अनुशासन पर्व

अध्याय 119: इन्द्र ने सुरभि का दूध पिया, देवता गायों में

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥

25 श्लोक · 119 में से 274

इस अध्याय में क्या होता है

इन्द्र ने सुरभि का दूध पिया, देवता गायों में

युधिष्ठिर पूछते हैं कि श्री, कीर्ति, मेधा और सरस्वती गायों में रहती हैं या अलग, और कौन देवता गायों में बसते हैं। भीष्म बताते हैं कि इन्द्र अमृत माँगने सुरभि के पास गए। सुरभि ने कहा, मेरा बछड़ा बनकर दूध पियो, और इन्द्र ने अमरता, रूप और बल पाया। उनका पुत्र बनकर इन्द्र ने सब देवताओं सहित गायों में बसने की अनुमति माँगी। सुरभि मान गईं और चेताया कि गाय और ब्राह्मण का अपमान कभी न करना, उनकी साँस भी देवताओं को सुखा सकती है। तब इन्द्र सींग और मुख में, रुद्र कूबड़ में, अग्नि पेट में, सरस्वती स्तनों में, श्री गोबर में, गङ्गा और कीर्ति मूत्र में, मेधा दूध में, यम हृदय में, धर्म पूँछ में और सूर्य आँखों में बसे।

युधिष्ठिर उवाच

119.1

सुरभ्यास्तु तदा देव्याः कीर्तिर्लक्ष्मीः सरस्वती ।
मेधा च प्रवरा देवी याश्चतस्रोऽभिविश्रुताः

surabhyāstu tadā devyāḥ kīrtirlakṣmīḥ sarasvatī |
medhā ca pravarā devī yāścatasro'bhiviśrutāḥ

119.2

पृथग्गोभ्यः किमेताः स्युरुताहो गोषु संश्रिताः ।
देवाः के वाऽऽश्रिता गोषु तन्मे ब्रूहि पितामह

pṛthaggobhyaḥ kimetāḥ syurutāho goṣu saṃśritāḥ |
devāḥ ke vā''śritā goṣu tanme brūhi pitāmaha

भीष्म उवाच

119.3

यं देवं संश्रिता गावस्तं देवं देवसंज्ञितम् ।
यद्यद्देवाश्रितं दैवं तत्तद्दैवं द्विजा विदुः

yaṃ devaṃ saṃśritā gāvastaṃ devaṃ devasaṃjñitam |
yadyaddevāśritaṃ daivaṃ tattaddaivaṃ dvijā viduḥ

119.4

सर्वेषामेव देवानां पूर्वं किल समुद्भवे ।
अमृतार्थे सुरपतिः सुरभिं समुपस्थितः

sarveṣāmeva devānāṃ pūrvaṃ kila samudbhave |
amṛtārthe surapatiḥ surabhiṃ samupasthitaḥ

इन्द्र उवाच

119.5

इच्छेयममृतं दत्तं त्वया देवि रसाधिकम् ।
त्वत्प्रसादाच्छिवं मह्यममरत्वं भवेदिति

iccheyamamṛtaṃ dattaṃ tvayā devi rasādhikam |
tvatprasādācchivaṃ mahyamamaratvaṃ bhavediti

सुरभिरुवाच

119.6

वत्सो भूत्वा सुपरते पिबस्व प्रस्रवं मम ।
ततोऽमरत्वमपि तस्थानमैन्द्रमवाप्स्यसि

vatso bhūtvā suparate pibasva prasravaṃ mama |
tato'maratvamapi tasthānamaindramavāpsyasi

119.7

न च ते वृत्रहन्युद्धे व्यथाऽरिभ्यो भविष्यति ।
बलार्थमात्मनः शक्र प्रस्रवं पिब मे विभो

na ca te vṛtrahanyuddhe vyathā'ribhyo bhaviṣyati |
balārthamātmanaḥ śakra prasravaṃ piba me vibho

भीष्म उवाच

119.8

ततोऽपिबत्स्नं तस्याः सुरभ्याः सुरसत्तमः ।
अमरत्वं सुरूपत्वं बलं चापदनुत्तमम्

tato'pibatsnaṃ tasyāḥ surabhyāḥ surasattamaḥ |
amaratvaṃ surūpatvaṃ balaṃ cāpadanuttamam

119.9

पुरंदरोऽमृतं पीत्वा प्रहृष्टः समुपस्थितः ।
पुत्रोऽहं तव भद्रं ते ब्रूहि किं करवाणि ते

puraṃdaro'mṛtaṃ pītvā prahṛṣṭaḥ samupasthitaḥ |
putro'haṃ tava bhadraṃ te brūhi kiṃ karavāṇi te

सुरभिरुवाच

119.10

कृतं पुत्र त्वया सर्वमुपयाहि त्रिविष्टपम् ।
पालयस्व सुरान्सर्वाञ्जहि ये सुरशत्रवः

kṛtaṃ putra tvayā sarvamupayāhi triviṣṭapam |
pālayasva surānsarvāñjahi ye suraśatravaḥ

