ततो व्रज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम् ।
ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत्
tato vrajraṃ sahasrākṣo dṛṣṭvā saktaṃ varāyudham |
ṛṣīṃśca dṛṣṭvā sahasā suparṇamidamabravīt
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशोऽध्यायः ॥
21 श्लोक · 29 में से 274
गरुड़ अमृत लाकर कद्रू से कहते हैं कि विनता आज से दासी न रहें। कद्रू उसका स्वागत करके विनता को मुक्त घोषित करती हैं। गरुड़ माता को घर ले जाते हैं, फिर यह याद करके कि वे उन सर्पों के छल से हारी थीं जो घोड़े के काले बाल बने, अमृत फिर उठाकर उड़ जाते हैं। कद्रू विरोध करती हैं तो वे कहते हैं कि उनके कहने पर माता को छुड़ाने के लिए अमृत लाया था; वह काम हो गया, आप अमृत की अधिकारी नहीं। वे इन्द्र को अमृत लौटाकर कारण बताते हैं। इन्द्र प्रसन्न होते हैं, ऋषि-देवता गरुड़ को वर देने को कहते हैं। इन्द्र कहते हैं कि यह पक्षिराज स्वयं हृषीकेश हैं, जो धर्म की रक्षा के लिए शूरपुत्र के घर केशव रूप में जन्म लेंगे।
भीष्म उवाच
ततो व्रज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम् ।
ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत्
tato vrajraṃ sahasrākṣo dṛṣṭvā saktaṃ varāyudham |
ṛṣīṃśca dṛṣṭvā sahasā suparṇamidamabravīt
कद्रूमभ्यगमत्तूर्णममृतं गृह्य भारतः
kadrūmabhyagamattūrṇamamṛtaṃ gṛhya bhārataḥ
गरुड उवाच
तदाहृतं मया शीघ्रममृतं जननीकृते ।
अदासी सा भवत्वद्य विनता धर्मिचारिणी
tadāhṛtaṃ mayā śīghramamṛtaṃ jananīkṛte |
adāsī sā bhavatvadya vinatā dharmicāriṇī
कद्रूरुवाच
स्वागतं स्वाहृतं चेदममृतं विनतात्मज ।
अदासी जननी तेऽद्य पुत्र कामवशा शुभा ।
svāgataṃ svāhṛtaṃ cedamamṛtaṃ vinatātmaja |
adāsī jananī te'dya putra kāmavaśā śubhā |
एवमुक्ते तदा सा च सम्प्राप्ता विनता गृहम् ॥
उपनीय यथान्यायं विहगो बलिनांवरः ।
evamukte tadā sā ca samprāptā vinatā gṛham ||
upanīya yathānyāyaṃ vihago balināṃvaraḥ |
स्मृत्वा निकृत्या विजयं मातुः सम्प्रतिपद्य च ॥
वधं च भुजगेन्द्राणां ये वालास्तस्य वाजिनः ।
smṛtvā nikṛtyā vijayaṃ mātuḥ sampratipadya ca ||
vadhaṃ ca bhujagendrāṇāṃ ye vālāstasya vājinaḥ |
बभूवुरसितप्रख्या निकृत्या वै जितं त्वया ॥
तामुवाच ततो न्याय्यं विहगो बलिनांवरः ।
babhūvurasitaprakhyā nikṛtyā vai jitaṃ tvayā ||
tāmuvāca tato nyāyyaṃ vihago balināṃvaraḥ |
उञ्जहारामृतं तूर्णमुत्पपात च रंहसा ॥
तद्गृहीत्वाऽमृतं तूर्णं प्रयान्तमपराजितम् ।
uñjahārāmṛtaṃ tūrṇamutpapāta ca raṃhasā ||
tadgṛhītvā'mṛtaṃ tūrṇaṃ prayāntamaparājitam |
किमर्थं वैनतेय त्वमाहृत्यामृतमुत्तमम् ।
पुनर्हरति दुर्बुद्धे मा जातु वृजितं कृथाः
