सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च ।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्
sarpāṇāṃ tu vacaḥ śrutvā sarveṣāmiti ceti ca |
vāsukeśca vacaḥ śrutvā elāpatro'bravīdidam
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टत्रिंशोऽध्यायः ॥
21 श्लोक · 38 में से 261
अन्त में एलापत्र बोलते हैं। यह यज्ञ रुकेगा नहीं; जिस पर दैव का आघात हो, उसे दैव की ही शरण लेनी चाहिए। बचपन में माता की गोद में बैठे उन्होंने देवताओं को ब्रह्मा से पूछते सुना था कि कद्रू को अपने ही पुत्रों को शाप देने से क्यों नहीं रोका। ब्रह्मा ने कहा था कि बहुत से सर्प क्रूर और विषैले हैं, अतः प्रजा के हित में उन्होंने इसे होने दिया; केवल पापी नष्ट होंगे, धर्मात्मा नहीं। यायावर कुल में जरत्कारु नामक ऋषि होंगे, जिनका पुत्र आस्तीक यज्ञ रोकेगा। जरत्कारु वासुकि की उसी नाम वाली बहन से विवाह करेंगे। अतः जब मुनि पत्नी माँगें, तब उसे उन्हें दे दें।
सौतिरुवाच
सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च ।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्
sarpāṇāṃ tu vacaḥ śrutvā sarveṣāmiti ceti ca |
vāsukeśca vacaḥ śrutvā elāpatro'bravīdidam
प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः ।
हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो
prāgeva darśitā buddhirmayaiṣā bhujagottamāḥ |
heyeti yadi vo buddhistavāpi ca tathā prabho
अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता ।
तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः
astu kāmaṃ mabhādyāpi buddhiḥ smaraṇamāgatā |
tāṃ śṛṇudhvaṃ pravakṣyāmi yāthātathyena pannagāḥ
न स यज्ञो न भविता न स राजा तथाविधः ।
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम्
na sa yajño na bhavitā na sa rājā tathāvidhaḥ |
janamejayaḥ pāṇḍaveyo yato'smākaṃ mahadbhayam
दैवेनोपहतो राजन्यो भवेदिह पूरुषः ।
स दैवमेवाश्रयेत नान्यत्तत्र परायणम्
daivenopahato rājanyo bhavediha pūruṣaḥ |
sa daivamevāśrayeta nānyattatra parāyaṇam
तदिदं चैवमस्माकं भयं पन्नगसत्तमाः ।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम
tadidaṃ caivamasmākaṃ bhayaṃ pannagasattamāḥ |
daivamevāśrayāmo'tra śṛṇudhvaṃ ca vaco mama
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा ।
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ।
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो
ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā |
māturutsaṅgamārūḍho bhayātpannagasattamāḥ |
devānāṃ pannagaśreṣṭhāstīkṣṇāstīkṣṇa iti prabho
शापदुःखाग्नितप्तानां पन्नगानामनामयम् ।
कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः
śāpaduḥkhāgnitaptānāṃ pannagānāmanāmayam |
kṛpayā parayā''viṣṭāḥ prārthayanto divaukasaḥ
देवा ऊचुः
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह ।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः
kā hi labdhvā priyānputrāñśapedevaṃ pitāmaha |
ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह ।
इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता
tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha |
icchāma etadvijñātuṃ kāraṇaṃ yanna vāritā
ब्रह्मोवाच
बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः ।
प्रजानां हितकामोऽहं न च वारितवांस्तदा
bahavaḥ pannagāstīkṣṇā ghorarūpā viṣolbaṇāḥ |
prajānāṃ hitakāmo'haṃ na ca vāritavāṃstadā
ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः ।
तेषां विनाशो भविता न तु ये धर्मचारिणः
ye dandaśūkāḥ kṣudrāśca pāpācārā viṣolbaṇāḥ |
teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् ।
पन्नगानां निबोधध्वं तस्मिन्काले समागते
yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt |
pannagānāṃ nibodhadhvaṃ tasminkāle samāgate
यायावरकुले धीमान्भविष्यति महानृषिः ।
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः
yāyāvarakule dhīmānbhaviṣyati mahānṛṣiḥ |
jaratkāruriti khyātastapasvī niyatendriyaḥ
तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः ।
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः
tasya putro jaratkārorbhaviṣyati tapodhanaḥ |
āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā |
tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ
देवा ऊचुः
स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः ।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्
sa munipravaro brahmañjaratkārurmahātapāḥ |
kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān
ब्रह्मोवाच
वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना ।
तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः
vāsukerbhaginī kanyā samutpannā suśobhanā |
tasmai dāsyati tāṃ kanyāṃ vāsukirbhujagottamaḥ
तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम् ।
सनामायां सनामा स कन्यायां द्विजसत्तमः
tasyāṃ janayitā putraṃ vedavedāṅgapāragam |
sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ
एलापत्र उवाच
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।
उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ
evamastviti taṃ devāḥ pitāmahamathābruvan |
utkvaivaṃ vacanaṃ devānviriñcistridivaṃ yayau
सोऽहमेवं प्रपश्यामि वासुके भगिनी तव ।
जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय
so'hamevaṃ prapaśyāmi vāsuke bhaginī tava |
jaratkāruriti khyātā tāṃ tasmai pratipādaya
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया
bhaikṣavadbhikṣamāṇāya nāgānāṃ bhayaśāntaye |
ṛṣaye suvratāyaināmeṣa mokṣaḥ śruto mayā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)