यास्तु गोमातरस्तस्य कामचारिण्य आगताः ।
समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः
yāstu gomātarastasya kāmacāriṇya āgatāḥ |
samīpaṃ hi sumitrasya kṛtajñāḥ samupasthitāḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥
14 श्लोक · 122 में से 274
कृतज्ञ गोलोक की गोमाताएँ सुमित्र के पास आईं, उनकी भक्ति की प्रशंसा की और वर माँगने को कहा। सुमित्र ने केवल यह माँगा कि गायों में उनकी भक्ति बनी रहे और गोघाती तथा ब्राह्मणद्रोही नष्ट हों। उन्होंने सुमित्र को गोलोक चलने को कहा, पर वे अपनी प्रिय गायों को छोड़ना नहीं चाहते थे। कपिलाओं का क्रूर निश्चय सुनकर गोमाताओं ने उन्हें आकाश में उठाया, योग से उनका सूक्ष्म शरीर निकाला, देह वहीं छोड़ दी और उन्हें कपिलाओं की योजना बताई। कपिलाओं ने देह पाकर प्रण के अनुसार सींगों और खुरों से उसे कुचल डाला। गोमाताओं ने उन गायों को ब्रह्महत्या के कारण अपवित्र मुख होने का शाप दिया। इस तरह ऋषि अपने लोक पहुँचे।
भीष्म उवाच
यास्तु गोमातरस्तस्य कामचारिण्य आगताः ।
समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः
yāstu gomātarastasya kāmacāriṇya āgatāḥ |
samīpaṃ hi sumitrasya kṛtajñāḥ samupasthitāḥ
अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः ।
गोलोकादागता वेद वृषगोमातरो वयम्
abhipraśasya caivāhustamṛṣiṃ puṇyadarśanāḥ |
golokādāgatā veda vṛṣagomātaro vayam
सुप्रीताः स्म वरं गृह्ण यमिच्छसि महामुने ।
यद्भि गोषु परां बुद्धिं कृतवानसि नित्यदा
suprītāḥ sma varaṃ gṛhṇa yamicchasi mahāmune |
yadbhi goṣu parāṃ buddhiṃ kṛtavānasi nityadā
सुमित्र उवाच
प्रीतोस्म्यनुगृहीतोस्मि यन्मां गोमातरः शुभाः ।
सुप्रीतमनसः सर्वास्तिष्ठन्ते च वरप्रदाः
prītosmyanugṛhītosmi yanmāṃ gomātaraḥ śubhāḥ |
suprītamanasaḥ sarvāstiṣṭhante ca varapradāḥ
भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा ।
गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये
bhavedgoṣveva me bhaktiryathaivādya tathā sadā |
goghnāścaivāvasīdantu narā brahmadviṣaśca ye
गोमातर ऊचुः
एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम् ।
एहि गच्छ सहाऽस्माभिर्गोलोकमृषिसत्तम
evametadṛṣiśreṣṭha hitaṃ vadasi naḥ priyam |
ehi gaccha sahā'smābhirgolokamṛṣisattama
सुमित्र उवाच
यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे ।
इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः
yūyamiṣṭāṃ gatiṃ yāntu na hyahaṃ gantumutsahe |
imā gāvaḥ samutsṛjya tapasvinyo mama priyāḥ
भीष्म उवाच
तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम् ।
नित्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन्
tāstu tasya vacaḥ śrutvā kapilānāṃ sudāruṇam |
nityustamṛṣimutkṣipya bhārgavaṃ nabha udvahan
कलेवरं तु तत्रैव तस्य संन्यस्य मातरः ।
निष्कृष्य करणं योगादानयन्भार्गवस्य वै
kalevaraṃ tu tatraiva tasya saṃnyasya mātaraḥ |
niṣkṛṣya karaṇaṃ yogādānayanbhārgavasya vai
सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम् ।
यदर्थं हरणं गोभिर्गोलोकं लोकमातरः
sarvaṃ cāsya tadācakhyuḥ kapilānāṃ viceṣṭitam |
yadarthaṃ haraṇaṃ gobhirgolokaṃ lokamātaraḥ
ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेवरम् ।
तथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन्
tatastu kapilāstatra tasya dṛṣṭvā kalevaram |
tathāpratijñaṃ śṛṅgaiśca khuraiścāpyavacūrṇayan
ततः संछिद्य बहुधा भार्गवं नृपसत्तम ।
युयुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन्
tataḥ saṃchidya bahudhā bhārgavaṃ nṛpasattama |
yuyuryatretarā gāvastacca sarvaṃ nyavedayan
अथ गोमातृभिः शप्तास्ता गावः पृथिवीचराः ।
अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः
atha gomātṛbhiḥ śaptāstā gāvaḥ pṛthivīcarāḥ |
amedhyavadanāḥ kṣipraṃ bhavadhvaṃ brahmaghātakāḥ
एवं कृतज्ञा गावो हि यता गोमातरो नृप ।
ऋषिश्च प्राप्तवाँल्लोकं गावश्च परिमोक्षिताः
evaṃ kṛtajñā gāvo hi yatā gomātaro nṛpa |
ṛṣiśca prāptavām̐llokaṃ gāvaśca parimokṣitāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)