कालिन्द्या अपि चोत्पत्तिं प्रवक्ष्यामि खगेश्वर ।
विवस्वान्नाम सूर्योभत्तस्य पुत्री व्यजायत
kālindyā api cotpattiṃ pravakṣyāmi khageśvara |
vivasvānnāma sūryobhattasya putrī vyajāyata
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भगवतः कालिन्द्या विवाहे हेतुनिरूपणं नामैकविंशोऽध्यायः ॥
33 श्लोक · 21 में से 29
विवस्वान की पुत्री और यम की बहन कालिन्दी ने श्रीकृष्ण की पत्नी बनने के लिए तप किया। श्रीकृष्ण बताते हैं कि तप तत्त्वों का विचार और पूर्व पापों पर अनुताप है, केवल मुण्डन नहीं। फिर कालिन्दी का लम्बा अनुताप आता है: उन्होंने न दिव्य मन्त्र जपा, न उनका प्रसाद खाया, सब कुछ पुत्रों और मित्रों पर लुटाया, और अब केवल उनका मुख देखना चाहती हैं। फिर वे विचार करती हैं कि सब गुणों में पूर्ण केवल हरि हैं। अर्जुन के साथ यमुना तट पर आखेट करते हुए श्रीकृष्ण उन्हें तप करते देखते हैं और उनसे विवाह करते हैं। वे कहते हैं कि यह विवाह उन पर कृपा के लिए था, अपने सुख के लिए नहीं।
श्रीकृष्ण उवाच
कालिन्द्या अपि चोत्पत्तिं प्रवक्ष्यामि खगेश्वर ।
विवस्वान्नाम सूर्योभत्तस्य पुत्री व्यजायत
kālindyā api cotpattiṃ pravakṣyāmi khageśvara |
vivasvānnāma sūryobhattasya putrī vyajāyata
कालिन्दीसंज्ञका वीन्द्र यमुना यानुजा स्मृता ।
कृष्णपत्नीत्वकामेन चचार तप उत्तमम्
kālindīsaṃjñakā vīndra yamunā yānujā smṛtā |
kṛṣṇapatnītvakāmena cacāra tapa uttamam
तप आलोचनं प्रोक्तं तत्त्वानां च विनिर्णयः ।
पूर्वार्जितानां पापानामनुतापस्तपः स्मृतम्
tapa ālocanaṃ proktaṃ tattvānāṃ ca vinirṇayaḥ |
pūrvārjitānāṃ pāpānāmanutāpastapaḥ smṛtam
प्रायो नाम तपः प्रोक्तं चित्तनिग्रह उच्यते ।
प्रायश्चित्तमिति प्रोक्तं न तु क्षौरं खगेश्वर
prāyo nāma tapaḥ proktaṃ cittanigraha ucyate |
prāyaścittamiti proktaṃ na tu kṣauraṃ khageśvara
अनुतापयुतं भूतं तच्छणु त्वं खगेश्वर ।
पूर्वं न जप्तं दिव्यमन्त्रं मुकुन्द तप्तं सदा क्लेशदावानलेन
anutāpayutaṃ bhūtaṃ tacchaṇu tvaṃ khageśvara |
pūrvaṃ na japtaṃ divyamantraṃ mukunda taptaṃ sadā kleśadāvānalena
न वै स्मृतं हरिनामामृतं च सदा स्मृतं हरिदोषादिकं च ।
न तु स्मृतं हरितत्त्वामृतं च सम्यक्श्रुतं लोलवार्तादिकं च
na vai smṛtaṃ harināmāmṛtaṃ ca sadā smṛtaṃ haridoṣādikaṃ ca |
na tu smṛtaṃ haritattvāmṛtaṃ ca samyakśrutaṃ lolavārtādikaṃ ca
न पूजितं हरिपादारविन्दं सुपूजिताः पुत्रमित्रादिकाश्च ।
न वन्दितं हरिपादारविन्दं सुवन्दितो मित्रपादः सुघोरः
