आदि पर्व

अध्याय 209: द्रुपद ने उपहारों से परीक्षा ली

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि नवाधिकद्विशततमोऽध्यायः ॥

18 श्लोक · 209 में से 261

इस अध्याय में क्या होता है

द्रुपद ने उपहारों से परीक्षा ली

दूत द्रुपद के विवाह भोज की सूचना देता है और सोने के कमलों से सजे रथ लाता है। पाण्डव मंगलगीतों के बीच महल जाते हैं, कुन्ती और द्रौपदी एक रथ में। उनकी पहचान जानने को द्रुपद अनेक वस्तुएँ सजवाते हैं: फल, माला, गौएँ, खेती के लिए रस्सियाँ और बीज, हर शिल्प के उपकरण, खेल की वस्तुएँ, और कवच, तलवार, धनुष, बाण, भाले और फरसे। कुन्ती द्रौपदी को अन्तःपुर ले जाती हैं। मृगचर्म पहने भाई निःसंकोच ऊँचे आसनों पर बैठकर सोने चाँदी के पात्रों में भोजन करते हैं। फिर सारा धन छोड़कर सीधे शस्त्रों के पास जाते हैं। द्रुपद और उनके पुत्र जान जाते हैं कि ये राजकुमार हैं और हर्षित होते हैं।

दूत उवाच

209.1

जन्यार्थमन्नं द्रुपदेन राज्ञा
विवाहहेतोरुपसंस्कृतं च ।
तदाप्नुवध्वं कृतसर्वकार्याः
कृष्णा च तत्रैतु चिरं न कार्यम्

janyārthamannaṃ drupadena rājñā
vivāhahetorupasaṃskṛtaṃ ca |
tadāpnuvadhvaṃ kṛtasarvakāryāḥ
kṛṣṇā ca tatraitu ciraṃ na kāryam

209.2

इमे रथाः काञ्चनपद्मचित्राः
सदश्वयुक्ता वसुधाधिपार्हाः ।
एतान्समारुह्य परैत सर्वे
पाञ्चालराजस्य निवेशनं तत्

ime rathāḥ kāñcanapadmacitrāḥ
sadaśvayuktā vasudhādhipārhāḥ |
etānsamāruhya paraita sarve
pāñcālarājasya niveśanaṃ tat

वैशंपायन उवाच

209.3

ततः प्रयाताः कुरुपुंगवास्ते
पुरोहितं तं परियाप्य सर्वे ।
आस्थाय यानानि महान्ति तानि
कुन्ती च कृष्णा च सहैकयाने

tataḥ prayātāḥ kurupuṃgavāste
purohitaṃ taṃ pariyāpya sarve |
āsthāya yānāni mahānti tāni
kuntī ca kṛṣṇā ca sahaikayāne

209.4

स्त्रीभिः सुगन्धाम्बरमाल्यदानै-
र्विभूषिता आभरणैर्विचित्रैः ।
माङ्गल्यगीतध्वनिवाद्यघोषै-
र्मनोहरैः पुण्यकृतां वरिष्ठैः

strībhiḥ sugandhāmbaramālyadānai-
rvibhūṣitā ābharaṇairvicitraiḥ |
māṅgalyagītadhvanivādyaghoṣai-
rmanoharaiḥ puṇyakṛtāṃ variṣṭhaiḥ

209.5

संगीयमानाः प्रययुः प्रहृष्टा
दीपैर्ज्वलद्भिः सहिताश्च विप्रैः

saṃgīyamānāḥ prayayuḥ prahṛṣṭā
dīpairjvaladbhiḥ sahitāśca vipraiḥ

209.6

स वै तथोक्तस्तु युधिष्ठिरेण
पाञ्चालराजस्य पुरोहितोऽग्र्यः ।
सर्वं यथोक्तं कुरुनन्दनेन
निवेदयामास नृपाय गत्वा

sa vai tathoktastu yudhiṣṭhireṇa
pāñcālarājasya purohito'gryaḥ |
sarvaṃ yathoktaṃ kurunandanena
nivedayāmāsa nṛpāya gatvā

209.7

श्रुत्वा तु वाक्यानि पुरोहितस्य
यान्युक्तवान्भारत धर्मराजः ।
जिज्ञासयैवाथ कुरूत्तमानां
द्रव्याण्यनेकान्युपसंजहार

śrutvā tu vākyāni purohitasya
yānyuktavānbhārata dharmarājaḥ |
jijñāsayaivātha kurūttamānāṃ
dravyāṇyanekānyupasaṃjahāra

209.8

फलानि माल्यानि च संस्कृतानि
वर्माणि चर्माणि तथाऽऽसनानि ।
गाश्चैव राजन्नथ चैव रज्जू-
र्बीजानि चान्यानि कृषीनिमित्तम्

phalāni mālyāni ca saṃskṛtāni
varmāṇi carmāṇi tathā''sanāni |
gāścaiva rājannatha caiva rajjū-
rbījāni cānyāni kṛṣīnimittam

