अनुशासन पर्व

अध्याय 202: युधिष्ठिर भीष्म से प्राचीन इतिहास माँगते हैं

15 श्लोक · 202 में से 274

इस अध्याय में क्या होता है

युधिष्ठिर भीष्म से प्राचीन इतिहास माँगते हैं

जनमेजय वैशम्पायन से पूछते हैं कि उनके प्रपितामह युधिष्ठिर ने भीष्म से सबके हित के लिए और क्या पूछा। वैशम्पायन कथा आगे बढ़ाते हैं। शरशय्या के चारों ओर बैठे राजाओं के सामने युधिष्ठिर प्रेम से भीष्म को सम्बोधित करते हैं। भीष्म सब जीवों पर दयालु और अनेक शास्त्रों के ज्ञाता हैं; ऐसा पुरुष अब दुर्लभ है। कुल के बड़े और बन्धु चले गए हैं और उनके सिवा कोई उपदेशक नहीं बचा। युधिष्ठिर कहते हैं कि स्वयं श्रीकृष्ण आदर और स्नेह से भीष्म की सेवा में बैठे हैं। उन्हीं के और राजाओं के सामने वे धर्म और अर्थ से युक्त, भविष्य में हितकारी कोई प्राचीन इतिहास सुनना चाहते हैं। भावविह्वल भीष्म उन्हें मानो पीते हुए देखते हैं, हरि को सिर झुकाते हैं और कहना आरम्भ करते हैं।

वैशम्पायन* उवाच

202.1

अनुशास्य शुभैर्वाक्यैर्भीष्ममाह महामतिः ।
प्रीत्या पुनः स शुश्रूषुर्वचनं यद्युधिष्ठिरः

anuśāsya śubhairvākyairbhīṣmamāha mahāmatiḥ |
prītyā punaḥ sa śuśrūṣurvacanaṃ yadyudhiṣṭhiraḥ

जनमेजय उवाच

202.2

पितामहो मे विप्रर्षे भीष्मं कालवशं गतम् ।
किमपृच्छत्तदा राजा सर्वसामाजिकं हितम्

pitāmaho me viprarṣe bhīṣmaṃ kālavaśaṃ gatam |
kimapṛcchattadā rājā sarvasāmājikaṃ hitam

202.3

उभयोर्लोकयोर्युक्तं पुरुषार्थमनुत्तमम् ।
तन्मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे

ubhayorlokayoryuktaṃ puruṣārthamanuttamam |
tanme vada mahāprājña śrotuṃ kautūhalaṃ hi me

वैशम्पायन उवाच

202.4

भूय एव महाराज शृणु धर्मसमुच्चयम् ।
यदपृच्छत्तदा राजा कुन्तीपुत्रो युधिष्ठिरः

bhūya eva mahārāja śṛṇu dharmasamuccayam |
yadapṛcchattadā rājā kuntīputro yudhiṣṭhiraḥ

202.5

शरतल्पगतं भीष्मं सर्वपार्थिवसन्निधौ ।
अजातशत्रुः प्रीतात्मा पुनरेवाभ्यभाषत

śaratalpagataṃ bhīṣmaṃ sarvapārthivasannidhau |
ajātaśatruḥ prītātmā punarevābhyabhāṣata

202.6

पितामह महाप्राज्ञ सर्वशास्त्रविशारदः ।
श्रूयतां मे हि वचनमर्थित्वात्प्रब्रवीम्यहम्

pitāmaha mahāprājña sarvaśāstraviśāradaḥ |
śrūyatāṃ me hi vacanamarthitvātprabravīmyaham

202.7

परावरज्ञो भूतानां दयावान्सर्वजन्तुषु ।
आगमैर्बहुभिः प्रीतो भवान्नः परमं कुले

parāvarajño bhūtānāṃ dayāvānsarvajantuṣu |
āgamairbahubhiḥ prīto bhavānnaḥ paramaṃ kule

202.8

त्वादृशो दुर्लभो लोके साम्प्रतं ज्ञानसंयुतः ।
भवता गुरुणा चैव धन्याश्चैव वयं प्रभो

tvādṛśo durlabho loke sāmprataṃ jñānasaṃyutaḥ |
bhavatā guruṇā caiva dhanyāścaiva vayaṃ prabho

202.9

अयं स कालः सम्प्राप्तो दुर्लभैर्ज्ञातिबान्धवैः ।
शास्ता तु नास्ति नः कश्चित्त्वदृते पुरुषर्षभ

ayaṃ sa kālaḥ samprāpto durlabhairjñātibāndhavaiḥ |
śāstā tu nāsti naḥ kaścittvadṛte puruṣarṣabha

202.10

तस्माद्धर्मार्थसहितमायत्यां च हितोदयम् ।
आश्चर्यं परमं वाक्यं श्रोतुमिच्छामि भारत

tasmāddharmārthasahitamāyatyāṃ ca hitodayam |
āścaryaṃ paramaṃ vākyaṃ śrotumicchāmi bhārata

202.11

अयं नारायणः श्रीमन्सर्वपार्थिवसन्निधौ ।
भवन्तं बहुमानाच्च प्रणयाच्चैव सेवते

ayaṃ nārāyaṇaḥ śrīmansarvapārthivasannidhau |
bhavantaṃ bahumānācca praṇayāccaiva sevate

202.12

अस्यैव तु समक्षं नः पार्तिवानां तथैव च ।
इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम्

asyaiva tu samakṣaṃ naḥ pārtivānāṃ tathaiva ca |
itivṛttaṃ purāṇaṃ ca śrotṝṇāṃ paramaṃ hitam

202.13

यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
मत्प्रियार्थं हि कौरव्य स्नेहाद्भाषितुमर्हसि

yadi te'hamanugrāhyo bhrātṛbhiḥ sahito'nagha |
matpriyārthaṃ hi kauravya snehādbhāṣitumarhasi

202.14

तस्य तद्वचनं श्रुत्वा स्नेहादागतविक्लवः ।
प्रविबन्निव तं दृष्ट्वा भीष्मो वचनमब्रवीत्

tasya tadvacanaṃ śrutvā snehādāgataviklavaḥ |
pravibanniva taṃ dṛṣṭvā bhīṣmo vacanamabravīt

202.15

शृणु राजन्पुरावृत्तिमितिहासं पुरातनम् ।
एतावदुक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम् ।
धर्मराजं समीक्ष्येदं पुनर्वक्तुं समारभत्

śṛṇu rājanpurāvṛttimitihāsaṃ purātanam |
etāvaduktvā gāṅgeyaḥ praṇamya śirasā harim |
dharmarājaṃ samīkṣyedaṃ punarvaktuṃ samārabhat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)