पूर्व खण्ड — आचार काण्ड

अध्याय 158: मूत्राघात, मूत्रकृच्छ्र और अश्मरी

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मूत्राघातमूत्राकृच्छनिदान नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः ॥

40 श्लोक · 158 में से 241

इस अध्याय में क्या होता है

मूत्राघात, मूत्रकृच्छ्र और अश्मरी

धन्वन्तरि बस्ति, अर्थात मूत्राशय, का वर्णन करते हैं, जो नीचे की ओर मुख होने पर भी बगल से सूक्ष्म नाड़ियों द्वारा लगातार मूत्र से भरता रहता है। उन्हीं नाड़ियों से प्रवेश करके दोष बीस विकार करते हैं, जिनमें मुख्य मूत्राघात और मूत्रकृच्छ्र हैं। वात के मूत्रकृच्छ्र में थोड़ा-थोड़ा बार-बार मूत्र, बस्ति, वंक्षण और लिंग में पीड़ा के साथ; पित्त में पीला, जलन वाला, कभी लाल मूत्र; कफ में भारीपन और सूजन होती है। जब वात कफ के साथ मूत्र को सुखाता है तब अश्मरी बनती है; रोगी पीड़ा से काँपता और दाँत पीसता है। स्थान से हटा शुक्र वात से सूखकर शुक्राश्मरी बनता है। फिर वातबस्ति, वाताष्ठीला, मूत्रजठर आदि मूत्र-रोध के भेद आते हैं, तीव्र पीड़ा, अफारा और दुर्बलता के साथ।

धन्वन्तरिरुवाच

158.1

अथातो मूत्रघातस्य निदानं शृणु सुश्रुत ।
बस्तिबस्तिशिरोमेढ्रकटीवृषणपायु च

athāto mūtraghātasya nidānaṃ śṛṇu suśruta |
bastibastiśiromeḍhrakaṭīvṛṣaṇapāyu ca

158.2

एकसंवहनाः प्रोक्ता गुदास्थिविवराश्रयाः ।
अधोमुखोऽपि बस्तिर्हि मूत्रवाहिशिरामुखैः

ekasaṃvahanāḥ proktā gudāsthivivarāśrayāḥ |
adhomukho'pi bastirhi mūtravāhiśirāmukhaiḥ

158.3

पार्श्वेभ्यः पूर्यते श्लक्ष्णै
स्यन्दमानैरनारतम् ।
तैस्तैरेव प्रविश्यैवन्दोषान्कुवन्ति विंशतिम्

pārśvebhyaḥ pūryate ślakṣṇai
syandamānairanāratam |
taistaireva praviśyaivandoṣānkuvanti viṃśatim

158.4

मूत्राघातः प्रमेहश्च कृच्छ्रान्मर्म समाश्रयेत् ।
बस्तिवङ्क्षणमेढ्रार्तियुक्तोल्पाल्पं मुहुर्मुहुः

mūtrāghātaḥ pramehaśca kṛcchrānmarma samāśrayet |
bastivaṅkṣaṇameḍhrārtiyuktolpālpaṃ muhurmuhuḥ

158.5

मूत्राण्यावातजे कृच्छ्रपीत्ते पीतं सदाहरुक् ।
रक्तं वा कफजो बस्तिमेढ्रगौरवशोथवान्

mūtrāṇyāvātaje kṛcchrapītte pītaṃ sadāharuk |
raktaṃ vā kaphajo bastimeḍhragauravaśothavān

158.6

सपिच्छं सनिरुद्धं च सर्वैः सर्वात्मकं मलैः ।
यदा वायुर्मुखं बस्तेर्व्यावर्त्य पारिशोषयन्

sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ |
yadā vāyurmukhaṃ bastervyāvartya pāriśoṣayan

158.7

मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात् ।
संजायतेऽश्मरी घोरा पित्तं गोरिव रोचना

mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt |
saṃjāyate'śmarī ghorā pittaṃ goriva rocanā

158.8

श्लेष्माश्रया च सर्वा स्यादथास्याः पूर्वलक्षणम् ।
बस्त्याध्मानं तदासन्नदेशोहि परितोऽतिरुक्

śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam |
bastyādhmānaṃ tadāsannadeśohi parito'tiruk

