आदि पर्व

अध्याय 222: भीष्म की सलाह: पाण्डवों को आधा राज्य

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥

19 श्लोक · 222 में से 261

इस अध्याय में क्या होता है

भीष्म की सलाह: पाण्डवों को आधा राज्य

भीष्म पाण्डुपुत्रों से किसी भी विरोध के विरुद्ध बोलते हैं। उनके लिए कुन्ती के पुत्र गान्धारी के पुत्रों के समान हैं। सन्धि करके उन्हें आधी भूमि दो, क्योंकि यह उनके पूर्वजों का भी राज्य है। जैसे दुर्योधन इसे पैतृक मानता है, वैसे ही वे भी। प्रेम से आधा राज्य दो, अन्यथा हानि और स्थायी अपयश होगा। भीष्म दुर्योधन से कहते हैं कि कीर्ति की रक्षा करो, कीर्ति ही परम बल है। सौभाग्य से कुन्ती और उसके पुत्र जीवित हैं और पापी पुरोचन सफल न हुआ। लोग पुरोचन से अधिक धृतराष्ट्र को दोषी मानते हैं। यदि धर्म और मेरा प्रेम प्रिय है तो उन्हें आधा दो।

भीष्म उवाच

222.1

न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन ।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्

na rocate vigraho me pāṇḍuputraiḥ kathaṃcana |
yathaiva dhṛtarāṣṭro me tathā pāṇḍurasaṃśayam

222.2

गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम ।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव

gāndhāryāśca yathā putrāstathā kuntīsutā mama |
yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava

222.3

यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।
तथा कुरूणां सर्वेषामन्येषामपि पार्थिव

yathā ca mama rājñaśca tathā duryodhanasya te |
tathā kurūṇāṃ sarveṣāmanyeṣāmapi pārthiva

222.4

एवं गते विग्रहं तैर्न रोचे
सन्धाय वीरैर्दीयतामर्धभूमिः ।
तेषामपीदं प्रपितामहानां
राज्यं पितुश्चैव कुरूत्तमानाम्

evaṃ gate vigrahaṃ tairna roce
sandhāya vīrairdīyatāmardhabhūmiḥ |
teṣāmapīdaṃ prapitāmahānāṃ
rājyaṃ pituścaiva kurūttamānām

222.5

दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि ।
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः

duryodhana yathā rjāyaṃ tvamidaṃ tāta paśyasi |
mama paitṛkamityevaṃ te'pi paśyanti pāṇḍavāḥ

222.6

यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः ।
कुत एव तवापीदं भारतस्यापि कस्यचित्

yadi rājyaṃ na te prāptāḥ pāṇḍaveyā yaśasvinaḥ |
kuta eva tavāpīdaṃ bhāratasyāpi kasyacit

222.7

अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ ।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः

adharmeṇa ca rājyaṃ tvaṃ prāptavānbharatarṣabha |
te'pi rājyamanuprāptāḥ pūrvameveti me matiḥ

222.8

मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च

madhureṇaiva rājyasya teṣāmardhaṃ pradīyatām |
etaddhi puruṣavyāghra hitaṃ sarvajanasya ca

222.9

अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति ।
तवाप्यकीर्तिः सकला भविष्यति न संशयः

ato'nyathā cetkriyate na hitaṃ no bhaviṣyati |
tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ

222.10

कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् ।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफळं स्मृतम्

kīrtirakṣaṇamātiṣṭha kīrtirhi paramaṃ balam |
naṣṭakīrtermanuṣyasya jīvitaṃ hyaphaḻaṃ smṛtam

222.11

यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव ।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति

yāvatkīrtirmanuṣyasya na praṇaśyati kaurava |
tāvajjīvati gāndhare naṣṭakīrtistu naśyati

222.12

तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् ।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु

tamimaṃ samupātiṣṭha dharmaṃ kurukulocitam |
anurūpaṃ mahābāho pūrveṣāmātmanaḥ kuru

222.13

दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा ।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः

diṣṭyā dhriyante pārthā hi diṣṭyā jīvati sā pṛthā |
diṣṭyā purocanaḥ pāpo na sakāmo'tyayaṃ gataḥ

222.14

यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः ।
तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्

yadāprabhṛti dagdhāste kuntibhojasutāsutāḥ |
tadāprabhṛti gāndhāre na śaknomyabhivīkṣitum

222.15

लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम् ।
न चापि दोषेण तथा लोको मन्येत्पुरोचनम् ।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति

loke prāṇabhṛtāṃ kiṃcicchrutvā kuntīṃ tathāgatām |
na cāpi doṣeṇa tathā loko manyetpurocanam |
yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati

222.16

तदिदं जीवितं तेषां तव किल्बिषनाशनम् ।
संमन्तव्यं महाराज पाण्डवानां च दर्शनम्

tadidaṃ jīvitaṃ teṣāṃ tava kilbiṣanāśanam |
saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam

222.17

न चापि तेषां वीराणां जीवतां कुरुनन्दन ।
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं

na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana |
pitryoṃśaḥ śakya ādātumapi vajrabhṛtā svayaṃ

222.18

ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः ।
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः

te sarve'vasthitā dharme sarve caivaikacetasaḥ |
adharmeṇa nirastāśca tulye rājye viśeṣataḥ

222.19

यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे ।
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्

yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me |
kṣemaṃ ca yadi kartavyaṃ teṣāmardhaṃ pradīyatām

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)