kimarthaṃ vainateya tvamāhṛtyāmṛtamuttamam |
punarharati durbuddhe mā jātu vṛjitaṃ kṛthāḥ
सुपर्णि उवाच
अमृताहरणं मेऽद्य यत्कृतं जननीकृते ।
भवत्या वचनादेतदाहरामृतमित्युत
amṛtāharaṇaṃ me'dya yatkṛtaṃ jananīkṛte |
bhavatyā vacanādetadāharāmṛtamityuta
आहृतं तदिदं शीघ्रं मुक्ता च जननी मम ।
हराम्येष पुनस्तत्र यत एतन्मयाऽऽहृतम्
āhṛtaṃ tadidaṃ śīghraṃ muktā ca jananī mama |
harāmyeṣa punastatra yata etanmayā''hṛtam
यदि मां भवती ब्रूयादमृतं मे च दीयताम् ।
तथा कुर्यां न वा कुर्यां न हि त्वममृतक्षमा ।
मया धर्मेण सत्येन विनता च समुद्धृता
yadi māṃ bhavatī brūyādamṛtaṃ me ca dīyatām |
tathā kuryāṃ na vā kuryāṃ na hi tvamamṛtakṣamā |
mayā dharmeṇa satyena vinatā ca samuddhṛtā
भीष्म उवाच
ततो गत्वाऽथ गरुडः पुरन्दरमुवाच ह ।
इदं मया वृत्रहन्तर्हृतं तेऽमृतमुत्तमम् ।
मात्रर्थे हि तथैवेदं गृहाणामृतमाहृतम्
tato gatvā'tha garuḍaḥ purandaramuvāca ha |
idaṃ mayā vṛtrahantarhṛtaṃ te'mṛtamuttamam |
mātrarthe hi tathaivedaṃ gṛhāṇāmṛtamāhṛtam
माता च मम देवेश दासीत्वमुपजग्मुषी ।
भुजङ्गमानां मातुर्वै सा मुक्ताऽमृतदर्शनात्
mātā ca mama deveśa dāsītvamupajagmuṣī |
bhujaṅgamānāṃ māturvai sā muktā'mṛtadarśanāt
एतच्छ्रुत्वा सहस्राक्षः सुपर्णमनुमन्यते ।
उवाच च मुदा युक्तो दिष्ट्यादिष्ट्येति वासवः
etacchrutvā sahasrākṣaḥ suparṇamanumanyate |
uvāca ca mudā yukto diṣṭyādiṣṭyeti vāsavaḥ
क्रषयो ये सहस्राक्षमुपासन्ति सुरैः सह ।
ते सर्वे च मुदा युक्ता विश्वेदेवास्तथैव च
kraṣayo ye sahasrākṣamupāsanti suraiḥ saha |
te sarve ca mudā yuktā viśvedevāstathaiva ca
ततस्तमृषयः सर्वे देवाश्च भरतर्षभ ।
ऊचुः पुरन्दरं दृष्टा गरुडो लभतां वरम्
tatastamṛṣayaḥ sarve devāśca bharatarṣabha |
ūcuḥ purandaraṃ dṛṣṭā garuḍo labhatāṃ varam
ततः शचीपतिर्वाक्यमुवाच प्रहसन्निव ।
जनिष्यति हृषीकेशः स्वयमेवैष पक्षिराट्
tataḥ śacīpatirvākyamuvāca prahasanniva |
janiṣyati hṛṣīkeśaḥ svayamevaiṣa pakṣirāṭ
केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि ।
स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः
keśavaḥ puṇḍarīkākṣaḥ śūraputrasya veśmani |
svayaṃ dharmasya rakṣārthaṃ vibhajya bhujagāśanaḥ
एष ते पाण्डवश्रेष्ठ गरुडोऽथ पतत्रिराट् ।
सुपर्णो वैनतेयश्च कीर्तितो भद्रमस्तु ते
eṣa te pāṇḍavaśreṣṭha garuḍo'tha patatrirāṭ |
suparṇo vainateyaśca kīrtito bhadramastu te
तदेतद्भरतश्रेष्ठ मयाऽऽख्यानं प्रकीर्तितम् ।
सुपर्णस्य महाबाहो किं भूयः कथयामि ते
tadetadbharataśreṣṭha mayā''khyānaṃ prakīrtitam |
suparṇasya mahābāho kiṃ bhūyaḥ kathayāmi te
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)