209.9

अन्येषु शिल्पेषु च यान्यपि स्युः
सर्वाणि कृत्यान्यखिलेन तत्र ।
क्रीडानिमित्तान्यपि यानि तत्र
सर्वाणि तत्रोपजहार राजा

anyeṣu śilpeṣu ca yānyapi syuḥ
sarvāṇi kṛtyānyakhilena tatra |
krīḍānimittānyapi yāni tatra
sarvāṇi tatropajahāra rājā

209.10

वर्माणि चर्माणि च भानुमन्ति
खड्गा महान्तोऽश्वरथाश्च चित्राः ।
धनूंषि चाग्र्याणि शराश्च चित्राः
शक्त्यृष्टयः काञ्चनभूषणाश्च

varmāṇi carmāṇi ca bhānumanti
khaḍgā mahānto'śvarathāśca citrāḥ |
dhanūṃṣi cāgryāṇi śarāśca citrāḥ
śaktyṛṣṭayaḥ kāñcanabhūṣaṇāśca

209.11

प्रासा भुशुण्ड्यश्च परश्वधाश्च
सांग्रामिकं चैव तथैव सर्वम् ।
शय्यासनान्युत्तमवस्तुवन्ति
तथैव वासो विविधं च तत्र

prāsā bhuśuṇḍyaśca paraśvadhāśca
sāṃgrāmikaṃ caiva tathaiva sarvam |
śayyāsanānyuttamavastuvanti
tathaiva vāso vividhaṃ ca tatra

209.12

कुन्ती तु कृष्णां परिगृह्य साध्वी-
मन्तःपुरं द्रुपदस्याविवेश ।
स्त्रियश्च तां कौरवराजपत्नीं
प्रत्यर्चयामासुरदीनसत्वाः

kuntī tu kṛṣṇāṃ parigṛhya sādhvī-
mantaḥpuraṃ drupadasyāviveśa |
striyaśca tāṃ kauravarājapatnīṃ
pratyarcayāmāsuradīnasatvāḥ

209.13

तान्सिंहविक्रान्तगतीन्निरीक्ष्य
महर्षभाक्षानजिनोत्तरीयान् ।
गूढोत्तरांसान्भुजगेन्द्रभोग-
प्रलम्बबाहून्पुरुषप्रवीरान्

tānsiṃhavikrāntagatīnnirīkṣya
maharṣabhākṣānajinottarīyān |
gūḍhottarāṃsānbhujagendrabhoga-
pralambabāhūnpuruṣapravīrān

209.14

राजा च राज्ञः सचिवाश्च सर्वे
पुत्राश्च राज्ञः सुहृदस्तथैव ।
प्रेष्याश्च सर्वे निखिलेन राज-
न्हर्षं समापेतुरतीव तत्र

rājā ca rājñaḥ sacivāśca sarve
putrāśca rājñaḥ suhṛdastathaiva |
preṣyāśca sarve nikhilena rāja-
nharṣaṃ samāpeturatīva tatra

209.15

ते तत्र वीराः परमासनेषु
सपादपीठेष्वविशङ्कमानाः ।
यथानुपूर्व्याद्विविशुर्नराग्र्या-
स्तथा महार्हेषु न विस्मयन्तः

te tatra vīrāḥ paramāsaneṣu
sapādapīṭheṣvaviśaṅkamānāḥ |
yathānupūrvyādviviśurnarāgryā-
stathā mahārheṣu na vismayantaḥ

209.16

उच्चावचं पार्थिवभोजनीयं
पात्रीषु जाम्बूनदराजतीषु ।
दासाश्च दास्यश्च सुमृष्टवेषाः
संभोजकाश्चाप्युपजह्रुरन्नम्

uccāvacaṃ pārthivabhojanīyaṃ
pātrīṣu jāmbūnadarājatīṣu |
dāsāśca dāsyaśca sumṛṣṭaveṣāḥ
saṃbhojakāścāpyupajahrurannam

209.17

ते तत्र भुक्त्वा पुरुषप्रवीरा
यथात्मकामं सुभृशं प्रतीताः ।
उत्क्रम्य सर्वाणि वसूनि राज-
न्सांग्रामिकं ते विविशुर्नृवीराः

te tatra bhuktvā puruṣapravīrā
yathātmakāmaṃ subhṛśaṃ pratītāḥ |
utkramya sarvāṇi vasūni rāja-
nsāṃgrāmikaṃ te viviśurnṛvīrāḥ

209.18

तल्लक्षयित्वा द्रुपदस्य पुत्रा
राजा च सर्वैः सह मन्त्रिमुख्यैः ।
समर्थयामासुरुपेत्य हृष्टाः
कुन्तीसुतान्पार्थिवराजपुत्रान्

tallakṣayitvā drupadasya putrā
rājā ca sarvaiḥ saha mantrimukhyaiḥ |
samarthayāmāsurupetya hṛṣṭāḥ
kuntīsutānpārthivarājaputrān

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)