याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कथं हरे ।
तन्मे काथय केशिघ्न यथा तत्त्वेन माधव
yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kathaṃ hare |
tanme kāthaya keśighna yathā tattvena mādhava
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्म्मनिरूपणं नाम त्रिनवतितमोऽध्यायः ॥
13 श्लोक · 93 में से 241
महेश्वर हरि से याज्ञवल्क्य द्वारा कहा गया धर्म पूछते हैं। हरि बताते हैं कि ऋषि मिथिला में याज्ञवल्क्य के पास गए और उन्होंने उत्तर दिया। जिस देश में कृष्णमृग विचरता है वहाँ धर्म स्थित है। पुराण, न्याय, मीमांसा, धर्मशास्त्र और अङ्गों सहित वेद विद्या और धर्म के चौदह स्थान हैं। धर्मशास्त्र के वक्ता गिनाए गए हैं: मनु, विष्णु, यम, अङ्गिरा, वसिष्ठ, दक्ष, संवर्त, शातातप, पराशर, आपस्तम्ब, उशना, व्यास, कात्यायन, बृहस्पति, गौतम, और स्वयं याज्ञवल्क्य। ब्राह्मण, क्षत्रिय, वैश्य और शूद्र चार वर्ण हैं, पहले तीन द्विज हैं, जिनकी क्रियाएँ गर्भाधान से श्मशान तक मन्त्रों से होती हैं। फिर संस्कार आते हैं: गर्भाधान, पुंसवन, सीमन्तोन्नयन, जातकर्म, ग्यारहवें दिन नामकरण, निष्क्रमण, अन्नप्राशन और चूडाकर्म। स्त्रियों के लिए ये बिना मन्त्र होते हैं, पर विवाह मन्त्र सहित होता है।
महेश्वर उवाच
याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कथं हरे ।
तन्मे काथय केशिघ्न यथा तत्त्वेन माधव
yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kathaṃ hare |
tanme kāthaya keśighna yathā tattvena mādhava
हरिरुवाच
याज्ञवल्क्यं नमस्कृत्य मिथिलायां समास्थितम् ।
अपृच्छन्नॄषयो गत्वा वर्णधर्माद्यशेषतः ।
तेभ्यः स कथयामास विष्णुं ध्यात्वा जितेन्द्रियः
yājñavalkyaṃ namaskṛtya mithilāyāṃ samāsthitam |
apṛcchannṝṣayo gatvā varṇadharmādyaśeṣataḥ |
tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ
याज्ञवल्क्य उवाच
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत ।
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः
yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata |
purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।
वक्तारो धर्मशास्त्राणां मनुर्विष्णुर्यमोऽङ्गिराः
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa |
vaktāro dharmaśāstrāṇāṃ manurviṣṇuryamo'ṅgirāḥ
वसिष्ठदक्षसंवर्त्तशातातपपराशराः ।
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती
vasiṣṭhadakṣasaṃvarttaśātātapaparāśarāḥ |
āpastambośanovyāsāḥ kātyāyanabṛhaspatī
गौतमः शङ्खलिखितो हारीतोऽत्रिरहं तथा ।
एते विष्णुं समाराध्य जाता धर्मोपदेशकाः
gautamaḥ śaṅkhalikhito hārīto'trirahaṃ tathā |
ete viṣṇuṃ samārādhya jātā dharmopadeśakāḥ
देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम्
deśakāla upāyena dravyaṃ śraddhāsamanvitam |
pātre pradīyate yattatsakalaṃ dharmalakṣaṇam
इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च ।
अयं च परमो धर्मो यद्योगेनात्मदर्शनम्
ijyācāro damo'hiṃsā dānaṃ svādhyāyakarma ca |
ayaṃ ca paramo dharmo yadyogenātmadarśanam
चत्वारो वेदधर्मज्ञाः परास्रैविद्यमेव वा ।
सा ब्रूते यत्स्वधर्मः स्यादेको वाध्यात्मवित्तमः
catvāro vedadharmajñāḥ parāsraividyameva vā |
sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ
ब्रह्मक्षात्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः
brahmakṣāttriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ |
niṣekādyāḥ śmaśānāntāsteṣāṃ vai mantrataḥ kriyāḥ
गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा ।
षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म च
garbhādhānamṛtau puṃsaḥ savanaṃ spandanātpurā |
ṣaṣṭhe'ṣṭame vā sīmantaḥ prasave jātakarma ca
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडां कुर्य्याद्यथाकुलम्
ahanyekādaśe nāma caturthe māsi niṣkramaḥ |
ṣaṣṭhe'nnaprāśanaṃ māsi cūḍāṃ kuryyādyathākulam
एवमेनः शमं याति बीजगर्भसमुद्भवम् ।
तूष्णीमेताः क्रियाः स्त्रीणां विवाहश्च समन्त्रकः
evamenaḥ śamaṃ yāti bījagarbhasamudbhavam |
tūṣṇīmetāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)