158.9

बस्तौ च मूत्रसङ्गित्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ।
सामान्यलिङ्गं रुङ्नाभिसीवनीबस्तिमूर्धसु

bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro'ruciḥ |
sāmānyaliṅgaṃ ruṅnābhisīvanībastimūrdhasu

158.10

विस्तीर्णवा सं मूत्रं स्यात्तथा मार्गनिरोधने ।
बद्धं बद्ध्वा सुखं मेहेदच्छं गोमेदकोपमम्

vistīrṇavā saṃ mūtraṃ syāttathā mārganirodhane |
baddhaṃ baddhvā sukhaṃ mehedacchaṃ gomedakopamam

158.11

तत्संक्षोभाद्भवेत्सासृङ्मांसमध्वनि रुग्भवेत् ।
तत्र बाताभिसृत्यार्तोदन्तान् खादति वेपते

tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet |
tatra bātābhisṛtyārtodantān khādati vepate

158.12

गृह्णाति मेहनं नाभिं पीडयत्यतिलक्षणम् ।
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः

gṛhṇāti mehanaṃ nābhiṃ pīḍayatyatilakṣaṇam |
sānilaṃ muñcati śakṛnmuhurmehati binduśaḥ

158.13

श्यामरूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव ।
पित्तेन दह्यते बस्तिः पच्यमान इवोष्णवान्

śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva |
pittena dahyate bastiḥ pacyamāna ivoṣṇavān

158.14

भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरा ।
बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः

bhallātakāsthisaṃsthānā raktā pītā sitāśmarā |
bastirnistudyata iva śleṣmaṇā śītalo guruḥ

158.15

अश्मरी महती श्लक्ष्णा मधुवर्णाथ वा सिता ।
एता भवन्ति बालनां तेषामेव च भूयसाम्

aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā |
etā bhavanti bālanāṃ teṣāmeva ca bhūyasām

158.16

आशयोपचयाल्पत्वाद्गहणाहरणे सुखी ।
सुक्राश्मरी तु महती जायते शुक्रधारणात्

āśayopacayālpatvādgahaṇāharaṇe sukhī |
sukrāśmarī tu mahatī jāyate śukradhāraṇāt

158.17

स्थानच्युतमभुक्तं वा अण्डयोरन्तरेऽनिलः ।
शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी

sthānacyutamabhuktaṃ vā aṇḍayorantare'nilaḥ |
śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī

158.18

बस्तिरुक्कृच्छ्रमूत्रत्वं शुक्ला श्वयथुकारिणी ।
तस्यामुत्पन्नमात्रायां शुष्कमेत्य विलीयते

bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī |
tasyāmutpannamātrāyāṃ śuṣkametya vilīyate

158.19

पीडिते ज्वरकासेऽस्मिन्नश्मर्येव च शर्करा ।
असौ वा वायुना भिन्ना सा त्वस्मिन्नमुलोमगे

pīḍite jvarakāse'sminnaśmaryeva ca śarkarā |
asau vā vāyunā bhinnā sā tvasminnamulomage

158.20

निरेति सह मूत्रेण प्रतिलोमे विपच्यते ।
मूत्रसंधारणं कुर्यात्क्रुद्धो बस्तेर्मुखे मरुत्

nireti saha mūtreṇa pratilome vipacyate |
mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut

158.21

मूत्रसङ्गं रुजं कण्डूं कदाचिच्च सुवामतः ।
प्रच्छाद्य बस्तिमुद्धृत्य गर्मान्तं स्थूलविप्लुताम्

mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ |
pracchādya bastimuddhṛtya garmāntaṃ sthūlaviplutām

158.22

करोति तत्र रुग्दाहं स्पन्दनोद्वेष्टनानि च ।
बिन्दुशश्च प्रवर्तेत मूत्रं बस्तौ तु पीडिते

karoti tatra rugdāhaṃ spandanodveṣṭanāni ca |
binduśaśca pravarteta mūtraṃ bastau tu pīḍite

158.23

धारावरोधश्चाप्येष वातबस्तिरिति स्मृतः ।
दुस्तरो दुस्तरतरो द्वितीयः प्रबलोऽनिलः

dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ |
dustaro dustarataro dvitīyaḥ prabalo'nilaḥ

158.24

शकृप्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः ।
अष्ठीलाभं घनं ग्रन्थिं करोत्यच
लमुन्नतम्

śakṛpmārgasya basteśca vāyurantaramāśritaḥ |
aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyaca
lamunnatam

