उत्तर खण्ड — प्रेत काण्ड (धर्म काण्ड)

अध्याय 8: क्रिया का अधिकारी और अपना जीवित श्राद्ध

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्ण गरुडसंवादे श्राद्धकर्त्रात्मश्राद्धयोर्निरूपणं नामाष्टमोऽध्यायः ॥

33 श्लोक · 8 में से 49

इस अध्याय में क्या होता है

क्रिया का अधिकारी और अपना जीवित श्राद्ध

गरुड़ पूछते हैं कि मृत्यु के बाद की क्रिया का अधिकार किसका है। श्रीकृष्ण क्रम बताते हैं: पुत्र, पौत्र, प्रपौत्र, भाई और उसकी सन्तान, फिर सपिण्ड, फिर समानोदक; दोनों कुल नष्ट हों तो स्त्रियाँ करें, और कोई न हो तो राजा। श्रद्धा से किया श्राद्ध ब्रह्मा, इन्द्र, रुद्र, पितर और सब प्राणियों को तृप्त करता है, और वे करने वाले को सन्तान, पत्नी और धन देते हैं। यदि बाद में करने वाला कोई न हो तो मनुष्य जीते-जी अपना श्राद्ध कर सकता है। उपवास और स्नान करके वह विष्णु का पूजन करे, ब्राह्मणों को तीन जलधेनु दे और उन्हें भोजन कराए, फिर चतुर्दशी को नदी तट पर पचास कुशों का पुतला जलाए, यम और रुद्र को आहुति दे और दस पिण्ड अर्पित करे।

गरुड उवाच

8.1

स्वामिन्कस्याधिकारोऽत्र सर्व एवौर्ध्वदेहिके ।
क्रियाः कतिविधाः प्रोक्ता वदैतत्सर्वमेव मे

svāminkasyādhikāro'tra sarva evaurdhvadehike |
kriyāḥ katividhāḥ proktā vadaitatsarvameva me

श्रीकृष्ण उवाच

8.2

पुत्रः पौत्रः प्रपौत्रो वा तद्भ्राता भ्रातृसन्ततिः ।
सपिण्डसन्ततिर्वापि क्रियार्हाः खग ज्ञातयः

putraḥ pautraḥ prapautro vā tadbhrātā bhrātṛsantatiḥ |
sapiṇḍasantatirvāpi kriyārhāḥ khaga jñātayaḥ

8.3

तेषामभावे सर्वेषां समानोदकसन्ततिः ।
कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रियाः खग

teṣāmabhāve sarveṣāṃ samānodakasantatiḥ |
kuladvaye'pi cocchinne strībhiḥ kāryāḥ kriyāḥ khaga

8.4

इच्छयोच्छिन्नबन्धश्च कारयेदवनीपतिः ।
पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः

icchayocchinnabandhaśca kārayedavanīpatiḥ |
pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ

8.5

प्रतिसंवत्सरं पक्षिन्नेकोद्दिष्टविधानतः ।
श्राद्धं तत्र प्रकर्तव्यं फलं तस्य शृणुष्व मे

pratisaṃvatsaraṃ pakṣinnekoddiṣṭavidhānataḥ |
śrāddhaṃ tatra prakartavyaṃ phalaṃ tasya śṛṇuṣva me

8.6

ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् ।
विश्वेदेवान्पितृ गणान्वयांसि मनुजान्पशून्

brahmendrarudranāsatyasūryāgnivasumārutān |
viśvedevānpitṛ gaṇānvayāṃsi manujānpaśūn

8.7

सरीसृपान्मातृगणान्यच्चान्यद्भूतसंज्ञितम् ।
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत्

sarīsṛpānmātṛgaṇānyaccānyadbhūtasaṃjñitam |
śrāddhaṃ śraddhānvitaḥ kurvanprīṇayatyakhilaṃ jagat

8.8

ते तृप्तास्तर्पयन्त्येनं पुत्रदारधनैस्तथा ।
अधिकारः क्रियाभेदः समासात्ते निरूपितः

te tṛptāstarpayantyenaṃ putradāradhanaistathā |
adhikāraḥ kriyābhedaḥ samāsātte nirūpitaḥ

गरुड उवाच

8.9

उक्तेष्वेकोऽपि चेन्न स्यादधिकारी सुरोत्तम ।
कर्तव्यं किं तदा विष्णो पुरुषेण विजानता

ukteṣveko'pi cenna syādadhikārī surottama |
kartavyaṃ kiṃ tadā viṣṇo puruṣeṇa vijānatā

