अहो श्रावितमाख्यानं भवताऽत्यद्भुतं महत् ।
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
aho śrāvitamākhyānaṃ bhavatā'tyadbhutaṃ mahat |
puṇyaṃ yaśasyamāyuṣyaṃ svargyaṃ svastyayanaṃ mahat
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥
12 श्लोक · 44 में से 274
ऋषि गरुड़ के वृत्तान्त को पवित्र, आयु और स्वर्ग देने वाला कहकर सराहते हैं। जो इसे पर्वों पर सुनाता है वह पुण्य लोक पाता है; श्राद्ध में पढ़ा जाए तो राक्षसों और असुरों को भाग नहीं मिलता। पढ़ने वाला ब्राह्मण वेद-पारंगत, राजा विजयी, वैश्य धनी और शूद्र सुखी होता है। भीष्म फिर कहते हैं। मुनियों ने गरुड़ का पूजन किया और अपने आश्रमों को लौट गए। ब्रह्मा ने यह चकित देवताओं को सुनाया, और भीष्म ने इसे अपनी माता के पास वसुओं से सुना था। तब वे युधिष्ठिर के प्रश्न का उत्तर देते हैं: अग्निहोत्र और जप में लगे, कामना के बन्धन से मुक्त, जो बाहरी कर्म छोड़कर मन में विष्णु का ध्यान करते हैं, वे अक्षर पद पाते हैं।
ऋषय ऊचुः
अहो श्रावितमाख्यानं भवताऽत्यद्भुतं महत् ।
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
aho śrāvitamākhyānaṃ bhavatā'tyadbhutaṃ mahat |
puṇyaṃ yaśasyamāyuṣyaṃ svargyaṃ svastyayanaṃ mahat
एतत्पवित्रं देवानामेतद्गुह्यं परंतप ।
एतज्ज्ञानवता ज्ञेयमेषा गतिरनुत्तमा
etatpavitraṃ devānāmetadguhyaṃ paraṃtapa |
etajjñānavatā jñeyameṣā gatiranuttamā
य इमां श्रावयेद्विद्वान्कथां पर्वसुपर्वसु
स लोकान्प्राप्नुयात्पुण्यान्देवर्षिभिरभिष्टुतान्
ya imāṃ śrāvayedvidvānkathāṃ parvasuparvasu
sa lokānprāpnuyātpuṇyāndevarṣibhirabhiṣṭutān
श्राद्धकाले च विप्राणां य इमां श्रावयेच्छुचिः ।
न तत्र रक्षसां भागो नासुराणां च विद्यते
śrāddhakāle ca viprāṇāṃ ya imāṃ śrāvayecchuciḥ |
na tatra rakṣasāṃ bhāgo nāsurāṇāṃ ca vidyate
अनसूयुर्जितक्रोधः सर्वसत्वहिते रतः ।
यः पठेत्सततं युक्तः स व्रजेत्तत्सलोकताम्
anasūyurjitakrodhaḥ sarvasatvahite rataḥ |
yaḥ paṭhetsatataṃ yuktaḥ sa vrajettatsalokatām
वेदान्पारयते विप्रो राजा विजयवान्भवेत् ।
वैश्यस्तु धनधान्याढ्यः शूद्रः सुखमवाप्नुयात्
vedānpārayate vipro rājā vijayavānbhavet |
vaiśyastu dhanadhānyāḍhyaḥ śūdraḥ sukhamavāpnuyāt
भीष्म उवाच
ततस्ते मुनयः सर्वे सम्पूज्य विनतासुतम् ।
स्वानेव चाश्रमाञ्जग्मुर्बभूवुः शान्तितत्पराः
tataste munayaḥ sarve sampūjya vinatāsutam |
svāneva cāśramāñjagmurbabhūvuḥ śāntitatparāḥ
स्थूलदर्शिभिराकृष्टो दुर्ज्ञेयो ह्यकृतात्मभिः ।
एषा धुतिर्महाराज धर्म्या धर्मभृतांवर
sthūladarśibhirākṛṣṭo durjñeyo hyakṛtātmabhiḥ |
eṣā dhutirmahārāja dharmyā dharmabhṛtāṃvara
सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परंतप ।
मयाप्येषा कथा तात कथिता मातुरन्तिके ।
वसुभिः सत्त्वसम्पन्नैस्तवाप्येषा मयोच्यते
surāṇāṃ brahmaṇā proktā vismitānāṃ paraṃtapa |
mayāpyeṣā kathā tāta kathitā māturantike |
vasubhiḥ sattvasampannaistavāpyeṣā mayocyate
तदग्निहोत्रपरमा जपयज्ञपरायणाः ।
निराशीर्बन्धनाः सन्तः प्रयान्त्यक्षरसात्मतां
tadagnihotraparamā japayajñaparāyaṇāḥ |
nirāśīrbandhanāḥ santaḥ prayāntyakṣarasātmatāṃ
आरम्भयज्ञानुत्सृज्य जपहोमपरायणाः ।
ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम्
ārambhayajñānutsṛjya japahomaparāyaṇāḥ |
dhyāyanto manasā viṣṇuṃ gacchanti paramāṃ gatim
तदेष परमो मोक्षो मोक्षद्वारं च भारत ।
यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम्
tadeṣa paramo mokṣo mokṣadvāraṃ ca bhārata |
yathā viniścitātmāno gacchanti paramāṃ gatim
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)