na pūjitaṃ haripādāravindaṃ supūjitāḥ putramitrādikāśca |
na vanditaṃ haripādāravindaṃ suvandito mitrapādaḥ sughoraḥ
न दृष्टं वै धूपधूम्रैरुपेतं हरेर्वक्रं कुन्तलैः संवृतं च ।
पुत्रादिकं लालितं वै मुकुन्द न लालितं तव वक्रं मुरारे
na dṛṣṭaṃ vai dhūpadhūmrairupetaṃ harervakraṃ kuntalaiḥ saṃvṛtaṃ ca |
putrādikaṃ lālitaṃ vai mukunda na lālitaṃ tava vakraṃ murāre
सुलालितं भूषणैः पुत्रमित्रं न लालितं सर्वपापापहारि ।
न भुक्तं वै हरिनैरवेद्यशेषं मित्रालये षड्रसान्नं च भुक्तम्
sulālitaṃ bhūṣaṇaiḥ putramitraṃ na lālitaṃ sarvapāpāpahāri |
na bhuktaṃ vai harinairavedyaśeṣaṃ mitrālaye ṣaḍrasānnaṃ ca bhuktam
सुपुष्पगन्धा नार्पिता ते मुरारे समर्पिताः पुत्रमित्रादिकेभ्यः ।
सन्तप्तोहं पुत्रमित्रादिकेषु कदा द्रक्ष्ये तव वक्त्रं मुकुन्द
supuṣpagandhā nārpitā te murāre samarpitāḥ putramitrādikebhyaḥ |
santaptohaṃ putramitrādikeṣu kadā drakṣye tava vaktraṃ mukunda
अवैष्णवान्नैः शिग्रुशाकादिकैश्च ह्यनर्पितान्नैश्च तथाप्यसंस्कृतैः ।
तथाप्यभक्ष्यै रसना च दग्धा कदा द्रक्ष्ये तव वक्त्रं मुकुन्द
avaiṣṇavānnaiḥ śigruśākādikaiśca hyanarpitānnaiśca tathāpyasaṃskṛtaiḥ |
tathāpyabhakṣyai rasanā ca dagdhā kadā drakṣye tava vaktraṃ mukunda
अष्टाक्षरीपूजया दिव्यतीर्थैर्विष्णोः पुरा भ्रामितैः शङ्खतीर्थैः ।
न पावितं मच्छरीरं मुरारे कदा द्रक्ष्ये तव व क्त्रं मुकुन्द
aṣṭākṣarīpūjayā divyatīrthairviṣṇoḥ purā bhrāmitaiḥ śaṅkhatīrthaiḥ |
na pāvitaṃ maccharīraṃ murāre kadā drakṣye tava va ktraṃ mukunda
अनर्पितैर्गन्धपुष्पादिकैश्च अनर्पितैर्भूषणैर्वस्त्रजातैः ।
अवैष्णवानां दिग्धगन्धादिदोषैर्गात्रं दग्धं कदा ह्युद्धरिष्ये मुकुन्द
anarpitairgandhapuṣpādikaiśca anarpitairbhūṣaṇairvastrajātaiḥ |
avaiṣṇavānāṃ digdhagandhādidoṣairgātraṃ dagdhaṃ kadā hyuddhariṣye mukunda
दग्धौ च पादौ मम वासुदेव न गच्छन्तौ क्षेत्रपथं हरेश्च ।
नेत्रे च दग्धे मम सर्वदापि नालोकितं तव देव प्रतीकम्
dagdhau ca pādau mama vāsudeva na gacchantau kṣetrapathaṃ hareśca |
netre ca dagdhe mama sarvadāpi nālokitaṃ tava deva pratīkam
दग्धौ च हस्तौ मम वासुदेव न पूजितं तव विष्णोः प्रतीकम् ।
मया कृतं पापजातं मुरारे कदा द्रक्ष्ये तव वक्रं मुकुन्द
dagdhau ca hastau mama vāsudeva na pūjitaṃ tava viṣṇoḥ pratīkam |
mayā kṛtaṃ pāpajātaṃ murāre kadā drakṣye tava vakraṃ mukunda
मदीयदोषान्गणयन्न पूर्ण दयां कुरु त्वं सुद्धदास्यान्मुकुन्द ।