158.25

वाताष्ठीलेति सात्मानं विष्णूत्रानिल
सर्गकृत् ।
विगुणः कुण्डलीभूतो बस्तौ तीव्रव्यथोनिलः

vātāṣṭhīleti sātmānaṃ viṣṇūtrānila
sargakṛt |
viguṇaḥ kuṇḍalībhūto bastau tīvravyathonilaḥ

158.26

आबध्य मूत्रं भ्रमति संस्तम्भोद्वेष्टगौरवम् ।
मूत्रमल्पाल्पमथवा विमुञ्चति सकृत्सकृत्

ābadhya mūtraṃ bhramati saṃstambhodveṣṭagauravam |
mūtramalpālpamathavā vimuñcati sakṛtsakṛt

158.27

वातकुण्डलिकेत्येव मूत्रं तु विधृतेऽचिरम् ।
न निरेति निरुद्धं वा मूत्रातीतं तदल्परुक्

vātakuṇḍaliketyeva mūtraṃ tu vidhṛte'ciram |
na nireti niruddhaṃ vā mūtrātītaṃ tadalparuk

158.28

विधारणात्प्रतिहतं वातादावर्तितं यदा ।
नाभेरधस्तादुदरं मूत्रमापूरयेत्तदा

vidhāraṇātpratihataṃ vātādāvartitaṃ yadā |
nābheradhastādudaraṃ mūtramāpūrayettadā

158.29

कुर्यात्तीव्ररुगाध्मानमशक्तिं मलसंग्रहम् ।
तन्मूत्रं जाठरच्छिद्रवैगुण्येनानिलेन वा

kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham |
tanmūtraṃ jāṭharacchidravaiguṇyenānilena vā

158.30

आक्षिप्तमल्पमूत्रस्य वस्तौ नाभौ च वा मले ।
स्थित्वा प्लवेच्छनैः पश्चात्सरुजं वाथवारुजम्

ākṣiptamalpamūtrasya vastau nābhau ca vā male |
sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam

158.31

मूत्रोत्सर्गं सविच्छिन्नं तच्छ्रेयो गुरुशेफसोः ।
अन्तर्वस्ति मुखे तृष्णा स्थिराल्पं सहसा भवेत्

mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ |
antarvasti mukhe tṛṣṇā sthirālpaṃ sahasā bhavet

158.32

अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ।
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम्

aśmarītulyaruggranthirmūtragranthiḥ sa ucyate |
mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam

158.33

स्थानाच्च्युतं मूत्रयतः प्राक्पश्चाद्वा प्रवर्तते ।
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते

sthānāccyutaṃ mūtrayataḥ prākpaścādvā pravartate |
bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate

158.34

रूक्षदुर्बलयोर्वातेनोदावर्तं शकृद्यदा ।
मूत्रस्रोतोऽनुपर्येति संसृष्टं शकृता तदा

rūkṣadurbalayorvātenodāvartaṃ śakṛdyadā |
mūtrasroto'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā

158.35

मूत्रबिन्दुं तुल्यगन्धं स्याद्विघातं तमादिशेत् ।
पित्तव्यायामतीक्ष्णाम्लभोजनाध्मानकादिभिः

mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet |
pittavyāyāmatīkṣṇāmlabhojanādhmānakādibhiḥ

158.36

प्रवृद्धवायुना मूत्रे वस्तिस्थे चैव दाहकृत् ।
मूत्रं वर्तयते पूर्वं सरक्तं रक्तमेव वा

pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt |
mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā

158.37

उष्णं पुनः पुनः कृच्छ्रादुष्णवातं वदन्ति तम् ।
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ

uṣṇaṃ punaḥ punaḥ kṛcchrāduṣṇavātaṃ vadanti tam |
rūkṣasya klāntadehasya bastisthau pittamārutau

158.38

मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ।
पित्तं कफो द्वादपि वा संहन्येतेनिलेनचेत्

mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam |
pittaṃ kapho dvādapi vā saṃhanyetenilenacet

158.39

कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ।
सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत्

kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet |
sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat

158.40

शुष्कं समस्तवर्णं वा मूत्रसादं वदन्तितम् ।
इति विस्तारतः प्रोक्ता रोगा मूत्रप्रवर्तिताः

śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadantitam |
iti vistārataḥ proktā rogā mūtrapravartitāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)