उत्तर खण्ड — प्रेत काण्ड (धर्म काण्ड)

अध्याय 17: हर कर्म सुनने वाले श्रवण

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रवणमहात्म्यनिरूपणं नाम सप्तदशोऽध्यायः ॥

26 श्लोक · 17 में से 49

इस अध्याय में क्या होता है

हर कर्म सुनने वाले श्रवण

गरुड़ पूछते हैं कि श्रवण कौन हैं और मनुष्यों के कर्म कैसे जानते हैं। श्रीकृष्ण सृष्टि की कथा कहते हैं: जब वे क्षीरसागर में सोए थे, उनकी नाभि के कमल पर ब्रह्मा ने तप करके लोक रचे, फिर चित्रगुप्त के साथ धर्मराज को। जब देवता न जान सके कि संसार के कर्मों की सूचना कैसे मिलेगी, तब ब्रह्मा ने फूल और पत्ते लेकर बारह तेजस्वी पुत्र उत्पन्न किए। वे दूर से सुनते और दूर से देखते हैं, इसलिए श्रवण कहलाते हैं, और आकाश में रहकर धर्मराज को मनुष्य का हर कर्म बताते हैं। धर्मात्मा धर्ममार्ग से जाते हैं, दाता विमानों में, मोक्ष चाहने वाले हंसों वाले विमान में; बाकी असिपत्रवन से पैदल चलते हैं। जो जलपूर्ण पात्र और पक्वान्न से श्रवणों का पूजन करे, वह भगवान की कृपा पाता है।

गरुड उवाच

17.1

एको मे संशयो देव हृदये सम्प्रबाधते ।
श्रमणाः कस्य पुत्राश्च कथं यमपुरे स्थिताः

eko me saṃśayo deva hṛdaye samprabādhate |
śramaṇāḥ kasya putrāśca kathaṃ yamapure sthitāḥ

17.2

मानुषैश्च कृतं कर्म कस्माज्जानन्ति ते प्रभो ।
कथं शृण्वन्ति ते सर्वे कस्माज्ज्ञानं समागतम्

mānuṣaiśca kṛtaṃ karma kasmājjānanti te prabho |
kathaṃ śṛṇvanti te sarve kasmājjñānaṃ samāgatam

17.3

कुत्र भुञ्जन्ति देवेश क्रथयस्व प्रसादतः ।
पक्षिराजवचः श्रुत्वा भगवान्वाक्यमब्रवीत्

kutra bhuñjanti deveśa krathayasva prasādataḥ |
pakṣirājavacaḥ śrutvā bhagavānvākyamabravīt

श्रीकृष्ण उवाच

17.4

शृणुष्व वचनं सत्यं सर्वेषां सौख्यदायकम् ।
तदहं कथयिष्यामि श्रवणानां विचेष्टितम्

śṛṇuṣva vacanaṃ satyaṃ sarveṣāṃ saukhyadāyakam |
tadahaṃ kathayiṣyāmi śravaṇānāṃ viceṣṭitam

17.5

एकीभूतं यदा सर्वं जगत्स्थावरजङ्गमम् ।
क्षीरोदसागरे पूर्वं मयि सुप्ते जगत्पतौ

ekībhūtaṃ yadā sarvaṃ jagatsthāvarajaṅgamam |
kṣīrodasāgare pūrvaṃ mayi supte jagatpatau

17.6

नाभिस्थोजस्तपस्तेपे वर्षाणि सुबहून्यपि ।
एकीभूतं जगत्सृष्टं भूतग्रामचतुर्विधम्

nābhisthojastapastepe varṣāṇi subahūnyapi |
ekībhūtaṃ jagatsṛṣṭaṃ bhūtagrāmacaturvidham

17.7

ब्रह्मणा निर्मितं पूर्वं विष्णुना पालितं तदा ।
रुद्रः संहारमूर्तिश्च निर्मितो ब्रह्मणा ततः

brahmaṇā nirmitaṃ pūrvaṃ viṣṇunā pālitaṃ tadā |
rudraḥ saṃhāramūrtiśca nirmito brahmaṇā tataḥ

17.8

वायुः सर्वगतः सृष्टः सूर्यस्तेजोभिवृद्धिमान् ।
धर्मराजस्ततः सृष्टश्चित्रगुप्तेन संयुत)

vāyuḥ sarvagataḥ sṛṣṭaḥ sūryastejobhivṛddhimān |
dharmarājastataḥ sṛṣṭaścitraguptena saṃyuta)

17.9

सृष्ट्वैतदादिकं सर्वं तपस्तेपे तु पद्मजः ।
गतानि बहुवर्षाणि ब्रह्मणो नाभिपङ्कजे

sṛṣṭvaitadādikaṃ sarvaṃ tapastepe tu padmajaḥ |
gatāni bahuvarṣāṇi brahmaṇo nābhipaṅkaje

17.10

योयो हि निर्मितः पूर्वं तत्तत्कर्म समाचरेत् ।
कस्मिंश्चित्समये तत्र ब्रह्मा लोकसमन्वितः

yoyo hi nirmitaḥ pūrvaṃ tattatkarma samācaret |
kasmiṃścitsamaye tatra brahmā lokasamanvitaḥ

17.11

रुद्रो विष्णुस्तथा धर्मः शासयन्ति वसुन्धराम् ।
न जानीमो वयं किञ्चिल्लोककृत्यमिहोच्यताम्

rudro viṣṇustathā dharmaḥ śāsayanti vasundharām |
na jānīmo vayaṃ kiñcillokakṛtyamihocyatām