यावन्ति लोमानि मदीयगात्रे संति प्रभो सर्वदोर्षर्विदूर
madīyadoṣāngaṇayanna pūrṇa dayāṃ kuru tvaṃ suddhadāsyānmukunda |
yāvanti lomāni madīyagātre saṃti prabho sarvadorṣarvidūra
तावन्ति पापानि मदीयगात्रे कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ।
अनन्तदेहे पतिपुत्रैर्गृहैश्च मित्रैर्धनैः पशुभृत्यादिकैश्च
tāvanti pāpāni madīyagātre kadā drakṣye tava vaktraṃ mukunda |
anantadehe patiputrairgṛhaiśca mitrairdhanaiḥ paśubhṛtyādikaiśca
सुखं नाप्तं ह्यपुमात्रं मुकुन्द सेवा मुक्ता तव देवस्य विष्णोः ।
इतः परं पुत्रमित्रादिकं च यास्ये नाहं तव दासी भवामि
sukhaṃ nāptaṃ hyapumātraṃ mukunda sevā muktā tava devasya viṣṇoḥ |
itaḥ paraṃ putramitrādikaṃ ca yāsye nāhaṃ tava dāsī bhavāmi
येये ब्रूयुः पुत्रमित्रादिकैश्च सम्यक्सुखं जायते मर्त्यलोके ।
तेषामास्ये मूत्रविष्ठादिकं च सम्यक्सदा पतितं चेति जाने
yeye brūyuḥ putramitrādikaiśca samyaksukhaṃ jāyate martyaloke |
teṣāmāsye mūtraviṣṭhādikaṃ ca samyaksadā patitaṃ ceti jāne
मित्रादीनां यत्कृतं द्रव्यजातं वृथा गतं मलरूपं च जातम् ।
सद्वैष्णवानां यत्कृतं द्रव्यजातं हरिप्राप्तेः कारणं स्यात्सदैव
mitrādīnāṃ yatkṛtaṃ dravyajātaṃ vṛthā gataṃ malarūpaṃ ca jātam |
sadvaiṣṇavānāṃ yatkṛtaṃ dravyajātaṃ hariprāpteḥ kāraṇaṃ syātsadaiva
एतादृशं तत्तु जातं मुकुन्द अलं ह्यलं तेन दुःखं च भुक्तम् ।
संगं दत्तात्सज्जनानां सदा त्वं विना च त्वं दुर्जनानां च संगात्
etādṛśaṃ tattu jātaṃ mukunda alaṃ hyalaṃ tena duḥkhaṃ ca bhuktam |
saṃgaṃ dattātsajjanānāṃ sadā tvaṃ vinā ca tvaṃ durjanānāṃ ca saṃgāt
संगैः सदा दुर्जनानां मुरारे गात्रं दग्धं न विरागेण युक्तम् ।
एतादृशाहं कां गातिं वा मुकुन्द यास्ये न जाने दयया मां च पाहि
saṃgaiḥ sadā durjanānāṃ murāre gātraṃ dagdhaṃ na virāgeṇa yuktam |
etādṛśāhaṃ kāṃ gātiṃ vā mukunda yāsye na jāne dayayā māṃ ca pāhi
एतादृशो ह्यनुतापः खगेन्द्र प्रायश्चित्तं न च क्षौरादिकं च ।
भानोः कन्या ह्यनुतापं च कृत्वा विचारयामास हरेः सुतत्त्वम्
etādṛśo hyanutāpaḥ khagendra prāyaścittaṃ na ca kṣaurādikaṃ ca |
bhānoḥ kanyā hyanutāpaṃ ca kṛtvā vicārayāmāsa hareḥ sutattvam
सर्वोत्तमो हरिरेकः सदैव यतः पूर्णः सर्वगुणैस्ततश्च ।
सृष्टौ यस्माज्जयते विश्वजातमतो हरिः सर्वगुणैश्च पूर्णः
sarvottamo harirekaḥ sadaiva yataḥ pūrṇaḥ sarvaguṇaistataśca |
sṛṣṭau yasmājjayate viśvajātamato hariḥ sarvaguṇaiśca pūrṇaḥ
