आदि पर्व

अध्याय 93: शकुन्तला का जन्म

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥ 1-93-1 सदागतिम् वायुम् ॥ 1-93-6 गृद्धां सक्ताम् । विवृतामनाच्छादिताम् ॥ 1-93-8 न्यमन्त्रयत एहीत्याकारितवान् । व्यहरतां विहारं चक्रतुः ॥ 1-93-20 उपस्प्रष्टुं आचमनादिकं कर्तुम् ॥ 1-93-25 शरीरकृन्निषेक्ता । प्राणदाताऽभयप्रदः ॥ त्रिनवतितमोऽध्यायः ॥

29 श्लोक · 93 में से 261

इस अध्याय में क्या होता है

शकुन्तला का जन्म

मेनका विश्वामित्र के पास पहुँचकर प्रणाम करती है और पास ही क्रीड़ा करने लगती है। वायु उसका चन्द्रमा जैसा उजला वस्त्र उड़ा ले जाता है। उसका रूप देखकर मुनि काम के वश हो जाते हैं और उसे बुलाते हैं, वह भी स्वीकार करती है। वे इतने समय साथ रहते हैं कि हजार वर्ष एक दिन जैसे बीत जाते हैं और मुनि का संचित तप क्षीण हो जाता है। मेनका हिमालय की ढलान पर मालिनी के तट पर एक कन्या को जन्म देकर उसे वहीं छोड़ इन्द्रलोक लौट जाती है। वन में शकुन्त पक्षी शिशु को घेरकर मांसाहारियों से बचाते हैं। कण्व उसे लाकर पुत्री के रूप में पालते हैं। पक्षियों ने रक्षा की, इसलिए नाम शकुन्तला रखा गया।

कण्व उवाच

93.1

एवमुक्तस्तया शक्रः संदिदेश सदागतिम् ।
प्रातिष्ठत तदा काले मेनका वायुना सह

evamuktastayā śakraḥ saṃdideśa sadāgatim |
prātiṣṭhata tadā kāle menakā vāyunā saha

93.2

अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् ।
मिश्वामित्रं तप्यमानं मेनका भीरुराश्रमे

athāpaśyadvarārohā tapasā dagdhakilbiṣam |
miśvāmitraṃ tapyamānaṃ menakā bhīrurāśrame

93.3

अभिवाद्य ततः सा तं प्राक्रीडदृषिसन्निधौ ।
अपोवाह च वासोऽस्या मारुतः शशिसंनिभम्

abhivādya tataḥ sā taṃ prākrīḍadṛṣisannidhau |
apovāha ca vāso'syā mārutaḥ śaśisaṃnibham

93.4

सागच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती ।
कुत्सयन्तीव सव्रीडं मारुतं वरवर्णिनी

sāgacchattvaritā bhūmiṃ vāsastadabhilipsatī |
kutsayantīva savrīḍaṃ mārutaṃ varavarṇinī

93.5

पश्यतस्तस्य राजर्षेरप्यग्निसमतेजसः ।
विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम्

paśyatastasya rājarṣerapyagnisamatejasaḥ |
viśvāmitrastatastāṃ tu viṣamasthāmaninditām

93.6

गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः ।
अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा

gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ |
anirdeśyavayorūpāmapaśyadvivṛtāṃ tadā

93.7

तस्या रूपगुणान्दृष्ट्वा स तु विप्रर्षभस्तदा ।
चकार भावं संसर्गे तया कामवशं गतः

tasyā rūpaguṇāndṛṣṭvā sa tu viprarṣabhastadā |
cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ

93.8

न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता ।
तौ तत्र सुचिरं कालमुभौ व्यवहरतां तदा

nyamantrayata cāpyenāṃ sā cāpyaicchadaninditā |
tau tatra suciraṃ kālamubhau vyavaharatāṃ tadā

93.9

रममाणौ यथाकामं यतैकदिवसं तथा ।
एवं वर्षसहस्राणामतीतं नान्वचिन्तयत्

ramamāṇau yathākāmaṃ yataikadivasaṃ tathā |
evaṃ varṣasahasrāṇāmatītaṃ nānvacintayat

93.10

कामक्रोधावजितवान्मुनिर्नित्यं समाहितः ।
चिरार्जितस्य तपसः क्षयं स कृतवान्मुनिः

kāmakrodhāvajitavānmunirnityaṃ samāhitaḥ |
cirārjitasya tapasaḥ kṣayaṃ sa kṛtavānmuniḥ

93.11

तपसः संक्षयादेव मुनिर्मोहं समाविशत् ।
मोहाभिभूतः क्रोधात्मा ग्रसन्मूलफलान्मुनिः

tapasaḥ saṃkṣayādeva munirmohaṃ samāviśat |
mohābhibhūtaḥ krodhātmā grasanmūlaphalānmuniḥ