119.11

न च गोब्राह्मणेऽवज्ञा कार्या ते शान्तिमिच्छता ।
गोब्राह्मणस्य निश्वासः शोषयेदपि देवताः

na ca gobrāhmaṇe'vajñā kāryā te śāntimicchatā |
gobrāhmaṇasya niśvāsaḥ śoṣayedapi devatāḥ

119.12

गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दमुदाहरन् ।
पृथिव्यामन्तरिक्षे च नाकपृष्ठे च विक्रमेत्

gobrāhmaṇapriyo nityaṃ svastiśabdamudāharan |
pṛthivyāmantarikṣe ca nākapṛṣṭhe ca vikramet

119.13

यच्च तेऽन्यद्भवेत्कृत्यं तन्मे ब्रूयाः समासतः ।
तत्ते सर्वं करिष्यामि सत्येनैतद्ब्रवीमि ते

yacca te'nyadbhavetkṛtyaṃ tanme brūyāḥ samāsataḥ |
tatte sarvaṃ kariṣyāmi satyenaitadbravīmi te

इन्द्र उवाच

119.14

इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते ।
एभिः सुरगणैः सार्धं ममानुग्रहमाचर

iccheyaṃ goṣu niyataṃ vastuṃ devi bravīmi te |
ebhiḥ suragaṇaiḥ sārdhaṃ mamānugrahamācara

सुरभिरुवाच

119.15

गवां शरीरं प्रत्यक्षमेतत्कौशिक लक्ष्ये ।
यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः

gavāṃ śarīraṃ pratyakṣametatkauśika lakṣye |
yo yatrotsahate vastuṃ sa tatra vasatāṃ suraḥ

119.16

सर्वं पवित्रं परमं गवां गात्रं सुपूजितम् ।
तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे

sarvaṃ pavitraṃ paramaṃ gavāṃ gātraṃ supūjitam |
tathā kuruṣva bhadraṃ te yathā tvaṃ śakra manyase

भीष्म उवाच

119.17

तस्यास्तद्वचनं श्रुत्वा सुरभ्याः सुरसत्तमः ।
सह सर्वैः सुरगणैरभजत्सौरभीं प्रजाम्

tasyāstadvacanaṃ śrutvā surabhyāḥ surasattamaḥ |
saha sarvaiḥ suragaṇairabhajatsaurabhīṃ prajām

119.18

शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत् ।
सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः

śṛṅge vaktre ca jihvāyāṃ devarājaḥ samāviśat |
sarvacchidreṣu pavanaḥ pādeṣu marutāṃ gaṇāḥ

119.19

ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः ।
सरस्वती स्तनेष्वग्र्या श्रीः पुरीषे जगत्प्रिया

kakudaṃ sarvago rudraḥ kukṣau caiva hutāśanaḥ |
sarasvatī staneṣvagryā śrīḥ purīṣe jagatpriyā

119.20

मूत्रे कीर्तिश्च गङ्गा च मेधा पयसि शाश्वती ।
वक्त्रे सोमश्च वै देवो हृदये भगवान्यमः

mūtre kīrtiśca gaṅgā ca medhā payasi śāśvatī |
vaktre somaśca vai devo hṛdaye bhagavānyamaḥ

119.21

धर्मः पुच्छे क्रिया लोम्नि भास्करश्चक्षुषी श्रितः ।
सिद्धाः सन्धिषु सिद्धिश्च तपस्तेजश्च चेष्टने

dharmaḥ pucche kriyā lomni bhāskaraścakṣuṣī śritaḥ |
siddhāḥ sandhiṣu siddhiśca tapastejaśca ceṣṭane

119.22

एवं सर्वे सुरगणा नियता गात्रवर्त्मसु ।
महती देवता गावो ब्राह्मणैः परिसंस्कृताः

evaṃ sarve suragaṇā niyatā gātravartmasu |
mahatī devatā gāvo brāhmaṇaiḥ parisaṃskṛtāḥ

119.23

गामाश्रयन्ति सहिता देवा हि प्रभविष्णवः ।
किमासां सर्वभावेन विदध्याद्भगवान्प्रियम्

gāmāśrayanti sahitā devā hi prabhaviṣṇavaḥ |
kimāsāṃ sarvabhāvena vidadhyādbhagavānpriyam

119.24

भवांश्च परया भक्त्या पूजयस्व नरेश्वर ।
गावस्तु परमं लोके पवित्रं पावनं हविः

bhavāṃśca parayā bhaktyā pūjayasva nareśvara |
gāvastu paramaṃ loke pavitraṃ pāvanaṃ haviḥ

119.25

निपात्य भक्षितः स्वर्गाद्भार्गवः फेनपः किल ।
स च प्राणान्पुनर्लब्ध्वा ततो गोलोकमाश्रितः

nipātya bhakṣitaḥ svargādbhārgavaḥ phenapaḥ kila |
sa ca prāṇānpunarlabdhvā tato golokamāśritaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)