मूर्ध्ना निपत्य नियतस्तेजःसन्निचये ततः ।
परमं हर्षमागत्य भगवन्तमथाब्रवम्
mūrdhnā nipatya niyatastejaḥsannicaye tataḥ |
paramaṃ harṣamāgatya bhagavantamathābravam
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्चत्वारिंशोऽध्यायः ॥
11 श्लोक · 46 में से 274
उस तेजपुंज में सिर झुकाकर उन्होंने शिव से धर्म में दृढ़ता, युद्ध में शत्रुनाश, श्रेष्ठ यश, परम बल, योग में प्रीति, शिव का सान्निध्य और सैकड़ों पुत्र माँगे। शिव बोले, "ऐसा ही हो।" जगन्माता उमा ने कहा कि शिव उन्हें साम्ब नामक पुत्र दे चुके हैं,, और आठ वर देना चाहा। श्रीकृष्ण ने माँगा: ब्राह्मणों पर क्रोध न हो, पिता की कृपा, सौ पुत्र, उत्तम भोग, कुल में प्रीति, माता की कृपा, शान्ति और दक्षता। उमा ने ये दिए और साथ में सोलह हज़ार पत्नियों का अक्षय प्रेम, बन्धुओं का स्नेह, सुन्दर रूप और घर में प्रतिदिन सात हज़ार अतिथियों का भोजन भी दिया। यह सुनकर उपमन्यु ने कहा कि शर्व के समान न कोई देव है, न शरण, न दाता, न योद्धा।
कृष्ण उवाच
मूर्ध्ना निपत्य नियतस्तेजःसन्निचये ततः ।
परमं हर्षमागत्य भगवन्तमथाब्रवम्
mūrdhnā nipatya niyatastejaḥsannicaye tataḥ |
paramaṃ harṣamāgatya bhagavantamathābravam
धर्मे दृढत्वं युधि शत्रुघातं
यशस्तथाऽग्र्यं परमं बलं च
योगप्रियत्वं तव सन्निकर्षं
वृणे सुतानां च शतं शतानि
dharme dṛḍhatvaṃ yudhi śatrughātaṃ
yaśastathā'gryaṃ paramaṃ balaṃ ca
yogapriyatvaṃ tava sannikarṣaṃ
vṛṇe sutānāṃ ca śataṃ śatāni
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः
evamastviti tadvākyaṃ mayoktaḥ prāha śaṅkaraḥ
ततो मां जगतो माता धारिणी सर्वपावनी ।
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ।
दत्तो भगवता पुत्रः साम्बो नाम तवानघ
tato māṃ jagato mātā dhāriṇī sarvapāvanī |
uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ |
datto bhagavatā putraḥ sāmbo nāma tavānagha
मत्तोप्यष्टौ वरानिष्टान्गृहण त्वं ददामि ते ।
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन
mattopyaṣṭau varāniṣṭāngṛhaṇa tvaṃ dadāmi te |
praṇamya śirasā sā ca mayoktā pāṇḍunandana
द्विजेष्वकोपं पितृतः प्रसादं
शतं सुतानां परमं च भोगम् ।
कुले प्रीतिं मातृतश्च प्रसादं-
शमप्राप्तिं प्रवृणे चापि दाक्ष्यम्
dvijeṣvakopaṃ pitṛtaḥ prasādaṃ
śataṃ sutānāṃ paramaṃ ca bhogam |
kule prītiṃ mātṛtaśca prasādaṃ-
śamaprāptiṃ pravṛṇe cāpi dākṣyam
उमोवाच
एवं भविष्यत्यमरप्रभाव
नाहं मृषा जातु वदे कदाचित् ।
भार्यासहस्राणि च षोडशैव
तासु प्रियत्वं च तथाऽक्षयं
evaṃ bhaviṣyatyamaraprabhāva
nāhaṃ mṛṣā jātu vade kadācit |
bhāryāsahasrāṇi ca ṣoḍaśaiva
tāsu priyatvaṃ ca tathā'kṣayaṃ
प्रीतिं चाग्र्यां बान्धवानां सकाशा-
द्ददामि तेऽहं वपुषः काम्यतां च ।
भोक्ष्यन्ते वै सप्ततिं वै शतानि
गृहे तुभ्यमतिथीनां च नित्यम्
prītiṃ cāgryāṃ bāndhavānāṃ sakāśā-
ddadāmi te'haṃ vapuṣaḥ kāmyatāṃ ca |
bhokṣyante vai saptatiṃ vai śatāni
gṛhe tubhyamatithīnāṃ ca nityam
वासुदेव उवाच
एवं दत्त्वा वरान्देवो मम देवी च भारत ।
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज
evaṃ dattvā varāndevo mama devī ca bhārata |
antarhitaḥ kṣaṇe tasminsagaṇo bhīmapūrvaja
एतदत्यद्भुतं पूर्वं ब्राह्मणायातितेजसे ।
उपमन्यवे मया कृत्स्नं व्याख्यातं पार्थिवोत्तम ।
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत
etadatyadbhutaṃ pūrvaṃ brāhmaṇāyātitejase |
upamanyave mayā kṛtsnaṃ vyākhyātaṃ pārthivottama |
namaskṛtvā tu sa prāha devadevāya suvrata
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ।
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे
nāsti śarvasamo devo nāsti śarvasamā gatiḥ |
nāsti śarvasamo dāne nāsti śarvasamo raṇe
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)