93.12

पादैर्जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः ।
मेनका गन्तुकामा तु शुश्राव जलनिस्वनम्

pādairjalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ |
menakā gantukāmā tu śuśrāva jalanisvanam

93.13

तपसा दीप्तवीर्योऽसावाकाशादेति याति च ।
अद्य संज्ञां विजानामि ययाऽद्य तपसः क्षयः

tapasā dīptavīryo'sāvākāśādeti yāti ca |
adya saṃjñāṃ vijānāmi yayā'dya tapasaḥ kṣayaḥ

93.14

गन्तुं न युक्तमित्युक्त्वा ऋतुस्नाताथ मेनका ।
कामरागाभिभूतस्य मुनेः पार्स्वं जगाम ह

gantuṃ na yuktamityuktvā ṛtusnātātha menakā |
kāmarāgābhibhūtasya muneḥ pārsvaṃ jagāma ha

93.15

जनयामास स मुनिर्मेनकायां शकुन्तलाम् ।
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम्

janayāmāsa sa munirmenakāyāṃ śakuntalām |
prasthe himavato ramye mālinīmabhito nadīm

93.16

देवगर्भोपमां बालां सर्वाभरणभूषिताम् ।
शयानां शयने रम्ये मेनका वाक्यमब्रवीत्

devagarbhopamāṃ bālāṃ sarvābharaṇabhūṣitām |
śayānāṃ śayane ramye menakā vākyamabravīt

93.17

महर्षेरुग्रतपसस्तेजस्त्वमसि भामिनि ।
तस्मात्स्वर्गं गमिष्यामि देवकार्यार्थमागता

maharṣerugratapasastejastvamasi bhāmini |
tasmātsvargaṃ gamiṣyāmi devakāryārthamāgatā

93.18

जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु ।
कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम्

jātamutsṛjya taṃ garbhaṃ menakā mālinīmanu |
kṛtakāryā tatastūrṇamagacchacchakrasaṃsadam

93.19

तं वने विजने गर्भं सिंहव्याघ्रसमाकुले ।
दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ।
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः

taṃ vane vijane garbhaṃ siṃhavyāghrasamākule |
dṛṣṭvā śayānaṃ śakunāḥ samantātparyavārayan |
nemāṃ hiṃsyurvane bālāṃ kravyādā māṃsagṛddhinaḥ

93.20

पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ।
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्

paryarakṣanta tāṃ tatra śakuntā menakātmajām |
upaspraṣṭuṃ gataścāhamapaśyaṃ śayitāmimām

93.21

निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् ।
मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः ।
अब्रुञ्शकुनाः सर्वे कलं मधुरभाषिणः

nirjane vipine ramye śakuntaiḥ parivāritām |
māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ |
abruñśakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ

93.22

विश्वामित्रसुतां ब्रह्मन्न्यासभूतां भरस्व वै ।
कामक्रोधावजितवान्सखा ते कौशिकीं गतः

viśvāmitrasutāṃ brahmannyāsabhūtāṃ bharasva vai |
kāmakrodhāvajitavānsakhā te kauśikīṃ gataḥ

93.23

तस्मात्पोषय तत्पुत्रीं दयावानिति तेऽब्रुवन् ।
सर्वभूतरुतज्ञोऽहं दयावान्सर्वजन्तुषु

tasmātpoṣaya tatputrīṃ dayāvāniti te'bruvan |
sarvabhūtarutajño'haṃ dayāvānsarvajantuṣu

93.24

आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम्

ānayitvā tataścaināṃ duhitṛtve nyaveśayam

93.25

शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते ।
क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने

śarīrakṛtprāṇadātā yasya cānnāni bhuñjate |
krameṇaite trayo'pyuktāḥ pitaro dharmaśāsane

93.26

निर्जने तु वने यस्माच्छकुन्तैः परिवारिता ।
शकुन्तलेति नामास्याः कृतं चापि ततो मया

nirjane tu vane yasmācchakuntaiḥ parivāritā |
śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā

93.27

एवं दुहितरं विद्धि मम विप्र शकुन्तलाम् ।
शकुन्तला च पितरं मन्यते मामनिन्दिता

evaṃ duhitaraṃ viddhi mama vipra śakuntalām |
śakuntalā ca pitaraṃ manyate māmaninditā

शकुन्तलोवाच

93.28

एतदाचष्ट पृष्टः सन्मम जन्म महर्षये ।
सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप

etadācaṣṭa pṛṣṭaḥ sanmama janma maharṣaye |
sutāṃ kaṇvasya māmevaṃ viddhi tvaṃ manujādhipa

93.29

कण्वं हि पितरं मन्ये पितरं स्वमजानती ।
इति ते कथितं राजन्यथावृत्तं श्रुतं मया

kaṇvaṃ hi pitaraṃ manye pitaraṃ svamajānatī |
iti te kathitaṃ rājanyathāvṛttaṃ śrutaṃ mayā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)