वन पर्व

अध्याय 182: सर्प का प्रश्न: ब्राह्मण कौन है

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥

38 श्लोक · 182 में से 315

इस अध्याय में क्या होता है

सर्प का प्रश्न: ब्राह्मण कौन है

युधिष्ठिर सर्प से पूछते हैं कि तुम कौन हो। सर्प कहता है कि वह सोम से पाँचवीं पीढ़ी के राजा नहुष हैं, जिन्होंने यज्ञ और तप से तीनों लोकों का ऐश्वर्य पाया, पर अहंकारवश अगस्त्य के शाप से गिर गए। वे भीम को तभी छोड़ेंगे जब उनके प्रश्नों का उत्तर मिले। ब्राह्मण कौन है, और जानने योग्य क्या है? युधिष्ठिर उत्तर देते हैं कि जिसमें सत्य, दान, क्षमा, शील, तप और दया दिखें वह ब्राह्मण है; और जानने योग्य सुख दुख से परे परब्रह्म है। सर्प आपत्ति करता है कि ये लक्षण शूद्र में भी दिखते हैं। युधिष्ठिर कहते हैं कि आचरण ही निर्णायक है, क्योंकि वर्णों के मिश्रण में जन्म की परख कठिन है। सन्तुष्ट होकर सर्प भीम को न खाने को मान जाता है।

वैशंपायन उवाच

182.1

युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् ।
दयितं भ्रातरं धीमानिदं वचनमब्रवीत्

yudhiṣṭhirastamāsādya sarpabhogena veṣṭitam |
dayitaṃ bhrātaraṃ dhīmānidaṃ vacanamabravīt

182.2

कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् ।
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः

kuntīmātaḥ kathamimāmāpadaṃ tvamavāptavān |
kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ

182.3

स धर्मराजमालक्ष्य भ्राता भ्रतरमग्रजम् ।
कथयामास तत्सर्वं ग्रहणादिविचेष्टितम्

sa dharmarājamālakṣya bhrātā bhrataramagrajam |
kathayāmāsa tatsarvaṃ grahaṇādiviceṣṭitam

182.4

[अयमार्य महासत्वो भक्षार्थं मां गृहीतवान् ।
नहुषो नाम राजर्षिः प्राणवानिव संस्थितः

[ayamārya mahāsatvo bhakṣārthaṃ māṃ gṛhītavān |
nahuṣo nāma rājarṣiḥ prāṇavāniva saṃsthitaḥ

युधिष्ठिर उवाच

182.5

मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः ।
वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम्

mucyatāmayamāyuṣmanbhrātā me'mitavikramaḥ |
vayamāhāramanyaṃ te dāsyāmaḥ kṣunnivāraṇam

सर्प उवाच

182.6

मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः ।
गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत्

mucyatāmayamāyuṣmanbhrātā me'mitavikramaḥ |
gamyatāṃ neha sthātavyaṃ śvo bhavānapi me bhavet

182.7

व्रतमेतन्महाबाहो विषयं मम यो ब्रजेत् ।
स म भक्षो भवेत्तात त्वं चापि विषये मम

vratametanmahābāho viṣayaṃ mama yo brajet |
sa ma bhakṣo bhavettāta tvaṃ cāpi viṣaye mama

182.8

चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये ॥]

cireṇādya mayā''hāraḥ prāpto'yamanujastava |
nāhamenaṃ vimokṣyāmi na cānyamabhikāṅkṣaye ||]

युधिष्ठिर उवाच

182.9

देवो वा यदि वा दैत्य उरगो वा भवान्यदि ।
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः

devo vā yadi vā daitya urago vā bhavānyadi |
satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ

182.10

किमर्थं च त्वया ग्रस्तो भीमसेनो भुजंगम ।
किमाहृत्यविदित्वा वा प्रीतिस्ते स्याद्भुजंगम ।
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्

kimarthaṃ ca tvayā grasto bhīmaseno bhujaṃgama |
kimāhṛtyaviditvā vā prītiste syādbhujaṃgama |
kimāhāraṃ prayacchāmi kathaṃ muñcedbhavānimam

सर्प उवाच

182.11

नहुषो नाम राजाऽहमासं पूर्वस्तवानघ ।
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप

nahuṣo nāma rājā'hamāsaṃ pūrvastavānagha |
prathitaḥ pañcamaḥ somādāyoḥ putro narādhipa

182.12

क्रतुभिस्तपसा चैवस्वाध्यायेन दमेन च ।
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहंविकर्मेण च

kratubhistapasā caivasvādhyāyena damena ca |
trailokyaiśvaryamavyagraṃ prāpto'haṃvikarmeṇa ca

182.13

तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।
सहस्रं हि द्विजातीनामुवाह शिविकां मम

tadaiśvaryaṃ samāsādya darpo māmagamattadā |
sahasraṃ hi dvijātīnāmuvāha śivikāṃ mama

182.14

ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान् ।
इमामगस्त्येन दशामानीत इतिमे स्मृतिः

aiśvaryamadamatto'hamavamatya tato dvijān |
imāmagastyena daśāmānīta itime smṛtiḥ

182.15

न तु मामजहात्प्रज्ञा यावदन्वेति पाण्डवः ।
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः

na tu māmajahātprajñā yāvadanveti pāṇḍavaḥ |
tasyaivānugrahādrājannagastyasya mahātmanaḥ

182.16

षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यदपि कामये

ṣaṣṭhe kāle mayā''hāraḥ prāpto'yamanujastava |
nāhamenaṃ vimokṣyāmi na cānyadapi kāmaye