श्रीकृष्ण उवाच

8.10

अधिकारो यदा नास्ति यदि नास्ति च निश्चयः ।
जीविते सति जीवाय दद्याच्छ्राद्धंस्वयं नरः

adhikāro yadā nāsti yadi nāsti ca niścayaḥ |
jīvite sati jīvāya dadyācchrāddhaṃsvayaṃ naraḥ

8.11

कृतोपवासः सुस्नातः कृष्णासङ्गः समाहितः ।
कर्तारमथ भोक्तारं विष्णुं सर्वेश्वरं यजेत्

kṛtopavāsaḥ susnātaḥ kṛṣṇāsaṅgaḥ samāhitaḥ |
kartāramatha bhoktāraṃ viṣṇuṃ sarveśvaraṃ yajet

8.12

सदक्षिणाश्च सतिलास्तिस्त्रश्च जलधेनवः ।
निवेदयेत्पितृभ्यश्च स्वधेति सुसमाहितः

sadakṣiṇāśca satilāstistraśca jaladhenavaḥ |
nivedayetpitṛbhyaśca svadheti susamāhitaḥ

8.13

अग्नये कव्यवाहनाय स्वधा नम इति स्मरन् ।
सोमायत्वा पितृमते स्वधा नम इति स्मरन्

agnaye kavyavāhanāya svadhā nama iti smaran |
somāyatvā pitṛmate svadhā nama iti smaran

8.14

दक्षिणेन तु दद्याच्च तृतीयां दक्षिणायुताम् ।
यमायाङ्गिरसे चाथ स्वधा नम इति स्मरन्

dakṣiṇena tu dadyācca tṛtīyāṃ dakṣiṇāyutām |
yamāyāṅgirase cātha svadhā nama iti smaran

8.15

तयोर्मध्ये तु निः क्षिप्य विप्रान्संमन्त्र्य भो जयेत् ।
प्रथमामुत्तरे न्यस्य द्वितीयां दक्षिणे न्यसेत्

tayormadhye tu niḥ kṣipya viprānsaṃmantrya bho jayet |
prathamāmuttare nyasya dvitīyāṃ dakṣiṇe nyaset

8.16

मध्ये तृतीयां विन्यस्य पश्चादावाहनादिकम् ।
आवाहनादिना पूर्वं विश्वेदेवान्प्रपूज्यच

madhye tṛtīyāṃ vinyasya paścādāvāhanādikam |
āvāhanādinā pūrvaṃ viśvedevānprapūjyaca

8.17

वसुभ्यस्त्वामहं विप्र रुद्रेभ्यस्त्वामहं ततः ।
सूर्येभ्यस्त्वामहं विप्र भोजयामीति तान्वदेत्

vasubhyastvāmahaṃ vipra rudrebhyastvāmahaṃ tataḥ |
sūryebhyastvāmahaṃ vipra bhojayāmīti tānvadet

8.18

आवाहनादिकं शेषं कुर्याच्च पितृशेषवत् ।
साम्यां धेनुं ततो दद्याद्वसूद्देशं द्विजाय तु

āvāhanādikaṃ śeṣaṃ kuryācca pitṛśeṣavat |
sāmyāṃ dhenuṃ tato dadyādvasūddeśaṃ dvijāya tu

8.19

आग्नेय्यां चाथ रौद्राय याम्यां सूर्यद्विजाय तु ।
विश्वेभ्यश्चाथ देवेभ्यस्तिलपात्रं निवेदयेत्

āgneyyāṃ cātha raudrāya yāmyāṃ sūryadvijāya tu |
viśvebhyaścātha devebhyastilapātraṃ nivedayet

8.20

स्वस्तीत्येव तथाक्षय्यं जलं दत्त्वाथ तान्द्विजान् ।
विसर्जयेत्स्मरन्विष्णुं देवमष्टाक्षरं विभुम्

svastītyeva tathākṣayyaṃ jalaṃ dattvātha tāndvijān |
visarjayetsmaranviṣṇuṃ devamaṣṭākṣaraṃ vibhum

8.21

ततः कामं कुलेशानीं शिवं नारायणं स्मरेत् ।
चतुर्दश्यां ततो गच्छेद्यथाप्राप्तां सरिद्वराम्

tataḥ kāmaṃ kuleśānīṃ śivaṃ nārāyaṇaṃ smaret |
caturdaśyāṃ tato gacchedyathāprāptāṃ saridvarām

