अतीसारग्रहण्योश्च निदानं वच्मि सुश्रुत ।
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः
atīsāragrahaṇyośca nidānaṃ vacmi suśruta |
doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेतिसारनिदान नाम सप्तञ्चाशदुत्तरशतमोऽध्यायः ॥
29 श्लोक · 157 में से 241
धन्वन्तरि अतिसार और ग्रहणी का निदान बताते हैं। अतिसार छह प्रकार का है: हर दोष से, तीनों से, भय से और शोक से। यह बहुत जल पीने, सूखे या बासी अन्न, अधिक चिकनाई, तिल-पिष्टी, अंकुरित अन्न, मद्य, अधिक भोजन, कृमि और विरुद्ध आहार से होता है। कुपित वात द्रव भाग को नीचे धकेलता है, जठराग्नि बुझाता है और मल को पतला करता है। पूर्वरूप में हृदय, गुदा और पेट में पीड़ा, पसीना और मल का रुकना होते हैं। भय में व्याकुल मन मल को ढीला कर देता है। धीरे-धीरे बनने वाला ग्रहणी रोग मल को कभी कठोर, कभी पतला, झागदार और आवाज़ वाला बनाता है, बार-बार। अन्त में आठ दुस्तर महारोग गिनाए गए हैं: वातव्याधि, अश्मरी, कुष्ठ, प्रमेह, उदर, भगन्दर, अर्श और ग्रहणी।
धन्वन्तरिरुवाच
अतीसारग्रहण्योश्च निदानं वच्मि सुश्रुत ।
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः
atīsāragrahaṇyośca nidānaṃ vacmi suśruta |
doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ
अतीसारः स सुतरां जायतेऽत्यम्बुपानतः ।
विशुष्कान्नवसास्नेहतिलपिष्टविरूढकैः
atīsāraḥ sa sutarāṃ jāyate'tyambupānataḥ |
viśuṣkānnavasāsnehatilapiṣṭavirūḍhakaiḥ
मद्यरूक्षातिमात्रादिरसातिस्नेहविभ्रमात् ।
कृमिघोषविरोधाच्च तद्विधेः कुपितानिलः
madyarūkṣātimātrādirasātisnehavibhramāt |
kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ
विस्त्रंसयत्यधोवातं हत्वा तेनैव चानलम् ।
व्यापार्यान्नशकृत्कोष्ठपुरीषद्रवतादयः
vistraṃsayatyadhovātaṃ hatvā tenaiva cānalam |
vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ
प्रकल्पतेऽतीसारस्य लक्षणं तस्य भाविनः ।
भेदो हृद्गुदकोष्ठेषु गात्रस्वेदो मलग्रहः
prakalpate'tīsārasya lakṣaṇaṃ tasya bhāvinaḥ |
bhedo hṛdgudakoṣṭheṣu gātrasvedo malagrahaḥ
आध्मानमविपाकश्च तत्र वातेन विज्वरम् ।
अल्पाल्पं शब्दशून्याढ्यं विरु
द्धमुपवेश्यते
ādhmānamavipākaśca tatra vātena vijvaram |
alpālpaṃ śabdaśūnyāḍhyaṃ viru
ddhamupaveśyate
रूक्षं सफेनमच्छं च गृहीतं व मुहुर्मुहुः ।
तथादग्धगदाभासं पिच्छिलं परिकर्तयन्
rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ |
tathādagdhagadābhāsaṃ picchilaṃ parikartayan
सशुष्कभ्रष्टपायुश्च हृष्टरोमा विनिश्वसन् ।
पित्तेन पीतमशितं हारिद्रं शाद्वलप्रभम्
saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan |
pittena pītamaśitaṃ hāridraṃ śādvalaprabham
सरक्तमतिदुर्गन्धं तृण्मूर्छास्वेददाहवान् ।
सशूलपायुसन्तापपाकवाञ्छ्लेष्मणा घनम्
saraktamatidurgandhaṃ tṛṇmūrchāsvedadāhavān |
saśūlapāyusantāpapākavāñchleṣmaṇā ghanam
पिच्छिलं तत्रानुसारमल्पाल्पं सप्रवाहिकम् ।
सरोमहर्पः सेक्लेशो गुरुबस्तिगुदोदरः
picchilaṃ tatrānusāramalpālpaṃ sapravāhikam |
saromaharpaḥ sekleśo gurubastigudodaraḥ
कृतेऽप्यकृतसङ्गश्च सर्वात्मा सर्वलक्षणः ।
भयेन क्षुभिते चित्ते शायिते द्रावयेत्स
कृत्
kṛte'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ |
bhayena kṣubhite citte śāyite drāvayetsa
kṛt
वायुस्ततो निवार्येत क्षिप्रमुष्णं द्रवं प्लवम् ।
वातपित्ते समं लिङ्गमाहुस्तद्वच्च शोकतः
vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam |
vātapitte samaṃ liṅgamāhustadvacca śokataḥ
अतीसारः समासेन द्वेधा सामो निरामकः ।
सासृग्जातं रसद्रोगो गौरवादप्सु मुञ्चति ।
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः
