शतानीको ह्यश्वमेधदत्तश्चाप्यधिसोमकः ।
कृष्णोऽनिरुद्धश्चाप्युष्णस्ततश्चित्ररथो नृपः
śatānīko hyaśvamedhadattaścāpyadhisomakaḥ |
kṛṣṇo'niruddhaścāpyuṣṇastataścitraratho nṛpaḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भविष्य राजवंश दृ नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥
16 श्लोक · 141 में से 241
हरि जनमेजय के बाद होने वाले राजाओं के नाम बताते हैं: शतानीक से क्षेमक तक लम्बी परम्परा। बृहद्बल के बाद के इक्ष्वाकु राजा गिनाए गए हैं, जिनमें शाक्य, शुद्धोदन और बाहुल भी हैं, अन्त में सुमित्र। फिर बृहद्रथ वंश के मगध राजा, जरासन्ध और सहदेव से इषुंजय तक। उनके बाद, पाठ कहता है, अधर्मी और शूद्र राजा होंगे। प्रलय तीन प्रकार का है: नैमित्तिक, प्राकृतिक और आत्यन्तिक। पृथ्वी जल में, जल तेज में, तेज वायु में, वायु आकाश में, आकाश अहंकार में, अहंकार बुद्धि में, बुद्धि जीव में और जीव अव्यक्त में लीन होता है। केवल एक नारायण विष्णु अविनाशी हैं; स्वर्ग सहित सब कुछ नष्ट होता है। राजा भी नष्ट हो गए, इसलिए पाप छोड़कर स्थिर धर्म करना चाहिए, जिससे हरि मिलते हैं।
हरिरुवाच
शतानीको ह्यश्वमेधदत्तश्चाप्यधिसोमकः ।
कृष्णोऽनिरुद्धश्चाप्युष्णस्ततश्चित्ररथो नृपः
śatānīko hyaśvamedhadattaścāpyadhisomakaḥ |
kṛṣṇo'niruddhaścāpyuṣṇastataścitraratho nṛpaḥ
शुचिद्रथो वृष्णिमांश्च सुपेणश्च सुनीथकः ।
नृचक्षुश्च मुखाबाणः मेधावी च नृपञ्जयः
śucidratho vṛṣṇimāṃśca supeṇaśca sunīthakaḥ |
nṛcakṣuśca mukhābāṇaḥ medhāvī ca nṛpañjayaḥ
पारिप्लवश्च मुनयो मेधावी च नृपञ्जयः ।
बृहद्रथो हरिस्तिग्मो शतानीकः सुदानकः
pāriplavaśca munayo medhāvī ca nṛpañjayaḥ |
bṛhadratho haristigmo śatānīkaḥ sudānakaḥ
उदानोऽह्निनरश्चैव दण्डपाणिर्निमित्तकः ।
क्षेमकश्च ततः शूद्रः पिता पूर्वस्ततः सुतः
udāno'hninaraścaiva daṇḍapāṇirnimittakaḥ |
kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ
बृहद्बलास्तु कथयन्ते नृपोश्चैक्ष्वाकुवंशजाः ।
बृहद्बलादुरुक्षयो वत्सव्यूहस्ततः परः
bṛhadbalāstu kathayante nṛpoścaikṣvākuvaṃśajāḥ |
bṛhadbalādurukṣayo vatsavyūhastataḥ paraḥ
वत्सव्यूहात्ततः सूर्यः सहदेवस्तदात्मजः ।
बृहदश्वो भानुरथः प्रतीच्यश्च प्रतीतकः ।
मनुदेवः सुनक्षत्रः किन्नरश्चान्तरिक्षकः
vatsavyūhāttataḥ sūryaḥ sahadevastadātmajaḥ |
bṛhadaśvo bhānurathaḥ pratīcyaśca pratītakaḥ |
manudevaḥ sunakṣatraḥ kinnaraścāntarikṣakaḥ
सुपर्णः कृतजिच्चैव बृहद्भ्राजश्च धार्मिकः ।
कृतञ्जयो धनञ्जयः संजयः शाक्य एव च
suparṇaḥ kṛtajiccaiva bṛhadbhrājaśca dhārmikaḥ |
kṛtañjayo dhanañjayaḥ saṃjayaḥ śākya eva ca
शुद्धोदनो बाहुलश्च सेनजित्क्षुद्रकस्तथा ।
सुमित्रः कुडवश्चातः सुमित्रान्मागधाञ्छणु
śuddhodano bāhulaśca senajitkṣudrakastathā |
sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchaṇu
जरासन्धः सहदेवः सोमापिश्च श्रुतश्रवाः ।
अयुतायुर्निरमित्रः सुक्षत्रो बहुकर्मकः
jarāsandhaḥ sahadevaḥ somāpiśca śrutaśravāḥ |
ayutāyurniramitraḥ sukṣatro bahukarmakaḥ
श्रुतञ्जयः सेनजिच्च भूरिश्चैव शुचिस्तथा ।
क्षेम्यश्च सुव्रतो धर्मः श्मश्रुलो दृढसेनकः
śrutañjayaḥ senajicca bhūriścaiva śucistathā |
kṣemyaśca suvrato dharmaḥ śmaśrulo dṛḍhasenakaḥ
सुमतिः सुबलो नीतो सत्यजिद्विश्वजित्तथा ।
इषुञ्जयश्च इत्येते नृपा बार्हद्रथाः स्मृताः
sumatiḥ subalo nīto satyajidviśvajittathā |
iṣuñjayaśca ityete nṛpā bārhadrathāḥ smṛtāḥ
अधर्मिष्ठाश्च शूद्राश्च भविष्यन्ति नृपास्ततः ।
स्वर्गादिकृद्धि भगवान्साक्षान्नारायणोऽव्ययः
adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ |
svargādikṛddhi bhagavānsākṣānnārāyaṇo'vyayaḥ
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः ।
याति भूः प्रलयं चाप्सु ह्यापस्तेजसि पावकः
naimittikaḥ prākṛtikastathaivātyantiko layaḥ |
yāti bhūḥ pralayaṃ cāpsu hyāpastejasi pāvakaḥ
वायौ वायुश्च वियति त्वाकाशौ यात्यहङ्कृतौ ।
अहं बुद्धौ मतिर्जोवे जीवोऽव्यक्ते तदात्मनि
vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau |
ahaṃ buddhau matirjove jīvo'vyakte tadātmani
आत्मा परेश्वरो विष्णुरेको नारायणो नरः ।
अविनाश्यपरं सर्वं जगत्स्वर्गादि नाशि हि
ātmā pareśvaro viṣṇureko nārāyaṇo naraḥ |
avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi
नृपादयो गता नाशमतः पापं विवर्जयेत् ।
धर्मं कुर्यात्स्थिरं येन पापं हित्वा हरिं व्रजेत्
nṛpādayo gatā nāśamataḥ pāpaṃ vivarjayet |
dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)