mihāgatā
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया ।
यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे
anyacca tasminsumahadāścaryaṃ lakṣitaṃ mayā |
yadagnimapi saṃspṛśya naivāsau dahyate śubhe
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् ।
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम्
chandena codakaṃ tasya vahatyāvarjitaṃ drutam |
atīva cānyatsumahadāścaryaṃ dṛṣṭavatyaham
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः ।
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा ।
भूय एव सुगन्धीनि हृपितानि भवन्ति हि
yatsa puṣpāṇyupādāya hastābhyāṃ mamṛde śanaiḥ |
mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi nānyathā |
bhūya eva sugandhīni hṛpitāni bhavanti hi
एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता ।
चेष्टितानि विशालाक्षि बाहुकस्य समीपतः
etānyadbhutakalpāni dṛṣṭvā'haṃ bhṛśavismitā |
ceṣṭitāni viśālākṣi bāhukasya samīpataḥ
बृहदश्व उवाच
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्
damayantī tu tacchrutvā puṇyaślokasya ceṣṭitam |
amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् ।
केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत्
sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam |
keśinīṃ ślakṣṇayā vācā rudantī punarabravīt
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।
महानसाच्छ्रितं मांसमानयस्वेह भामिनि
punargaccha pramattasya bāhukasyopasaṃskṛtam |
mahānasācchritaṃ māṃsamānayasveha bhāmini
सा दृष्ट्वाबाहुके व्यग्रे तन्मांसमपकृष्य च ।
अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी ।
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन
sā dṛṣṭvābāhuke vyagre tanmāṃsamapakṛṣya ca |
atyuṣṇameva tvaritā tatkṣaṇātpriyakāriṇī |
damayantyai tataḥ prādātkeśinī kurunandana
साऽशिता नलसिद्धस् मांसस्य बहुशः पुरा ।
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता
sā'śitā nalasiddhas māṃsasya bahuśaḥ purā |
prāśya matvā nalaṃ sūtaṃ prākrośadbhṛśaduḥkhitā
वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः ।
मिथुनं प्रेषयामास केशिन्या सह भारत्
vaiklavyaṃ paramaṃ gatvāprakṣālya ca mukhaṃ tataḥ |
mithunaṃ preṣayāmāsa keśinyā saha bhārat
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः ।
अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत्
indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ |
abhidrutya tadā rājā pariṣvajyāṅkamānayat
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ ।
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह
bāhukastu samāsādya sutau surasutopamau |
bhṛśaṃ duḥkhaparītātmā susvaraṃ praruroda ha
नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्
naiṣadho darśayitvā tu vikāramasakṛttadā |
utsṛjya sahasā putrau keśinīmidamabravīt
इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः ।
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्
idaṃ ca madṛśaṃ bhadre mithunaṃ mama putrayoḥ |
ato dṛṣṭvaiva sahasā bāṣpamutsṛṣṭavānaham
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः ।
वयंच देशातिथयो गच्छ भद्रे यथासुखम्
bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ |
vayaṃca deśātithayo gaccha bhadre yathāsukham
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)