पूर्व खण्ड — आचार काण्ड

अध्याय 208: आर्या से आरम्भ होने वाले मात्रा-छन्द

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रे आर्यावृत्तादिछन्दोलक्षणनिरूपणं नामाष्टोत्तरद्विशततमोऽध्यायः ॥

18 श्लोक · 208 में से 241

इस अध्याय में क्या होता है

आर्या से आरम्भ होने वाले मात्रा-छन्द

सूत मात्रा-वृत्त बताते हैं, जो अक्षरों से नहीं, मात्राओं से गिने जाते हैं। पहले आर्या आती है: हर अर्ध में चार-चार मात्राओं के आठ गण, विषम स्थानों पर जगण नहीं, और छठे गण के नियम। इसके भेद पथ्या, विपुला, चपला और पूर्वार्ध तथा उत्तरार्ध के रूप हैं। आर्या के अर्धों से गीति, उपगीति, उद्गीति और आर्यागीति बनती हैं। फिर वैतालीय का परिवार आता है: औपच्छन्दसिक, आपातलिका, दक्षिणान्तिका, उदीच्यवृत्ति और प्राच्यवृत्ति, प्रवृत्तक और चारुहासिनी। वक्त्र और पथ्यावक्त्र के लक्षण दिए गए हैं, फिर सोलह मात्राओं वाला मात्रासमक और उसके भेद वानवासिका, चित्रा, विश्लोक और पादाकुलक। शिखा, खञ्जा, अनङ्गक्रीडा और रुचिरा पर सूची पूरी होती है। अन्त में सूत कहते हैं कि अब वे वर्ण-वृत्त कहेंगे।

सूत उवाच

208.1

आर्यालक्ष्म त्वष्ट गणाः सदा जो विषमे न हि ।
षष्ठे जो न्लौ वापि भवेत्पदं षष्ठे द्वितीयलात्

āryālakṣma tvaṣṭa gaṇāḥ sadā jo viṣame na hi |
ṣaṣṭhe jo nlau vāpi bhavetpadaṃ ṣaṣṭhe dvitīyalāt

208.2

आदितः सप्तमे ह्रस्वा द्वितीयार्धे शरे ततः ।
त्रिगणाङ्घ्रिश्च पथ्या स्याद्विपुला वह्निलङ्घनात्

āditaḥ saptame hrasvā dvitīyārdhe śare tataḥ |
trigaṇāṅghriśca pathyā syādvipulā vahnilaṅghanāt

208.3

ग्मध्ये द्वितुर्यौ जौ चपला मुखपूर्वादिचापला ।
द्वितीयार्धे सजघना आर्याजातेश्च लक्षणम्

gmadhye dvituryau jau capalā mukhapūrvādicāpalā |
dvitīyārdhe sajaghanā āryājāteśca lakṣaṇam

208.4

आर्या प्रथमार्धलक्ष्म गीतिः स्याच्चेद्दलद्वये ।
उपगीतिर्द्वितीयार्धादुद्गीतिर्व्यत्ययाद्भवेत्

āryā prathamārdhalakṣma gītiḥ syācceddaladvaye |
upagītirdvitīyārdhādudgītirvyatyayādbhavet

208.5

आर्यागीतिश्चान्तगुरुर्गोतिजातेश्च लक्षणम् ।
षट्कला विषमे चेत्स्युः समेऽष्टौ न निरन्तराः ।
समा पराश्रिता न स्याद्वैतालीये रलौ गुरुः

āryāgītiścāntagururgotijāteśca lakṣaṇam |
ṣaṭkalā viṣame cetsyuḥ same'ṣṭau na nirantarāḥ |
samā parāśritā na syādvaitālīye ralau guruḥ

208.6

अन्तेर्यौ पूर्ववदिदमौपच्छन्दसिकं मतम्

anteryau pūrvavadidamaupacchandasikaṃ matam

208.7

भाद्गौ स्यादापातलिका ज्ञेयाथो दक्षिणान्तिका ।
पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि

bhādgau syādāpātalikā jñeyātho dakṣiṇāntikā |
parāśrito dvitīyo laḥ pādeṣu nikhileṣvapi

208.8

उदीच्यवृत्तिरसमे प्राच्यवृत्तिस्तु युग्मके ।
सपञ्चमश्चतुर्थांशे युगपत्तौ प्रवृत्तकम्

udīcyavṛttirasame prācyavṛttistu yugmake |
sapañcamaścaturthāṃśe yugapattau pravṛttakam

208.9

उदीच्याद्यङ्घ्रिसंयोगाद्युग्मपादैकपादिका ।
चारुहासिन्ययुग्माङ्घ्रौ वैतालीयस्य संग्रहः

udīcyādyaṅghrisaṃyogādyugmapādaikapādikā |
cāruhāsinyayugmāṅghrau vaitālīyasya saṃgrahaḥ

208.10

वक्त्रं नाद्यान्नसौ स्यातां चतुर्थाद्यगणो भवेत् ।
पथ्यावक्त्रं जेन समे विपरीतादिरन्यथा

vaktraṃ nādyānnasau syātāṃ caturthādyagaṇo bhavet |
pathyāvaktraṃ jena same viparītādiranyathā

208.11

उसमे नश्च चपला विपुला लघुसप्तमा ।
निखिले वा सैतवस्य म्रौ न्तौ चाब्धेस्तत्पूर्वकौ

usame naśca capalā vipulā laghusaptamā |
nikhile vā saitavasya mrau ntau cābdhestatpūrvakau

208.12

षोडशलोऽचलधृतिर्मात्रासमकमुच्यते

ṣoḍaśalo'caladhṛtirmātrāsamakamucyate

208.13

नवमलस्तथा गोऽन्त्यः जो न्लौवाथाम्बुधेर्यथा ।
विश्लोकः स्यात्तच्चतुष्कद्विगुणाद्वानवासिका

navamalastathā go'ntyaḥ jo nlauvāthāmbudheryathā |
viślokaḥ syāttaccatuṣkadviguṇādvānavāsikā

208.14

बाणाष्टनवकेषु स्याल्लश्चित्रा षोडशात्मिका ।
सममात्रासमादिष्टं पदाकुलकमीरितम्

bāṇāṣṭanavakeṣu syāllaścitrā ṣoḍaśātmikā |
samamātrāsamādiṣṭaṃ padākulakamīritam

208.15

वृत्तमात्रा विना वर्णैर्ला वर्णा गुरुभिर्विना ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम्

vṛttamātrā vinā varṇairlā varṇā gurubhirvinā |
guruvo lairdale nityaṃ pramāṇamiti niścitam

208.16

अष्टाविंशातिला गन्ता प्रथमार्धे द्वितीयके ।
त्रिंशदस्यां शिखा गन्ता खञ्जातद्व्यत्ययाद्भवेत्

aṣṭāviṃśātilā gantā prathamārdhe dvitīyake |
triṃśadasyāṃ śikhā gantā khañjātadvyatyayādbhavet

208.17

षोडशानङ्गक्रीडा गा द्वात्रिंशच्चरमे च लाः ।
सप्तविंशातिला गन्ता दलयो रुचिरा द्वयोः

ṣoḍaśānaṅgakrīḍā gā dvātriṃśaccarame ca lāḥ |
saptaviṃśātilā gantā dalayo rucirā dvayoḥ

208.18

मात्रावृत्तानि चोक्तानि वर्णवृत्तानि वच्मि वै

mātrāvṛttāni coktāni varṇavṛttāni vacmi vai

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)