8.22

वस्त्राणि लोहखण्डानि जितं त इति संजपन् ।
दक्षिणाभिमुखो वह्निं ज्वालयेत्तत्र च स्वयम्

vastrāṇi lohakhaṇḍāni jitaṃ ta iti saṃjapan |
dakṣiṇābhimukho vahniṃ jvālayettatra ca svayam

8.23

पञ्चाशता कुशैर्ब्राह्मीं कृत्वा प्रतिकृतिं दहेत् ।
हुत्वा श्माशानिकं होमं पूर्णाहुत्यन्तमेव हि

pañcāśatā kuśairbrāhmīṃ kṛtvā pratikṛtiṃ dahet |
hutvā śmāśānikaṃ homaṃ pūrṇāhutyantameva hi

8.24

निरग्रिमथ वा भूमिं यमं रुद्रञ्च संस्मरेत् ।
हुत्वा प्राधानिके स्थाने पश्चादावाहयेच्च तम्

niragrimatha vā bhūmiṃ yamaṃ rudrañca saṃsmaret |
hutvā prādhānike sthāne paścādāvāhayecca tam

8.25

श्रपयेच्चापरं वह्नौ मुद्गमिश्रं चरुं ततः ।
तिलतण्डुलमिश्रञ्च द्वितीयं सपवित्रकम्

śrapayeccāparaṃ vahnau mudgamiśraṃ caruṃ tataḥ |
tilataṇḍulamiśrañca dvitīyaṃ sapavitrakam

8.26

ओं पृथिव्यै नमस्तुभ्यमिति चैकं निवेदयेत् ।
ओं यमाय नमश्चेति द्वितीयं तदनन्तरम्

oṃ pṛthivyai namastubhyamiti caikaṃ nivedayet |
oṃ yamāya namaśceti dvitīyaṃ tadanantaram

8.27

ओं नमश्चाथ रुद्राय श्माशानपतये नमः ।
ततो दीप्ते समिद्धेऽग्नौ भूमौ प्रकृतिदारुणे

oṃ namaścātha rudrāya śmāśānapataye namaḥ |
tato dīpte samiddhe'gnau bhūmau prakṛtidāruṇe

8.28

सप्तभ्यो यमसंज्ञेभ्यो दद्यात्सप्त जलाञ्जलीन् ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च

saptabhyo yamasaṃjñebhyo dadyātsapta jalāñjalīn |
yamāya dharmarājāya mṛtyave cāntakāya ca

8.29

वैवस्वताय कालाय सर्वप्राणहराय च ।
स्वधाकारनमस्कारप्रणवैः सह सप्तधा

vaivasvatāya kālāya sarvaprāṇaharāya ca |
svadhākāranamaskārapraṇavaiḥ saha saptadhā

8.30

अमुकामुकगौत्रैतत्तुभ्यमस्तु तिलोदकम् ।
प्रदद्याद्दश पिण्डांस्तु अर्घपुष्पसमन्वितान्

amukāmukagautraitattubhyamastu tilodakam |
pradadyāddaśa piṇḍāṃstu arghapuṣpasamanvitān

8.31

धूपो दीपो बलिर्गन्धः सर्वेषामस्तु चाक्षयः ।
दश पिण्डांस्तु दान्दत्त्वा विष्णोः सौम्यं मुखं स्मरेत्

dhūpo dīpo balirgandhaḥ sarveṣāmastu cākṣayaḥ |
daśa piṇḍāṃstu dāndattvā viṣṇoḥ saumyaṃ mukhaṃ smaret

8.32

कुर्याच्च मासिकं मासि सपिण्डीकरणं ततः ।
आशौचान्ते ततः कुर्यादात्मनो वा मरस्य तु

kuryācca māsikaṃ māsi sapiṇḍīkaraṇaṃ tataḥ |
āśaucānte tataḥ kuryādātmano vā marasya tu

8.33

कुर्यादस्थिरतां ज्ञात्वा शक्त्यारोग्यधनायुषम् ।
एतत्ते सर्वमाख्यातं जीवच्छ्राद्धं मया खग

kuryādasthiratāṃ jñātvā śaktyārogyadhanāyuṣam |
etatte sarvamākhyātaṃ jīvacchrāddhaṃ mayā khaga

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)