वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।
वन एव वसेत् शान्तः तृतीयं भागमायुषः
vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā |
vana eva vaset śāntaḥ tṛtīyaṃ bhāgamāyuṣaḥ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टादशोऽध्यायः ॥
48 श्लोक · 18 में से 31
श्रीकृष्ण आगे के आश्रम बताते हैं। वानप्रस्थ आयु के तीसरे भाग में पत्नी सहित या उसे पुत्रों को सौंपकर वन में रहे, कन्द मूल फल खाए, तप करे, और अन्त में देह भीतर की अग्नि को सौंप दे। जब वैराग्य पूर्ण हो, तब संन्यास ले: अकेले विचरे, दण्ड और कमण्डलु के सिवा कुछ न रखे, बिना माँगे जो मिले वह खाए, जगत को स्वप्न जाने, न स्तुति करे न निन्दा। परमहंस नियमों को सहज भाव से निभाता है, जैसे भगवान अपनी लीला में। पर जो बिना संयम के त्रिदण्ड धारण करता है, वह देवों, अपने आत्मा और भगवान का द्रोही है और दोनों लोक खोता है। हर आश्रम का धर्म भक्ति से जुड़कर भक्त को भगवान तक पहुँचाता है।
श्रीभगवानुवाच
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।
वन एव वसेत् शान्तः तृतीयं भागमायुषः
vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā |
vana eva vaset śāntaḥ tṛtīyaṃ bhāgamāyuṣaḥ
कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् ।
वसीत वल्कलं वासः तृणपर्णाजिनानि च
kandamūlaphalaiḥ vanyaiḥ medhyaiḥ vṛttiṃ prakalpayet |
vasīta valkalaṃ vāsaḥ tṛṇaparṇājināni ca
केशरोमनखश्मश्रुमलानि बिभृयाद् दतः ।
न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः
keśaromanakhaśmaśrumalāni bibhṛyād dataḥ |
na dhāvedapsu majjeta trikālaṃ sthaṇḍileśayaḥ
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले ।
आकण्ठमग्नः शिशिरे एवंवृत्तस्तपश्चरेत्
grīṣme tapyeta pañcāgnīn varṣāsvāsāraṣāḍ jale |
ākaṇṭhamagnaḥ śiśire evaṃvṛttastapaścaret
अग्निपक्वं समश्नीयात् कालपक्वमथापि वा ।
उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा
agnipakvaṃ samaśnīyāt kālapakvamathāpi vā |
ulūkhalāśmakuṭṭo vā dantolūkhala eva vā
स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्तिकारणम् ।
देशकालबलाभिज्ञो नाददीतान्यदाऽऽहृतम्
svayaṃ sañcinuyāt sarvam ātmano vṛttikāraṇam |
deśakālabalābhijño nādadītānyadā''hṛtam
वन्यैश्चरु-पुरोडाशैः निर्वपेत् कालचोदितान् ।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी
vanyaiścaru-puroḍāśaiḥ nirvapet kālacoditān |
na tu śrautena paśunā māṃ yajeta vanāśramī
अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत् ।
चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः
agnihotraṃ ca darśaśca paurṇamāsaśca pūrvavat |
cāturmāsyāni ca muneḥ āmnātāni ca naigamaiḥ
एवं चीर्णेन तपसा मुनिः र्धमनिसंततः ।
मां तपोमयमाराध्य ऋषिलोकादुपैति माम्
evaṃ cīrṇena tapasā muniḥ rdhamanisaṃtataḥ |
māṃ tapomayamārādhya ṛṣilokādupaiti mām
यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत् ।
कामायाल्पीयसे युञ्ज्याद् बालिशः कोऽपरस्ततः
yastvetatkṛcchrataścīrṇaṃ tapo niḥśreyasaṃ mahat |
kāmāyālpīyase yuñjyād bāliśaḥ ko'parastataḥ
यदासौ नियमेऽकल्पो जरया जातवेपथुः ।
आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत्
yadāsau niyame'kalpo jarayā jātavepathuḥ |
ātmanyagnīn samāropya maccitto'gniṃ samāviśet
यदा कर्मविपाकेषु लोकेषु निरयात्मसु ।
विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्ततः
yadā karmavipākeṣu lokeṣu nirayātmasu |
virāgo jāyate samyaṅ nyastāgniḥ pravrajettataḥ
इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे ।
अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत्
iṣṭvā yathopadeśaṃ māṃ dattvā sarvasvamṛtvije |
agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet
विप्रस्य वै संन्यसतो देवा दारादिरूपिणः ।
विघ्नान् कुर्वन्त्ययं ह्यस्मान् आक्रम्य समियात् परम्
viprasya vai saṃnyasato devā dārādirūpiṇaḥ |
vighnān kurvantyayaṃ hyasmān ākramya samiyāt param
बिभृयाच्चेन् मुनिर्वासः कौपीनाच्छादनं परम् ।
त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चिद् अनापदि
bibhṛyāccen munirvāsaḥ kaupīnācchādanaṃ param |
tyaktaṃ na daṇḍapātrābhyām anyat kiñcid anāpadi
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् ।
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत्
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibet jalam |
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret
मौनानीहानिलायामाः दण्डा वाक्-देह-चेतसाम् ।
न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद् यतिः
maunānīhānilāyāmāḥ daṇḍā vāk-deha-cetasām |
na hyete yasya santyaṅga veṇubhirna bhaved yatiḥ
भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् ।
सप्तागारान् असङ्क्लृप्तान् तुष्येत् लब्धेन तावता
bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayan caret |
saptāgārān asaṅklṛptān tuṣyet labdhena tāvatā
बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः ।
विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम्
bahirjalāśayaṃ gatvā tatropaspṛśya vāgyataḥ |
vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣamāhṛtam
एकश्चरेत् महीमेतां निःसङ्गः संयतेन्द्रियः ।
आत्मक्रीड आत्मरत आत्मवान् समदर्शनः
ekaścaret mahīmetāṃ niḥsaṅgaḥ saṃyatendriyaḥ |
ātmakrīḍa ātmarata ātmavān samadarśanaḥ
विविक्तक्षेमशरणो मद्भावविमलाशयः ।
आत्मानं चिन्तयेदेकमभेदेन मया मुनिः
viviktakṣemaśaraṇo madbhāvavimalāśayaḥ |
ātmānaṃ cintayedekamabhedena mayā muniḥ
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया ।
बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः
anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā |
bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ
तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन् मुनिः ।
विरक्तः क्षुद्रकामेभ्यो लब्ध्वा आत्मनि सुखं महत्
tasmānniyamya ṣaḍvargaṃ madbhāvena caren muniḥ |
viraktaḥ kṣudrakāmebhyo labdhvā ātmani sukhaṃ mahat
पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश्चरेत् ।
पुण्यदेश सरिच्छैशैल वनाश्रमवतीं महीम्
puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃścaret |
puṇyadeśa saricchaiśaila vanāśramavatīṃ mahīm
वानप्रस्थाश्रमपदेषु अभीक्ष्णं भैक्ष्यमाचरेत् ।
संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलान्धसा
vānaprasthāśramapadeṣu abhīkṣṇaṃ bhaikṣyamācaret |
saṃsidhyatyāśvasaṃmohaḥ śuddhasattvaḥ śilāndhasā
नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति ।
असक्तचित्तो विरमेद् इहामुत्र चिकीर्षितात्
