श्रवणद्वादशों वक्ष्ये भुक्तिमुक्तिप्रदायिनीम् ।
एकादशी द्वादशी च श्रवणेन च संयुता
śravaṇadvādaśoṃ vakṣye bhuktimuktipradāyinīm |
ekādaśī dvādaśī ca śravaṇena ca saṃyutā
इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रवणद्वादशीव्रतनिरूपणं नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥
12 श्लोक · 136 में से 241
श्रवण नक्षत्र से युक्त एकादशी और द्वादशी विजया तिथि कहलाती है, जिस पर हरि की पूजा अक्षय होती है। द्वादशी को काँसा, मांस, मधु, लोभ, झूठ, व्यायाम, मैथुन, दिन में सोना, अंजन, पीसा अन्न और मसूर छोड़ने चाहिए। श्रवण से युक्त भाद्रपद शुक्ल द्वादशी महाद्वादशी है, जो बुधवार को पड़े और नदियों के संगम पर स्नान हो तो महाफल देती है। जल और रत्नों से भरे कलश पर सोने के वामन को वासुदेव और श्रीधर से सर्वात्मा तक के नामों से अंग-अंग पूजा जाता है। घी की खीर और मोदक का भोग लगता है, रात भर जागरण होता है, और प्रातः गोविन्द से पाप-नाश की प्रार्थना करके कलश ब्राह्मणों को दिए जाते हैं।
ब्रह्मोवाच
श्रवणद्वादशों वक्ष्ये भुक्तिमुक्तिप्रदायिनीम् ।
एकादशी द्वादशी च श्रवणेन च संयुता
śravaṇadvādaśoṃ vakṣye bhuktimuktipradāyinīm |
ekādaśī dvādaśī ca śravaṇena ca saṃyutā
विजया सा तिथिः प्रोक्ता हरिपूजादि चाक्षयम् ।
एक भक्तेन नक्तेन तथैवायाचितेन च
vijayā sā tithiḥ proktā haripūjādi cākṣayam |
eka bhaktena naktena tathaivāyācitena ca
उपवासेन भैक्ष्येण नैवाद्बादशिको भवेत् ।
कास्यं मांसं तथा क्षौद्रं लोभं वितथभाषणम्
upavāsena bhaikṣyeṇa naivādbādaśiko bhavet |
kāsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam
व्यायामं च व्यवायं च दिवास्वप्नमथाञ्जनम् ।
शिलाषिष्टं मसूरं च द्वादश्यां वर्जयेन्नरः
vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam |
śilāṣiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ
मासी भाद्रपदे शुक्ला द्वादशी श्रवणान्विता ।
महती द्वादशी ज्ञेया उपवासे महाफला
māsī bhādrapade śuklā dvādaśī śravaṇānvitā |
mahatī dvādaśī jñeyā upavāse mahāphalā
संगम सरितां स्नानं बुधयुक्ता महाफला ।
कुंभे सरत्ने सजले यजेत्स्वर्णं तु वामनम्
saṃgama saritāṃ snānaṃ budhayuktā mahāphalā |
kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam
सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।
ओं नमो वासुदेवाय शिरः संपूजयेत्ततः
sitavastrayugacchannaṃ chatropānadyugānvitam |
oṃ namo vāsudevāya śiraḥ saṃpūjayettataḥ
श्रीधराय मुखं तद्वत्कण्ठं कृष्णाय वै नमः ।
नमः श्रीपतये वक्षो भुजौ सर्वास्त्रधारिणे
śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ |
namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe
व्यापकाय नमः कुक्षौ केशवायोदरं बुधः ।
त्रैलोक्यपतये मेढ्रं जङ्घे सर्वभृते नमः
vyāpakāya namaḥ kukṣau keśavāyodaraṃ budhaḥ |
trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ
सर्वात्मने नमः पादौ नैवेद्यं घृतपायसम् ।
कुम्भांश्च मोदकान्दद्याज्जागरं कारयेन्निशि
sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam |
kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi
स्नात्वाचान्तोर्ऽचयित्वा तु कृतपुष्पाञ्जलिर्वदेत् ।
नमोनमस्ते गोविन्द बुध श्रवणसंज्ञक
snātvācāntor'cayitvā tu kṛtapuṣpāñjalirvadet |
namonamaste govinda budha śravaṇasaṃjñaka
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ।
प्रीयतां देवदेवेशो विप्रेभ्यः कलशान्ददेत् ।
नद्यस्तीरेऽयः वा कुर्यात्सर्वान्कामानवाप्नुयात्
aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava |
prīyatāṃ devadeveśo viprebhyaḥ kalaśāndadet |
nadyastīre'yaḥ vā kuryātsarvānkāmānavāpnuyāt
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)