अनुशासन पर्व

अध्याय 121: रन्तिदेव के सत्र से गोलोक पाने की योजना

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥

22 श्लोक · 121 में से 274

इस अध्याय में क्या होता है

रन्तिदेव के सत्र से गोलोक पाने की योजना

एक बार गोलोक की गायें स्त्री का रूप धरकर पर्वत के सरोवर में गाती और क्रीड़ा करती थीं। सुमित्र की गायों ने पूछा कि तुम कौन हो। उन्होंने कहा कि हम गायें हैं, हमने देवताओं और पितरों को तृप्त किया, हल और गाड़ी खींची, इसलिए गोलोक पाया, और दिव्य दृष्टि से देखती हैं कि तुम्हारी गति नीचे की है। उपाय में उन्होंने राजा रन्तिदेव का हज़ार वर्ष का सत्र बताया, जहाँ यज्ञपशु बनकर गायें गोलोक पाती हैं। सुमित्र की गायें जाने को उत्सुक हुईं, पर जानती थीं कि भार्गव अनुमति नहीं देंगे। उन्होंने उनके वध का निश्चय किया, पर कोई उन्हें क्रोध से देख भी न सकी। तब लाल आँखोंवाली कपिलाओं ने सुमित्र को मारने का प्रण किया और गायों ने उन्हें सबमें प्रधानता का वर दिया।

भीष्म उवाच

121.1

कदाचित्कामरूपिण्यो गावः स्त्रीवेषमाश्रिताः ।
ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः ॥?

kadācitkāmarūpiṇyo gāvaḥ strīveṣamāśritāḥ |
hrade krīḍanti saṃhṛṣṭā gāyantyaḥ puṇyalakṣaṇāḥ ||?

121.2

ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः ।
ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा

dadṛśustasya gāvo vai vismayotphullalocanāḥ |
ūcuśca kā yūyamiti striyo mānuṣayā girā

स्त्रिय ऊचुः

121.3

गाव एव वयं सर्वकर्मभिः शोभनैर्युताः ।
सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामेहे ।

gāva eva vayaṃ sarvakarmabhiḥ śobhanairyutāḥ |
sarvāḥ strīveṣadhāriṇyo yathākāmaṃ carāmehe |

गाव ऊचुः

121.4

गवां गावः परं दैवं गवां गावः परा गतिः ।
कथयध्वमिहास्माकं केन वः सुकृतां गतिः

gavāṃ gāvaḥ paraṃ daivaṃ gavāṃ gāvaḥ parā gatiḥ |
kathayadhvamihāsmākaṃ kena vaḥ sukṛtāṃ gatiḥ

स्त्रिय ऊचुः

121.5

अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा ।
कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः

asmākaṃ haviṣā devā brāhmaṇāstarpitāstathā |
kavyena pitaraścaiva havyenāgniśca tarpitaḥ

121.6

प्रजया च तथाऽस्माकं कृषिरभ्युद्धृता सदा ।
शकटैश्चापि संयुक्ता दशवाहशतेन वै

prajayā ca tathā'smākaṃ kṛṣirabhyuddhṛtā sadā |
śakaṭaiścāpi saṃyuktā daśavāhaśatena vai

121.7

तदेतैः सुकृतैः स्फीतैर्वयं याश्चैव नः प्रजाः ।
गोलोकमनुसम्प्राप्ता यः परं कामगोचरः

tadetaiḥ sukṛtaiḥ sphītairvayaṃ yāścaiva naḥ prajāḥ |
golokamanusamprāptā yaḥ paraṃ kāmagocaraḥ

121.8

यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुङ्गवाः ।
अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा

yūyaṃ tu sarvā rohiṇyaḥ saprajāḥ sahapuṅgavāḥ |
adhogāminya ityeva paśyāmo divyacakṣuṣā

गाव ऊचुः

121.9

एवं गवां परं दैवं गाव एव परायणम् ।
स्वपक्ष्यास्तारणीया वः शरणाय गता वयम्

evaṃ gavāṃ paraṃ daivaṃ gāva eva parāyaṇam |
svapakṣyāstāraṇīyā vaḥ śaraṇāya gatā vayam

121.10

किमस्माभिः करणीयं वर्तितव्यं कथञ्चन ।
प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः

kimasmābhiḥ karaṇīyaṃ vartitavyaṃ kathañcana |
prāpnuyāma ca golokaṃ bhavāma na ca garhitāḥ

स्त्रिय ऊचुः

121.11

वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम् ।
तत्र तस्य नृपस्याशु पशुत्वमुपगच्छतः

vartate rantidevasya satraṃ varṣasahasrakam |
tatra tasya nṛpasyāśu paśutvamupagacchataḥ

121.12

ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः ।
गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः

tatastasyopayogena paśutve yajñasaṃskṛtāḥ |
golokānprāpsyatha śubhāṃstena puṇyena saṃyutāḥ

भीष्म उवाच

121.13

एतत्तासां वचः श्रुत्वा गवां संहृष्टमानसाः ।
गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम्

etattāsāṃ vacaḥ śrutvā gavāṃ saṃhṛṣṭamānasāḥ |
gamanāya manaścakrurautsukyaṃ cāgamanparam

121.14

न हि नो भार्गवो दाता पशुत्वेनोपयोजनम् ।
यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा

na hi no bhārgavo dātā paśutvenopayojanam |
yajñastasya narendrasya vartate dharmatastathā

121.15

वयं न चाननुज्ञाताः शक्ता गन्तुं कथञ्चन ।
अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम्

vayaṃ na cānanujñātāḥ śaktā gantuṃ kathañcana |
avocannatha tatratyā bhārgavo vadhyatāmayam

121.16

एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा ।
लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम्

etatsarvā rocayata na hi śakyamato'nyathā |
lokānprāptuṃ sahāsmābhirniścayaḥ kriyatāmayam

121.17

न तु तासां समेतानां काचिद्धोरेण चक्षुषा ।
शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता

na tu tāsāṃ sametānāṃ kāciddhoreṇa cakṣuṣā |
śaknoti bhārgavaṃ draṣṭuṃ satkṛtenopasaṃyutā

121.18

अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः ।
जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः

atha padmasavarṇābhā bhāskarāṃśusamaprabhāḥ |
japālohitatāmrākṣyo nirmāṃsakaṭhinānanāḥ

121.19

रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः ।
मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्चिताः

rohiṇyaḥ kapilāḥ prāhuḥ sarvāsāṃ vai samakṣataḥ |
meghastanitanirghoṣāstejobhirabhirañcitāḥ

121.20

वयं हि तं वधिष्यामः सुमित्रं नात्रं संशयः ।
सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ

vayaṃ hi taṃ vadhiṣyāmaḥ sumitraṃ nātraṃ saṃśayaḥ |
sukṛtaṃ pṛṣṭhataḥ kṛtvā kiṃ naḥ śreyo vidhāsyatha

गाव ऊचुः

121.21

कपिलाः सर्ववर्णेषु प्रधानत्वमवाप्स्यथ ।
गवां शतफला चैकां दत्त्वा फलमवाप्स्यति

kapilāḥ sarvavarṇeṣu pradhānatvamavāpsyatha |
gavāṃ śataphalā caikāṃ dattvā phalamavāpsyati

भीष्म उवाच

121.22

एतद्गवां वचः श्रुत्वा कपिला हृष्टमानसाः ।
चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम्

etadgavāṃ vacaḥ śrutvā kapilā hṛṣṭamānasāḥ |
cakruḥ sarvā bhārgavasya sumitrasya vadhe matim

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)