आदि पर्व

अध्याय 216: कुन्ती का आशीर्वाद, श्रीकृष्ण के उपहार

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥

19 श्लोक · 216 में से 261

इस अध्याय में क्या होता है

कुन्ती का आशीर्वाद, श्रीकृष्ण के उपहार

द्रुपद के घर की स्त्रियाँ अपना नाम बताकर कुन्ती के चरणों में सिर रखती हैं। रेशमी वस्त्र पहने, मंगलसूत्र बाँधे द्रौपदी सास को प्रणाम कर हाथ जोड़े खड़ी होती है। कुन्ती प्रेम से आशीर्वाद देती हैं कि जैसे इन्द्र की इन्द्राणी, अग्नि की स्वाहा, चन्द्र की रोहिणी, नल की दमयन्ती, कुबेर की भद्रा, वसिष्ठ की अरुन्धती और नारायण की लक्ष्मी, वैसी ही तुम पतियों की बनो। वीर पुत्रों की माता बनो, अतिथि, वृद्ध और गुरुओं का सत्कार करो, कुरुदेश में राजा के साथ अभिषिक्त हो, और पतियों द्वारा जीती पृथ्वी अश्वमेध में ब्राह्मणों को दो। फिर श्रीकृष्ण नवविवाहित पाण्डवों को रत्न, वस्त्र, शय्या, पात्र, सेवक, हाथी, घोड़े, रथ और करोड़ों स्वर्ण भेजते हैं, और युधिष्ठिर प्रसन्नता से स्वीकार करते हैं।

वैशंपायन उवाच

216.1

पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह ।
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन

pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya ha |
na babhūva bhayaṃ kiṃciddevebhyo'pi kathaṃcana

216.2

कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः ।
नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः

kuntīmāsādya tā nāryo drupadasya mahātmanaḥ |
nāma saṃkīrtayantyo'syā jagmuḥ pādau svamūrdhabhiḥ

216.3

कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला ।
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः

kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā |
kṛtābhivādanā śvaśrvāstasthau prahvā kṛtāñjaliḥ

216.4

रूपलक्षणसंपन्नां शीलाचारसमन्विताम् ।
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम्

rūpalakṣaṇasaṃpannāṃ śīlācārasamanvitām |
draupadīmavadatpremṇā pṛthāśīrvacanaṃ snuṣām

216.5

यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ ।
रोहिणी च यथा सोमे दमयन्ती यथा नले

yathendrāṇī harihaye svāhā caiva vibhāvasau |
rohiṇī ca yathā some damayantī yathā nale

216.6

यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती ।
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु

yathā vaiśravaṇe bhadrā vasiṣṭhe cāpyarundhatī |
yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu

216.7

जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता ।
सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता

jīvasūrvīrasūrbhadre bahusaukhyasamanvitā |
subhagā bhogasaṃpannā yajñapatnī pativratā

216.8

अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून् ।
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः

atithīnāgatānsādhūnvṛddānbālāṃstathā gurūn |
pūjayantyā yathānyāyaṃ śaśvadgacchantu te samāḥ

216.9

कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च ।
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला

kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca |
anu tvamabhiṣicyasva nṛpatiṃ dharmavatsalā

216.10

पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः ।
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ

patibhirnirjitāmurvīṃ vikrameṇa mahābalaiḥ |
kuru brāhmaṇasātsarvāmaśvamedhe mahākratau

216.11

पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते ।
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं

pṛthivyāṃ yāni ratnāni guṇavanti guṇānvite |
tānyāpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śataṃ

216.12

यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम् ।
तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्वितां

yathā ca tvā'bhinandāmi vadhvadya kṣaumasaṃvṛtām |
tathā bhūyo'bhinandiṣye jātaputrāṃ guṇānvitāṃ

216.13

ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः ।
वैदूर्यमणिचित्राणि हैमान्याभरणानि च

tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ |
vaidūryamaṇicitrāṇi haimānyābharaṇāni ca

216.14

वासांसि च महार्हाणि नानादेश्यानि माधवः ।
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च

vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ |
kambalājinaratnāni sparśavanti śubhāni ca

216.15

शयनासनयानानि विविधानि महान्ति च ।
वैदूर्यवज्रचित्राणि शतशो भाजनानि च

śayanāsanayānāni vividhāni mahānti ca |
vaidūryavajracitrāṇi śataśo bhājanāni ca

216.16

रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः ।
प्रेष्याः संप्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः

rūpayauvanadākṣiṇyairupetāśca svalaṅkṛtāḥ |
preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ svalaṅkṛtāḥ

216.17

गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् ।
रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान्

gajānvinītānbhadrāṃśca sadaśvāṃśca svalaṅkṛtān |
rathāṃśca dāntānsauvarṇaiḥ śubhraiḥ paṭṭairalaṅkṛtān

216.18

कोटिशश्च सुवर्णं च तेषामकृतकं तथा ।
वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः

koṭiśaśca suvarṇaṃ ca teṣāmakṛtakaṃ tathā |
vīthīkṛtamameyātmā prāhiṇonmadhusūdanaḥ

216.19

तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः ।
मुदा परमया युक्तो गोविन्दप्रियकाम्यया

tatsarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ |
mudā paramayā yukto govindapriyakāmyayā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)