यो देवानामाद्य अकार एव यतो ब्रह्माद्या नैव पूर्णाः समस्ताः ।
लक्ष्मीप्रसादाच्चिरपुण्येन जातो यथायोग्यं पूर्णगुणो विरिञ्चः
yo devānāmādya akāra eva yato brahmādyā naiva pūrṇāḥ samastāḥ |
lakṣmīprasādāccirapuṇyena jāto yathāyogyaṃ pūrṇaguṇo viriñcaḥ
न लक्ष्मीवद्गुणपूर्णो विरिञ्चो न विष्णुवद्गुणपूर्णा रमापि ।
न वायुवद्भारती चापि पूर्णा न शेषवद्वारुणी चापि पूर्णा
na lakṣmīvadguṇapūrṇo viriñco na viṣṇuvadguṇapūrṇā ramāpi |
na vāyuvadbhāratī cāpi pūrṇā na śeṣavadvāruṇī cāpi pūrṇā
न वै रुद्रवत्पार्वती पूर्णरूपा ह्यन्येप्येवं नैव पूर्णाः सदैव ।
आलोचनामेवमेषा हि कृत्वा तपश्चक्रे यमुनायाश्च तीरे
na vai rudravatpārvatī pūrṇarūpā hyanyepyevaṃ naiva pūrṇāḥ sadaiva |
ālocanāmevameṣā hi kṛtvā tapaścakre yamunāyāśca tīre
तदाचाहं यमुनायाश्च तीरं पार्थेन साकं मृगयां गतः खग ।
दृष्ट्वा च तां तत्र तपश्चरन्तीं तदाब्रुवं मत्सखायं च पार्थम्
tadācāhaṃ yamunāyāśca tīraṃ pārthena sākaṃ mṛgayāṃ gataḥ khaga |
dṛṣṭvā ca tāṃ tatra tapaścarantīṃ tadābruvaṃ matsakhāyaṃ ca pārtham
हे पार्थ शीघ्रं व्रज कन्यासमीपं त्वं पृच्छ कस्मादत्र तपः करोषि ।
एवं प्रोक्तस्तत्समीपं स गत्वा पृष्ट्वा चैतत्कारणं शीघ्रमेव
he pārtha śīghraṃ vraja kanyāsamīpaṃ tvaṃ pṛccha kasmādatra tapaḥ karoṣi |
evaṃ proktastatsamīpaṃ sa gatvā pṛṣṭvā caitatkāraṇaṃ śīghrameva
आगत्य मामवदत्फाल्गुनोयं सर्वं वृत्तांन्तं त्वसौ मत्समीपे ।
ततस्त्वहं सुमुहूर्ते च तस्याः पाणिग्रहं कृतवांस्तत्र सम्यक्
āgatya māmavadatphālgunoyaṃ sarvaṃ vṛttāṃntaṃ tvasau matsamīpe |
tatastvahaṃ sumuhūrte ca tasyāḥ pāṇigrahaṃ kṛtavāṃstatra samyak
तस्याश्च तापात्संततं मद्विचारात्प्रसन्नोहं सततं सुप्रसन्नः ।
पूर्णानन्दे रममाणास्य नित्यं तया च मे किं सुखंस्यात्खगेन्द्र
tasyāśca tāpātsaṃtataṃ madvicārātprasannohaṃ satataṃ suprasannaḥ |
pūrṇānande ramamāṇāsya nityaṃ tayā ca me kiṃ sukhaṃsyātkhagendra
मया विवाहोनुग्रहार्थं हि तस्या अङ्गीकृतो न तु सौख्याय वीन्द्र ।
तथा वक्ष्ये लक्ष्मणायाश्च रूपं पाणिग्राहे कारणं चापि वीन्द्रा
mayā vivāhonugrahārthaṃ hi tasyā aṅgīkṛto na tu saukhyāya vīndra |
tathā vakṣye lakṣmaṇāyāśca rūpaṃ pāṇigrāhe kāraṇaṃ cāpi vīndrā
शृणुष्व तत्तव वक्ष्यामि गोप्यं सच्छिष्यके नास्ति गोप्यं गुरोश्च
śṛṇuṣva tattava vakṣyāmi gopyaṃ sacchiṣyake nāsti gopyaṃ gurośca
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)