182.17

प्रश्नानुच्चारितानद्य वायहरिष्यसि चेन्मम ।
तथापश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्

praśnānuccāritānadya vāyahariṣyasi cenmama |
tathāpaścādvimokṣyāmi bhrātaraṃ te vṛkodaram

युधिष्ठिर उवाच

182.18

ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः ।
अपि चच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम्

brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ |
api cacchaknuyāṃ prītimāhartuṃ te bhujaṅgam

182.19

वेद्यंच ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् ।
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः

vedyaṃca brāhmaṇeneha tadbhavānvetti kevalam |
sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ

सर्प उवाच

182.20

ब्राह्मणः को भवेद्राजन्वेद्यं किंच युधिष्ठिर ।
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनिमिनोमि ते

brāhmaṇaḥ ko bhavedrājanvedyaṃ kiṃca yudhiṣṭhira |
bravīhyatimatiṃ tvāṃ hi vākyairaniminomi te

युधिष्ठिर उवाच

182.21

सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा ।
दृश्यन्ते यत्रनागेन्द्रस ब्राह्मण इति स्मृतः

satyaṃ dānaṃ kṣamā śīlamānṛśaṃsyaṃ tapo ghṛṇā |
dṛśyante yatranāgendrasa brāhmaṇa iti smṛtaḥ

182.22

वेद्यं सर्प परं ब्र्हम निर्दुःखमसुखं च यत् ।
यत्रगत्वा न शोचन्ति भवतः किं विवक्षितं

vedyaṃ sarpa paraṃ brhama nirduḥkhamasukhaṃ ca yat |
yatragatvā na śocanti bhavataḥ kiṃ vivakṣitaṃ

सर्प उवाच

182.23

चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि ।
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर

cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva hi |
ānṛśaṃsyamahiṃsā ca ghṛṇā caiva yudhiṣṭhira

182.24

वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप ।
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये

vedyaṃ yaccātra nirduḥkhamasukhaṃ ca narādhipa |
tābhyāṃ hīnaṃ padaṃ cānyanna tadastīti lakṣaye

युधिष्ठिर उवाच

182.25

शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः

śūdre tu yadbhavellakṣma dvije tacca na vidyate |
na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ

182.26

यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः ।
तत्रैतन्न वेत्सर्प तं शूद्रमिति निर्दिशेत्

yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ |
tatraitanna vetsarpa taṃ śūdramiti nirdiśet

182.27

यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति च ।
ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि

yatpunarbhavatā proktaṃ na vedyaṃ vidyateti ca |
tābhyāṃ hīnamato'nyatra padaṃ nāstīti cedapi

182.28

एवमेतन्मतं सर्प ताभ्यां हीनं तु विद्यते ।
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता

evametanmataṃ sarpa tābhyāṃ hīnaṃ tu vidyate |
yathā śītoṣṇayormadhye bhavennoṣṇaṃ na śītatā

182.29

एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् ।
एषा मम मतिः सर्प यथा वा मन्यते भवान्

evaṃ vai sukhaduḥkhābhyāṃ hīnamasti padaṃ kvacit |
eṣā mama matiḥ sarpa yathā vā manyate bhavān

सर्प उवाच

182.30

यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः ।
वृथा जातिस्तदायुष्मन्कृतिर्यावन्न विद्यते

yadi te vṛttato rājanbrāhmaṇaḥ prasamīkṣitaḥ |
vṛthā jātistadāyuṣmankṛtiryāvanna vidyate

युधिष्ठिर उवाच

182.31

जातिरत्रमहासर्प मनुष्यत्वे महामते ।
संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः

jātiratramahāsarpa manuṣyatve mahāmate |
saṃkarātsarvavarṇānāṃ duṣparīkṣyeti me matiḥ

182.32

सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः ।
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम्

sarve sarvāsvapatyāni janayanti yadā narāḥ |
vāṅmaithunamatho janma maraṇaṃ ca samaṃ nṛṇām

182.33

इदमार्षं प्रमाणं च ये यजामह इत्यपि ।
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः

idamārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi |
tasmācchīlaṃ pradhāneṣṭaṃ vidurye tattvadarśinaḥ

182.34

प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते ।
तथोपनयनं प्रोक्तं द्विजातीनां यथाक्रमम् ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते

prāṅgābhivardhanātpuṃso jātakarma vidhīyate |
tathopanayanaṃ proktaṃ dvijātīnāṃ yathākramam |
tatrāsya mātā sāvitrī pitā tvācārya ucyate

182.35

वृत्त्या शूद्रसमो ह्येष यावद्वेदेन जायते ।
तस्मिन्नेवं मतिद्वैधे मनुः स्वायंभुवोऽब्रवीत्

vṛttyā śūdrasamo hyeṣa yāvadvedena jāyate |
tasminnevaṃ matidvaidhe manuḥ svāyaṃbhuvo'bravīt

182.36

कृतकृत्याः सर्ववर्णा यदि वृत्तं न पश्यति ।
संकरस्त्वत्र नागेन्द्र बलवान्प्रसमीक्षितः

kṛtakṛtyāḥ sarvavarṇā yadi vṛttaṃ na paśyati |
saṃkarastvatra nāgendra balavānprasamīkṣitaḥ

182.37

यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते ।
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम

yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttamiṣyate |
taṃ brāhmaṇamahaṃ pūrvamuktavānbhujagottama

सर्प उवाच

182.38

श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर ।
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम्

śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira |
bhakṣayeyamahaṃ kasmādbhrātaraṃ te vṛkodaram

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)