17.12

इति चिन्तापराः सर्वे देवा विममृशुस्तदा ।
संचिन्त्य ब्रह्मणो मन्त्रं विबुधैः प्रेरितस्तदा

iti cintāparāḥ sarve devā vimamṛśustadā |
saṃcintya brahmaṇo mantraṃ vibudhaiḥ preritastadā

17.13

गृहीत्वा पुष्पपत्राणि सोसृजद्द्वादशात्मजान् ।
तेजोराशीन्विशालाक्षान्ब्रह्मणो वचनात्तु ते

gṛhītvā puṣpapatrāṇi sosṛjaddvādaśātmajān |
tejorāśīnviśālākṣānbrahmaṇo vacanāttu te

17.14

योयं वदति लोकेस्मिञ्छुभं वा यदि वाशुभम् ।
प्रापयन्ति ततः शीघ्रं ब्रह्मणः कर्णगोचरम्

yoyaṃ vadati lokesmiñchubhaṃ vā yadi vāśubham |
prāpayanti tataḥ śīghraṃ brahmaṇaḥ karṇagocaram

17.15

दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम् ।
सर्वे शृण्वन्ति यत्पक्षिंस्तेनैव श्रवणा मताः

dūrācchravaṇavijñānaṃ dūrāddarśanagocaram |
sarve śṛṇvanti yatpakṣiṃstenaiva śravaṇā matāḥ

17.16

स्थित्वा चैव तथाकाशे जन्तूनां चेष्टितं च यत् ।
तज्ज्ञात्वा धर्मराजाग्रे मृत्युकाले वदन्ति च

sthitvā caiva tathākāśe jantūnāṃ ceṣṭitaṃ ca yat |
tajjñātvā dharmarājāgre mṛtyukāle vadanti ca

17.17

धर्मं चार्थं च कामं च मोक्षं च कथयन्ति ते ।
एको हि धर्ममार्गश्च द्वितीयश्चार्थमार्गकः

dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca kathayanti te |
eko hi dharmamārgaśca dvitīyaścārthamārgakaḥ

17.18

अपरः काममार्गश्च मोक्षमार्गश्चतुर्थकः ।
उत्तमा धममार्गेण वैनतेय प्रयान्ति हि

aparaḥ kāmamārgaśca mokṣamārgaścaturthakaḥ |
uttamā dhamamārgeṇa vainateya prayānti hi

17.19

अर्थदाता विमानैस्तु अश्वैः कामप्रदायकः ।
हंसयुक्तविमानैश्च मोक्षाकाङ्क्षी विसर्पति

arthadātā vimānaistu aśvaiḥ kāmapradāyakaḥ |
haṃsayuktavimānaiśca mokṣākāṅkṣī visarpati

17.20

इतरः पादचारेण त्वसिपत्रवनानि च ।
पाषाणैः कण्टकैः क्लिष्टः पाशबद्धोऽथ याति वै

itaraḥ pādacāreṇa tvasipatravanāni ca |
pāṣāṇaiḥ kaṇṭakaiḥ kliṣṭaḥ pāśabaddho'tha yāti vai

17.21

यः कश्चिन्मानुषे लोके श्रवणान्पूजयेदिह ।
वर्धन्या जलपात्रेम पक्वान्नपरिपूर्णया

yaḥ kaścinmānuṣe loke śravaṇānpūjayediha |
vardhanyā jalapātrema pakvānnaparipūrṇayā

17.22

श्रवणान्पूजयेत्तत्र मया सह खगेश्वर ।
तस्याहं तत्प्रदास्यामि यत्सुरैरपि दुर्लभम्

śravaṇānpūjayettatra mayā saha khageśvara |
tasyāhaṃ tatpradāsyāmi yatsurairapi durlabham

17.23

संभोज्य ब्राह्मणान् भक्त्या त्वेकादश शुभाञ्छुचीन् ।
द्वादशं सकलत्रं च मम प्रीत्यै प्रपूजयेत्

saṃbhojya brāhmaṇān bhaktyā tvekādaśa śubhāñchucīn |
dvādaśaṃ sakalatraṃ ca mama prītyai prapūjayet

17.24

देवैः सर्वैश्च संपूज्य स्वर्गं यान्ति सुखेप्सया ।
तैः पूजितैरह तुष्टश्चित्रगुप्तेन धर्मराट्

devaiḥ sarvaiśca saṃpūjya svargaṃ yānti sukhepsayā |
taiḥ pūjitairaha tuṣṭaścitraguptena dharmarāṭ

17.25

तैस्तुष्टैर्मत्पुरं यान्ति लोका धर्मपारायणाः ।
श्रवणानां च माहात्म्यमुत्पत्तिं चेष्टितं शुभम्

taistuṣṭairmatpuraṃ yānti lokā dharmapārāyaṇāḥ |
śravaṇānāṃ ca māhātmyamutpattiṃ ceṣṭitaṃ śubham

17.26

शृणोति पक्षिशार्दूल स च पापैर्न लिप्यते ।
इह लोके सुखं भुक्त्वा स्वर्गलोके महीयते

śṛṇoti pakṣiśārdūla sa ca pāpairna lipyate |
iha loke sukhaṃ bhuktvā svargaloke mahīyate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)