atīsāraḥ samāsena dvedhā sāmo nirāmakaḥ |
sāsṛgjātaṃ rasadrogo gauravādapsu muñcati |
śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ
विपरीतो निरामस्तु कफात्कोऽपि न मज्जति ।
अतीसारेषु यो नाति यत्नवान् ग्रहणीगदः
viparīto nirāmastu kaphātko'pi na majjati |
atīsāreṣu yo nāti yatnavān grahaṇīgadaḥ
तस्य स्यादग्निनिर्वाणकार्यैरत्यर्थसञ्चितैः ।
सामं शकृन्निरामं वा जीर्णं येनातिसार्यते
tasya syādagninirvāṇakāryairatyarthasañcitaiḥ |
sāmaṃ śakṛnnirāmaṃ vā jīrṇaṃ yenātisāryate
सोऽतिसारोऽतिसरणा दाशुकारीः स्वभावतः ।
सामंशीर्णमजीर्णेन जीर्णे पक्वं तु नैव च
so'tisāro'tisaraṇā dāśukārīḥ svabhāvataḥ |
sāmaṃśīrṇamajīrṇena jīrṇe pakvaṃ tu naiva ca
चिरकृद्ग्रहणीदोषः सञ्चयांश्चोपवेशयेत् ।
अकस्माद्वारसुर्वेधमकस्मात्सन्धिनीमुहुः ।
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते
cirakṛdgrahaṇīdoṣaḥ sañcayāṃścopaveśayet |
akasmādvārasurvedhamakasmātsandhinīmuhuḥ |
sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate
प्राग्रूपाङ्गस्य सदनं चिरात्पवन अल्पकः ।
प्रसेको वक्त्रवैरस्यमरुचिस्तृट्श्रमोभ्रमः
prāgrūpāṅgasya sadanaṃ cirātpavana alpakaḥ |
praseko vaktravairasyamarucistṛṭśramobhramaḥ
आब
द्धोदरता छर्दिः कर्णकेऽप्यनुकूजकम् ।
सामान्यलक्षणं कार्श्यं वमक स्तमको ज्वरः
āba
ddhodaratā chardiḥ karṇake'pyanukūjakam |
sāmānyalakṣaṇaṃ kārśyaṃ vamaka stamako jvaraḥ
मूर्छा शिरोरुविष्टम्भः श्वयथुः करपादयोः ।
तन्द्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः
mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ |
tandrānilāttāluśoṣastimiraṃ karṇayoḥ svanaḥ
पार्श्वोरुवङ्क्षणग्रीवारुजा तीक्ष्णविषूचिका ।
रुग्णेषु वृद्धिः सर्वषु क्षुत्तृष्णापरिहर्त्रिका
pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā |
rugṇeṣu vṛddhiḥ sarvaṣu kṣuttṛṣṇāparihartrikā
जीर्णेजीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ।
वाताद्धृद्रोगगुल्मार्शःप्लीहपाण्डुरशङ्किताः
jīrṇejīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute |
vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ
चिराद्दुः खं द्रवं शुष्कं तुन्दारं शब्दफेनवत् ।
पुनः पुनः सृजेद्वर्चं पायुरुच्छ्वासकासवान्
cirādduḥ khaṃ dravaṃ śuṣkaṃ tundāraṃ śabdaphenavat |
punaḥ punaḥ sṛjedvarcaṃ pāyurucchvāsakāsavān
पीतेन पीतनीलाभं पीताभं सृजति द्रवम् ।
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः
pītena pītanīlābhaṃ pītābhaṃ sṛjati dravam |
pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ
श्लेष्मणा पच्यते दुःखे मनश्छर्दिररोचकः ।
आस्योपदाहनिष्ठीवकासहृल्लासपीनसाः
śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ |
āsyopadāhaniṣṭhīvakāsahṛllāsapīnasāḥ
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ।
उद्गारो दुष्टमधुरः सदनं सप्रहर्षणम्
hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru |
udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam
सम्भिन्नश्लेष्मसंश्लिष्टगुरुचाम्लैः
प्रवर्तचम् ।
अकृशस्यापि दौर्बल्यं सर्वजे सर्वदर्शनम्
sambhinnaśleṣmasaṃśliṣṭagurucāmlaiḥ
pravartacam |
akṛśasyāpi daurbalyaṃ sarvaje sarvadarśanam
विभागेऽङ्गस्य ये प्रोक्ता पिपासाद्यास्त्रयो मलाः ।
तेऽप्यस्य ग्रहणीदोषाः समन्तेष्वस्ति कारणम्
vibhāge'ṅgasya ye proktā pipāsādyāstrayo malāḥ |
te'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दरम् ।
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः
vātavyādhyaśmarīkuṣṭhamehodarabhagandaram |
arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)