यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद ।
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृपः
yathaiva te namaskāryāḥ proktāḥ śakreṇa mānada |
etanme sarvamācakṣva yebhyaḥ spṛhayase nṛpaḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशोऽध्यायः ॥
32 श्लोक · 12 में से 274
युधिष्ठिर पूछते हैं कि भीष्म किनके समान होना चाहते हैं। भीष्म कहते हैं: ब्राह्मणों के, जिनका धन वेद है, जिनका स्वर्ग तप और स्वाध्याय से मिलता है, और जिनके बालक-वृद्ध पितरों का भार बिना थके उठाते हैं। फिर ब्राह्मण होकर जन्में तो स्वयं को धन्य मानेंगे। युधिष्ठिर उन्हें सबसे प्रिय हैं, पर ब्राह्मण उनसे भी, पिता शान्तनु से भी प्रिय हैं; इसी सत्य से वे शान्तनु के लोक पाना चाहते हैं। उन्होंने कर्म, मन या वाणी से कभी ब्राह्मण का अहित नहीं किया, इसलिए अब पीड़ा नहीं है। दस वर्ष का ब्राह्मण सौ वर्ष के क्षत्रिय का पिता समान है। राजा ब्राह्मणों की पुत्र की तरह रक्षा करे, गुरु की तरह सेवा करे, अग्नि की तरह आदर करे और देखे कि उनके घर जीविका है।
युधिष्ठिर उवाच
यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद ।
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृपः
yathaiva te namaskāryāḥ proktāḥ śakreṇa mānada |
etanme sarvamācakṣva yebhyaḥ spṛhayase nṛpaḥ
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः ।
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत
uttamāpadgatasyāpi yatra te vartate manaḥ |
manuṣyaloke sarvasminyadamutreha cāpyuta
भीष्म उवाच
स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम् ।
येषां संप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनम्
spṛhayāmi dvijātibhyo yeṣāṃ brahma paraṃ dhanam |
yeṣāṃ saṃpratyayaḥ svargastapaḥsvādhyāyasādhanam
येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम् ।
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम्
yeṣāṃ bālāśca vṛddhāśca pitṛpaitāmahīṃ dhuram |
udvahanti na sīdanti tebhyo vai spṛhayāmyaham
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् ।
श्रुतवृत्तोपपन्नानां सदाऽक्षरविदां सताम्
vidyāsvabhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām |
śrutavṛttopapannānāṃ sadā'kṣaravidāṃ satām
संसत्सु वदतां तात हंसानामिव सङ्घशः ।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः
saṃsatsu vadatāṃ tāta haṃsānāmiva saṅghaśaḥ |
maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ
सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर ।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः
samyaguccaritā vācaḥ śrūyante hi yudhiṣṭhira |
śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ
ये चापि तेषां श्रोतारः सदा सदसि सम्मताः ।
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम्
ye cāpi teṣāṃ śrotāraḥ sadā sadasi sammatāḥ |
vijñānaguṇasampannāstebhyaśca spṛhayāmyaham
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च ।
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठर ।
ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम्
susaṃskṛtāni prayatāḥ śucīni guṇavanti ca |
dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhara |
ye cāpi satataṃ rājaṃstebhyaśca spṛhayāmyaham
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितुम्
śakyaṃ hyevāhave yoddhuṃ na dātumanasūyitum
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।
तेषां संख्यायमानानां दानशूरो विशिष्यते
śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira |
teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate
भद्रं तु जन्म सम्प्राप्य भूयो ब्राह्मणको भवेत् ।
बन्धुमध्ये कुले जातः सुदुरापमवाप्नुयात्
bhadraṃ tu janma samprāpya bhūyo brāhmaṇako bhavet |
bandhumadhye kule jātaḥ sudurāpamavāpnuyāt
धन्यः स्यां यद्यहं भूयः सौम्यब्राह्मणकोपि वा ।
कुले जातो धर्मगतिस्तपोविद्यापरायणः
dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumyabrāhmaṇakopi vā |
kule jāto dharmagatistapovidyāparāyaṇaḥ
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन ।
