वन पर्व

अध्याय 296: वन के आश्रम में सावित्री और सत्यवान का विवाह

इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि षण्णवत्यधिकद्विशततमोऽध्यायः ॥

23 श्लोक · 296 में से 315

इस अध्याय में क्या होता है

वन के आश्रम में सावित्री और सत्यवान का विवाह

अश्वपति विवाह-सामग्री लेकर ब्राह्मणों के साथ पैदल द्युमत्सेन के आश्रम जाते हैं, जहाँ अन्धे राजा साल वृक्ष के नीचे कुश के आसन पर बैठे हैं। यथोचित सत्कार के बाद वे सावित्री को पुत्रवधू रूप में देने का प्रस्ताव रखते हैं। द्युमत्सेन संकोच करते हैं कि हम राज्य से च्युत होकर तपस्वी बने हैं, तुम्हारी पुत्री वन का कष्ट कैसे सहेगी? अश्वपति कहते हैं कि मैं और मेरी पुत्री दोनों जानते हैं कि सुख और दुःख आते-जाते रहते हैं। द्युमत्सेन भी यही सम्बन्ध चाहते थे। विवाह होता है और अश्वपति प्रसन्न होकर लौटते हैं। सावित्री आभूषण त्यागकर वल्कल और गेरुआ वस्त्र पहनती है और सास, ससुर तथा पति की सेवा करती है। पर नारद के वचन उसके मन से नहीं जाते।

मार्कण्डेय उवाच

296.1

अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् ।
समानित्ये च तत्सर्वंभाण्डं वैवाहिकं नृपः

atha kanyāpradāne sa tamevārthaṃ vicintayan |
samānitye ca tatsarvaṃbhāṇḍaṃ vaivāhikaṃ nṛpaḥ

296.2

ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान् ।
समाहूय दिने पुण्ये प्रययौ सह कन्यया

tato vṛddhāndvijānsarvānṛtviksabhyapurohitān |
samāhūya dine puṇye prayayau saha kanyayā

296.3

मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः ।
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत्

medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ |
padbhyāmeva dvijaiḥ sārdhaṃ rājarṣiṃ tamupāgamat

296.4

तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम् ।
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा

tatrāpaśyanmahābhāgaṃ sālavṛkṣamupāśritam |
kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā

296.5

स राजा तस्य राजर्षेः कृत्वापूजां यथाऽर्हतः ।
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्

sa rājā tasya rājarṣeḥ kṛtvāpūjāṃ yathā'rhataḥ |
vācā suniyato bhūtvā cakārātmanivedanam

296.6

तस्यार्ध्यमासं चैव गां चावेद्यस धर्मवित् ।
किमागमनमित्येवं राजा राजानमब्रवीत्

tasyārdhyamāsaṃ caiva gāṃ cāvedyasa dharmavit |
kimāgamanamityevaṃ rājā rājānamabravīt

296.7

तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् ।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्

tasya sarvamabhiprāyamitikartavyatāṃ ca tām |
satyavantaṃ samuddiśya sarvameva nyavedayat

296.8

सावित्री नाम राजर्षे कन्येयं मम शोभना ।
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे

sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā |
tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me

द्युमत्सेन उवाच

296.9

च्युताः स्म राज्याद्वनवासमाश्रिता-
श्चराम धर्मं नियतास्तपस्विनः ।
कथं त्वनर्हा वनवासमाश्रमे
सहिष्यति क्लेशमिमं सुता तव

cyutāḥ sma rājyādvanavāsamāśritā-
ścarāma dharmaṃ niyatāstapasvinaḥ |
kathaṃ tvanarhā vanavāsamāśrame
sahiṣyati kleśamimaṃ sutā tava

अश्वमतिरुवाच

296.10

सुखं च दुःखं च भवाभवात्मकं
यदा विजानाति सुताऽहमेव च ।
न मद्विधे युज्यतेवाक्यमीदृशं
विनिश्चयेनाभिगतोस्मि ते नृप

sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ
yadā vijānāti sutā'hameva ca |
na madvidhe yujyatevākyamīdṛśaṃ
viniścayenābhigatosmi te nṛpa

296.11

आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च ।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि

āśāṃ nārhasi me hantuṃ sauhṛdātpraṇatasya ca |
abhitaścāgataṃ premṇā pratyākhyātuṃ na mā'rhasi

296.12

अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च ।
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः

anurūpo hi yuktaśca tvaṃ mamāhaṃ tavāpi ca |
snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavatastataḥ

द्युमत्सेन उवाच

296.13

पूर्वमेवाभिलवितः संबन्धो मे त्वया सह ।
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम्

pūrvamevābhilavitaḥ saṃbandho me tvayā saha |
bhraṣṭarājyastvahamiti tata etadvicāritam

296.14

अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः ।
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः

abhiprāyastvayaṃ yo me pūrvamevābhikāṅkṣitaḥ |
sa nirvartatu me'dyaiva kāṅkṣito hyasi me'tithiḥ

296.15

ततः सर्वान्समानाय्य द्विजानाश्रमवासिनः ।
यथाविधि समुद्वाहं कारयामासतुर्नृपौ

tataḥ sarvānsamānāyya dvijānāśramavāsinaḥ |
yathāvidhi samudvāhaṃ kārayāmāsaturnṛpau

296.16

दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम् ।
ययौ स्वमेव भवनं युक्तः परमया मुदा

dattvā so'śvapatiḥ kanyāṃ yathārhaṃ saparicchadam |
yayau svameva bhavanaṃ yuktaḥ paramayā mudā

296.17

सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम् ।
मुमुदे सा रच रतं लब्ध्वा भर्तारं मनसेप्सितम्

satyavānapi tāṃ bhāryāṃ labdhvā sarvaguṇānvitām |
mumude sā raca rataṃ labdhvā bhartāraṃ manasepsitam

296.18

गते पितरि सर्वाणि संन्यस्याभरणानि सा ।
जगृहेवल्कलान्येव वस्त्रं काषायमेव च

gate pitari sarvāṇi saṃnyasyābharaṇāni sā |
jagṛhevalkalānyeva vastraṃ kāṣāyameva ca

296.19

परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च ।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे

paricārairguṇaiścaiva praśrayeṇa damena ca |
sarvakāmakriyābhiśca sarveṣāṃ tuṣṭimādadhe

296.20

श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः ।
श्वशुरं देवसत्कारैर्वाचः संयमनेन च

śvaśrūṃ śarīrasatkāraiḥ sarvairācchādanādibhiḥ |
śvaśuraṃ devasatkārairvācaḥ saṃyamanena ca

296.21

तथैव प्रियवादेन नैषुणेन शमेन च ।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत्

tathaiva priyavādena naiṣuṇena śamena ca |
rahaścaivopacāreṇa bhartāraṃ paryatoṣayat

296.22

एवं तत्राश्रमे तेषां तदा निवसतां सताम् ।
कालस्तपस्यतां कश्चिदपाक्रामत भारत

evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām |
kālastapasyatāṃ kaścidapākrāmata bhārata

296.23

सावित्र्याग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम ।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते

sāvitryāglāyamānāyāstiṣṭhantyāstu divāniśama |
nāradena yaduktaṃ tadvākyaṃ manasi vartate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)