कामदेवत्रयोदश्यां पूज्यो दमनकादिभिः ।
रतिप्रीतिसमायुक्तो ह्यसोको मणिभूषितः
kāmadevatrayodaśyāṃ pūjyo damanakādibhiḥ |
ratiprītisamāyukto hyasoko maṇibhūṣitaḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथिवारनक्षत्रादिव्रतनिरूपणं नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥
19 श्लोक · 137 में से 241
त्रयोदशी को रति और प्रीति सहित कामदेव की पूजा होती है। वर्ष भर दोनों अष्टमी और चतुर्दशी को उपवास करके शिवपूजा करने से मुक्ति मिलती है; तीन रात उपवास करके कार्तिक पूर्णिमा को घर दान करने से सूर्यलोक मिलता है। अमावस्या को पितरों को दिया जल अक्षय होता है। हर मास उस मास के नक्षत्र के नाम से अच्युत की पूजा होती है, मार्गशीर्ष में केशव आदि। विसर्जन से पहले अन्न नैवेद्य है, उसके बाद निर्माल्य। वर्ष के अन्त में अच्युत से प्रार्थना है कि पाप घटे और पुण्य, धन और सन्तति अक्षय रहें। अन्त में हर तिथि के देवता गिनाए गए हैं: कुबेर, अग्नि, अश्विनीकुमार, पार्वती, नाग, कार्तिकेय, सूर्य, दुर्गा, तक्षक, इन्द्र, मुनि, हरि, काम, महेश्वर, ब्रह्मा और पितर।
ब्रह्मोवाच
कामदेवत्रयोदश्यां पूज्यो दमनकादिभिः ।
रतिप्रीतिसमायुक्तो ह्यसोको मणिभूषितः
kāmadevatrayodaśyāṃ pūjyo damanakādibhiḥ |
ratiprītisamāyukto hyasoko maṇibhūṣitaḥ
चतुर्दश्यां तथाष्टभ्यां पक्ष्योः शुक्लकृष्णयोः ।
योऽब्दमेकं न भुञ्जीत मुक्तिभाक्शिवपूजनात्
caturdaśyāṃ tathāṣṭabhyāṃ pakṣyoḥ śuklakṛṣṇayoḥ |
yo'bdamekaṃ na bhuñjīta muktibhākśivapūjanāt
त्रिरात्रोपोषितो दद्यात्कार्तिक्यां भवनं शुभम् ।
सूर्यलोकमवाप्नोति धामव्रतमिदं शुभम्
trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham |
sūryalokamavāpnoti dhāmavratamidaṃ śubham
अमावस्यां पितॄणां च दत्तं जलादितदक्षयम् ।
नक्ताभ्याशी वारनाम्ना यजन्वाराणि सर्वभाक्
amāvasyāṃ pitṝṇāṃ ca dattaṃ jalāditadakṣayam |
naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk
द्वादशर्क्षाणि विप्रर्षे प्रतिमासं तु यानि वै ।
तन्नाम्नान्तेऽतच्युतं तेषु सम्यक्संपूजयेन्नरः
dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai |
tannāmnānte'tacyutaṃ teṣu samyaksaṃpūjayennaraḥ
केशवं मार्गशीर्षे तु इत्यादौ कृतिकादिके ।
घृतहोमश्चतुर्मासं कृसरञ्च निवेदयेत्
keśavaṃ mārgaśīrṣe tu ityādau kṛtikādike |
ghṛtahomaścaturmāsaṃ kṛsarañca nivedayet
आषाढादौ पायसं तु विप्रांस्तेनैव भोजयेत् ।
पञ्चाव्यजलस्नाननैवेद्यैर्नक्तमाचरेत्
āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet |
pañcāvyajalasnānanaivedyairnaktamācaret
अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते ।
विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात्
arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate |
visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt
पाञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते स्वयम् ।
एवं संवत्सरस्यान्ते विशेषेण प्रपूजयेत्
pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam |
evaṃ saṃvatsarasyānte viśeṣeṇa prapūjayet
नमोनमस्तेऽच्युत संक्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् ।
ऐश्वर्यवित्तादि सदाक्षयं मे तथास्तु मे सन्ततिरक्षयैव
namonamaste'cyuta saṃkṣayo'stu pāpasya vṛddhiṃ samupaitu puṇyam |
aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva
यथाच्युत त्वं परतः परस्मात्स ब्रह्मभूतः परतः परस्मात् ।
तथाच्युतं मे कुरु वाञ्छितं सदा मया कृतं पापहराप्रमेय
yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt |
tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya
अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम् ।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम
acyutānanta govinda prasīda yadabhīpsitam |
tadakṣayamameyātmankuruṣva puruṣottama
कुर्याद्वै सप्त वर्षाणि आयुः श्रीसद्गतीर्नरः ।
उपोष्यैकादशीब्दमष्टमीं च चतुर्दशीम्
kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ |
upoṣyaikādaśībdamaṣṭamīṃ ca caturdaśīm
सप्तमीं पूजयेद्विष्णुं दुर्गां शम्बुं रविं क्रमात् ।
तेषां लोकं समाप्नोति सर्वकामांश्च निर्मलः
saptamīṃ pūjayedviṣṇuṃ durgāṃ śambuṃ raviṃ kramāt |
teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ
एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन शाकाद्यैः पूजयन्तसर्वदेवताः
ekabhaktena naktena tathaivāyācitena ca |
upavāsena śākādyaiḥ pūjayantasarvadevatāḥ
सर्वः सर्वासु तिथिषु भुक्तिं मुक्तिमवाप्नुयात् ।
धनदोऽग्निः प्रतिपदि नासत्यो दस्त्र अर्चितः
sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt |
dhanado'gniḥ pratipadi nāsatyo dastra arcitaḥ
श्रीर्यमश्च द्वितीयायां पञ्चम्या पार्वती श्रिया ।
नागाः षष्ठ्यां कार्तिकेयः सप्तम्यां भास्करोर्ऽथदः
śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā |
nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaror'thadaḥ
दुर्गाष्टम्यां मातरश्च नवम्यामथ तक्षकः ।
इन्द्रो दशम्यां धनद एकादश्यां मुनीश्वराः
durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ |
indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः ।
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽपरे
dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ |
caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro'pare
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)