पूर्व खण्ड — आचार काण्ड

अध्याय 28: रानियों सहित श्रीगोपाल का पूजन

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशोऽध्यायः ॥

13 श्लोक · 28 में से 241

इस अध्याय में क्या होता है

रानियों सहित श्रीगोपाल का पूजन

सूत गोपाल रूप श्रीकृष्ण का पूजन बताते हैं, जो भोग और मोक्ष देता है। द्वार पर धाता और विधाता, गंगा और यमुना, और प्रत्येक दिशा में द्वारपालों के जोड़े हैं: पूर्व में भद्र और सुभद्र, दक्षिण में चण्ड और प्रचण्ड, पश्चिम में बल और प्रबल, उत्तर में श्री सहित जय और विजय। चारों द्वारों पर गणेश, दुर्गा और सरस्वती, और कोणों में नारद, सिद्ध और नलकूबर हैं। भीतर कूर्म, अनन्त, पृथ्वी, धर्म और ज्ञान वाला आसन है। मूलमन्त्र गोपीजनवल्लभाय स्वाहा पर समाप्त होता है और चक्र, सुचक्र, विचक्र, त्रैलोक्यरक्षक और सुदर्शन उसके अंग हैं। श्रीकृष्ण के चारों ओर रुक्मिणी, सत्यभामा, सुनन्दा, नाग्नजिती, लक्ष्मणा, मित्रविन्दा, जाम्बवती और सुशीला, तथा आयुध, चिह्न और विष्वक्सेन पूजे जाते हैं। जप, ध्यान और पूजन से सब कामनाएँ पूरी होती हैं।

सूत उवाच

28.1

गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् ।
द्वारे धाता विधाता च गंगायमुनया सह

gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm |
dvāre dhātā vidhātā ca gaṃgāyamunayā saha

28.2

शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया ।
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ

śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā |
pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau

28.3

पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् ।
उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती

paścime balaprabalau jayaśca vijayo yajet |
uttare śrīścaturdvāre gaṇo durgā sarasvatī

28.4

क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् ।
सिद्धो गुरुर्नलकूवरं कोणे भगवतं यजेत्

kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam |
siddho gururnalakūvaraṃ koṇe bhagavataṃ yajet

28.5

पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत् ।
ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्म्मकम्

pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet |
tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrmmakam

28.6

अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः ।
ऐश्वर्य्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे

anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ |
aiśvaryyaṃ vāyupūrvaṃ ca prakāśātmānamuttare

28.7

सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे ।
तमसे कन्द पद्माय यजेत्कं काकतत्त्वकम्

sattvāya prakṛtātmane rajase moharūpiṇe |
tamase kanda padmāya yajetkaṃ kākatattvakam

28.8

विद्यातत्त्वं परं तत्त्वं सूर्य्येन्दुवह्निमण्डलम् ।
विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत्

vidyātattvaṃ paraṃ tattvaṃ sūryyenduvahnimaṇḍalam |
vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet

28.9

गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते ।
अङ्गानि यथा-आच क्रं च सुचक्रं च विचक्रं च तथैव च

gopījanavallabhāya svāhānto manurucyate |
aṅgāni yathā-āca kraṃ ca sucakraṃ ca vicakraṃ ca tathaiva ca

28.10

त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम् ।
हृदादिपूर्वकोणषु अस्त्रं शक्तिं च पूर्वतः

trailokyarakṣakaṃ cakramasurārisudarśanam |
hṛdādipūrvakoṇaṣu astraṃ śaktiṃ ca pūrvataḥ

28.11

रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि ।
लक्ष्मणा मित्रविंदा च जाम्बवत्या शुशीलया

rukmiṇī satyabhāmā ca sunandā nāgnajityapi |
lakṣmaṇā mitraviṃdā ca jāmbavatyā śuśīlayā

28.12

शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत् ।
खङ्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत्

śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet |
khaṅgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet

28.13

मुकुटं वलमालां च ऐंद्राद्यान्ध्वजमुख्यकान् ।
कुमुदाद्यान्विष्वक्सेनं श्रिया कृष्णं सहार्चयेत् ।
जप्याद्ध्यानात्पूजनाच्च सर्वान्कामानवान्पुयात्

mukuṭaṃ valamālāṃ ca aiṃdrādyāndhvajamukhyakān |
kumudādyānviṣvaksenaṃ śriyā kṛṣṇaṃ sahārcayet |
japyāddhyānātpūjanācca sarvānkāmānavānpuyāt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)