त्वत्तश्चापि प्रियतरा ब्राह्मणा एव भारत
na me tvattaḥ priyataro loke'sminpāṇḍunandana |
tvattaścāpi priyatarā brāhmaṇā eva bhārata
यथा मम प्रियतमास्त्वत्तो विप्राः कुरूत्तम ।
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः
yathā mama priyatamāstvatto viprāḥ kurūttama |
tena satyena gaccheyaṃ lokānyatra sa śantanuḥ
न मे पिता प्रियतरो ब्रह्मणेभ्यस्तथाऽभवत् ।
न मे पितुः पिता वाऽपि ये चान्येऽपि सुहृञ्जनाः
na me pitā priyataro brahmaṇebhyastathā'bhavat |
na me pituḥ pitā vā'pi ye cānye'pi suhṛñjanāḥ
न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह ।
अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु
na hi me vṛjinaṃ kiñcidvidyate brāhmaṇeṣviha |
aṇu vā yadi vā sthūlaṃ vidyate sādhukarmasu
कर्मणा मनसा वाऽपि वाचा वाऽपि परंतप ।
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम्
karmaṇā manasā vā'pi vācā vā'pi paraṃtapa |
yanme kṛtaṃ brāhmaṇebhyastenādya na tapāmyaham
ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि तोषितः ।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम्
brahmaṇya iti māmāhustayā vācā'smi toṣitaḥ |
etadeva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam
पश्यामि लोकानमलाञ्शुचीन्ब्राह्मणतोषणात् ।
तेषु मे तात गन्तव्यमह्नाय च चिराय च
paśyāmi lokānamalāñśucīnbrāhmaṇatoṣaṇāt |
teṣu me tāta gantavyamahnāya ca cirāya ca
यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युदिष्ठिर ।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः
yathā bhartrāśrayo dharmaḥ strīṇāṃ loke yudiṣṭhira |
sa devaḥ sā gatirnānyā kṣatriyasya tathā dvijāḥ
क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः ।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः
kṣatriyaḥ śatavarṣī ca daśavarṣī dvijottamaḥ |
pitāputrau ca vijñeyau tayorhi brāhmaṇo guruḥ
नारी तु पत्यभावे वै देवरं कुरुते पतिम् ।
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम्
nārī tu patyabhāve vai devaraṃ kurute patim |
pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim
ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः ।
तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः
brāhmaṇānujñayā grāhyaṃ rājyaṃ ca sapurohitaiḥ |
tadrakṣaṇena svargo'sya tatkopānnarako'kṣayaḥ
पुत्रवच्चैव ते रक्ष्या उपास्या गुरुवच्च ते ।
अग्निवच्चोपचार्या वै ब्राह्मणाः कुरुसत्तम्
putravaccaiva te rakṣyā upāsyā guruvacca te |
agnivaccopacāryā vai brāhmaṇāḥ kurusattam
ऋजुन्सतः सत्यशीलान्सर्वभूतहिते रतान् ।
आशीविषानिव क्रुद्धान्द्विजान्परिचरेत्सदा
ṛjunsataḥ satyaśīlānsarvabhūtahite ratān |
āśīviṣāniva kruddhāndvijānparicaretsadā
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर ।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा
tejasastapasaścaiva nityaṃ bibhyedyudhiṣṭhira |
ubhe caite parityājye tejaścaiva tapastathā
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते ।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः
vyavasāyastayoḥ śīghramubhayoreva vidyate |
hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ
दूरतो मातृवत्पूज्या विप्रदाराः सुरक्षया ।
अकोपनापराधेन भूयो नरकमश्नुते
dūrato mātṛvatpūjyā vipradārāḥ surakṣayā |
akopanāparādhena bhūyo narakamaśnute
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् ।
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत्
bhūyaḥ syādubhayaṃ dattaṃ brāhmaṇādyadakopanāt |
kuryādubhayataḥ śeṣaṃ dattaśeṣaṃ na śeṣayet
दण्डपाणिर्यथा गोष्ठं पालो नित्यं हि रक्षयेत् ।
ब्राह्मणेषु स्थितं ब्रह्म क्षत्रियः परिपालयेत्
daṇḍapāṇiryathā goṣṭhaṃ pālo nityaṃ hi rakṣayet |
brāhmaṇeṣu sthitaṃ brahma kṣatriyaḥ paripālayet
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः ।
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम्
piteva putrānrakṣethā brāhmaṇānbrahmatejasaḥ |
gṛhe caiṣāmavekṣethāḥ kiṃsvidastīti jīvanam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)