सर्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः ।
आत्रेयाद्यैर्मुनिवरैर्यथा पूर्वमुदीरितम्
sarvaroganidānañca vakṣye suśruta tattvataḥ |
ātreyādyairmunivarairyathā pūrvamudīritam
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे सर्वरोगनिदानं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥
24 श्लोक · 146 में से 241
धन्वन्तरि सुश्रुत को सब रोगों का निदान बताते हैं, जैसा आत्रेय आदि मुनियों ने कहा था। रोग, पाप्मा, ज्वर, व्याधि और आमय एक ही के नाम हैं। रोग पाँच प्रकार से जाना जाता है: निदान, पूर्वरूप, रूप, उपशय और सम्प्राप्ति। हर रोग की जड़ कुपित दोष हैं। वात कड़वे, तीखे और रूखे भोजन, दौड़ने, रात्रि-जागरण, ऊँचा बोलने, शोक और श्रम से बढ़ता है, और ग्रीष्म में तथा भोजन पचने के अन्त में प्रबल होता है। पित्त खट्टे, गरम, तीक्ष्ण पदार्थों और क्रोध से, शरद में और दोपहर को बढ़ता है। कफ मीठे, भारी, ठण्डे भोजन और दिन में सोने से, पूर्वाह्न में बढ़ता है। मिश्र या विरुद्ध भोजन, दूषित जल, ग्रह-पीड़ा, पूर्व पाप और कठिन प्रसव भी दोषों को कुपित करते हैं।
धन्वन्तरिरुवाच
सर्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः ।
आत्रेयाद्यैर्मुनिवरैर्यथा पूर्वमुदीरितम्
sarvaroganidānañca vakṣye suśruta tattvataḥ |
ātreyādyairmunivarairyathā pūrvamudīritam
रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्ट आमयः ।
यक्ष्मातङ्कगदा बाधाः शब्दाः पर्यायवाचिनः
rogaḥ pāpmā jvaro vyādhirvikāro duṣṭa āmayaḥ |
yakṣmātaṅkagadā bādhāḥ śabdāḥ paryāyavācinaḥ
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा ।
संप्राप्तिश्चैति विज्ञानं रोगाणां पञ्चधा स्मृतम्
nidānaṃ pūrvarūpāṇi rūpāṇyupaśayastathā |
saṃprāptiścaiti vijñānaṃ rogāṇāṃ pañcadhā smṛtam
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः ।
निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते
nimittahetvāyatanapratyayotthānakāraṇaiḥ |
nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ।
लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम्
utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ |
liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham
तदेव व्यक्ततां यातं रूपमित्यभिधीयते ।
संस्थानां व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः
tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate |
saṃsthānāṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ
हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् ।
औषधान्नविहाराणामुपयोगं सुखावहम्
hetuvyādhiviparyastaviparyastārthakāriṇām |
auṣadhānnavihārāṇāmupayogaṃ sukhāvaham
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः ।
विपरीतोऽनुपशयो व्याध्यसात्म्येतिसंज्ञितः
vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ |
viparīto'nupaśayo vyādhyasātmyetisaṃjñitaḥ
यथा दुष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिरामयस्यासौ संप्राप्तिरभिधीयते
yathā duṣṭena doṣeṇa yathā cānuvisarpatā |
nirvṛttirāmayasyāsau saṃprāptirabhidhīyate
संख्याविकल्पप्राधान्यबलकालविशेषतः ।
सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति
saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ |
sā bhidyate yathātraiva vakṣyante'ṣṭau jvarā iti
दोषाणां समवेतानां विकल्पोशांशकल्पना ।
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत्
doṣāṇāṃ samavetānāṃ vikalpośāṃśakalpanā |
svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषषणम् ।
नक्तन्दिनार्धभुक्तांशैर्व्याधिकालो यथामलम्
hetvādikārtsnyāvayavairbalābalaviśeṣaṣaṇam |
naktandinārdhabhuktāṃśairvyādhikālo yathāmalam
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते ।
सर्वेषामेव रोगाणां निदानं कुपिता मलाः
iti prokto nidānārthaḥ sa vyāsenopadekṣyate |
sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ।
अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः
tatprakopasya tu proktaṃ vividhāhitasevanam |
ahitastrividho yogastrayāṇāṃ prāgudāhṛtaḥ
तिक्तोषणकषायाम्लरूक्षाप्रमितयोजनैः ।
धावनोदीरणनिशाजागरात्युच्चभाषणैः
tiktoṣaṇakaṣāyāmlarūkṣāpramitayojanaiḥ |
dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ
क्रियाभियोगबीशोकचिन्ताव्यायाममैथुनैः ।
ग्रीष्माहोरात्रभुक्त्यन्ते प्रकुप्यति समीरणः
kriyābhiyogabīśokacintāvyāyāmamaithunaiḥ |
grīṣmāhorātrabhuktyante prakupyati samīraṇaḥ
पित्तं कट्वालतीक्ष्णोष्णकटुक्रोधविदाहिभिः ।
शरन्मध्याह्नरात्र्यर्धविदाहसमयेषु च
pittaṃ kaṭvālatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ |
śaranmadhyāhnarātryardhavidāhasamayeṣu ca
स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दिशीतलैः ।
आस्यास्वप्नसुखाजीर्णदिवास्वप्नादिबृंहणैः
svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ |
āsyāsvapnasukhājīrṇadivāsvapnādibṛṃhaṇaiḥ
प्रिच्छर्दनाद्ययोगेन भुक्तान्नस्याप्यजीर्णके ।
पूर्वाह्ने पूर्वरात्रे च श्लेष्मा वक्ष्यामि सङ्करान्
pricchardanādyayogena bhuktānnasyāpyajīrṇake |
pūrvāhne pūrvarātre ca śleṣmā vakṣyāmi saṅkarān
मिश्रीभावात्समस्तानां सन्निपातस्तथा पुनः ।
संकीर्णाजीर्णविषमविरुद्धाद्यशनादिभिः
miśrībhāvātsamastānāṃ sannipātastathā punaḥ |
saṃkīrṇājīrṇaviṣamaviruddhādyaśanādibhiḥ
व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः ।
पिण्याकमृत्यवसरपूतिशुष्ककृशमिषैः
vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ |
piṇyākamṛtyavasarapūtiśuṣkakṛśamiṣaiḥ
दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्ततः ।
धातोर्दुष्टात्पुरो वाताद्द्विग्रहावेशविप्लवात्
doṣatrayakaraistaistaistathānnaparivartataḥ |
dhātorduṣṭātpuro vātāddvigrahāveśaviplavāt
दुष्टामान्नैरतिश्लैष्मग्रहैर्जन्मर्क्षपीडनात् ।
मिथ्यायोगाच्च विविधात्पापानाञ्च निषेवणात् ।
स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः
duṣṭāmānnairatiślaiṣmagrahairjanmarkṣapīḍanāt |
mithyāyogācca vividhātpāpānāñca niṣevaṇāt |
strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ
प्रतिरोगमिति क्रुद्धा रोगविध्यनुगामिनः ।
रसायनं प्रपद्याशु दोषा देहे विकुर्वते
pratirogamiti kruddhā rogavidhyanugāminaḥ |
rasāyanaṃ prapadyāśu doṣā dehe vikurvate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)