naitad vastutayā paśyed dṛśyamānaṃ vinaśyati |
asaktacitto viramed ihāmutra cikīrṣitāt
यदेतदात्मनि जगन् मनो-वाक्-प्राण-संहतम् ।
सर्वं मायेति तर्केण स्वस्थः त्यक्त्वा न तत्स्मरेत्
yadetadātmani jagan mano-vāk-prāṇa-saṃhatam |
sarvaṃ māyeti tarkeṇa svasthaḥ tyaktvā na tatsmaret
ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वाऽनपेक्षकः ।
सलिङ्गान् आश्रमान् त्यक्त्वा चरेद् अविधिगोचरः
jñānaniṣṭho virakto vā madbhakto vā'napekṣakaḥ |
saliṅgān āśramān tyaktvā cared avidhigocaraḥ
बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् ।
वदेद् उन्मत्तवद् विद्वान् गोचर्यां नैगमश्चरेत्
budho bālakavat krīḍet kuśalo jaḍavaccaret |
vaded unmattavad vidvān gocaryāṃ naigamaścaret
वेदवादरतो न स्यात् न पाखण्डी न हैतुकः ।
शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत्
vedavādarato na syāt na pākhaṇḍī na haitukaḥ |
śuṣkavādavivāde na kañcit pakṣaṃ samāśrayet
नोद्विजेत जनाद् धीरो जनं चोद्वेजयेत् न तु ।
अतिवादान् तितिक्षेत नावमन्येत कञ्चन ।
देहमुद्दिश्य पशुवत् वैरं कुर्यान् न केनचित्
nodvijeta janād dhīro janaṃ codvejayet na tu |
ativādān titikṣeta nāvamanyeta kañcana |
dehamuddiśya paśuvat vairaṃ kuryān na kenacit
एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
यथेदमुदपात्रेषु भूतान्येकात्मकानि च
eka eva paro hyātmā bhūteṣvātmanyavasthitaḥ |
yathedamudapātreṣu bhūtānyekātmakāni ca
अलब्ध्वा न विषीदेत कालेकालेऽशनं क्वचित् ।
लब्ध्वा न हृष्येद्-धृतिमानुभयं दैवतं त्रितम्
alabdhvā na viṣīdeta kālekāle'śanaṃ kvacit |
labdhvā na hṛṣyed-dhṛtimānubhayaṃ daivataṃ tritam
आहारार्थं समीहेत युक्तं तत् प्राणधारणम् ।
तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते
āhārārthaṃ samīheta yuktaṃ tat prāṇadhāraṇam |
tattvaṃ vimṛśyate tena tad vijñāya vimucyate
यदृच्छयोपपन्नान्नमद्यात् श्रेष्ठमुतापरम् ।
तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः
yadṛcchayopapannānnamadyāt śreṣṭhamutāparam |
tathā vāsaḥ tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ
शौचमाचमनं स्नानं न तु चोदनया चरेत् ।
अन्यांश्च नियमान् ज्ञानी यथाहं लीलयेश्वरः
śaucamācamanaṃ snānaṃ na tu codanayā caret |
anyāṃśca niyamān jñānī yathāhaṃ līlayeśvaraḥ
न हि तस्य विकल्पाख्या या च मद् वीक्षया हता ।
आ देहान्तात् क्वचित् ख्यातिः ततः संपद्यते मया
na hi tasya vikalpākhyā yā ca mad vīkṣayā hatā |
ā dehāntāt kvacit khyātiḥ tataḥ saṃpadyate mayā
दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् ।
अजिज्ञासित मद्धर्मो गुरुं मुनिमुपाव्रजेत्
duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān |
ajijñāsita maddharmo guruṃ munimupāvrajet
तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः ।
यावद् ब्रह्म विजानीयान् मामेव गुरुमादृतः
tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ |
yāvad brahma vijānīyān māmeva gurumādṛtaḥ
यस्त्वसंयत षड्वर्गः प्रचण्डेन्द्रिय सारथिः ।
ज्ञानवैराग्यरहितः त्रिदण्डमुपजीवति
yastvasaṃyata ṣaḍvargaḥ pracaṇḍendriya sārathiḥ |
jñānavairāgyarahitaḥ tridaṇḍamupajīvati
सुरान् आत्मानमात्मस्थं निह्नुते मां च धर्महा ।
अविपक्वकषायोऽस्माद् अमुष्माच्च विहीयते
surān ātmānamātmasthaṃ nihnute māṃ ca dharmahā |
avipakvakaṣāyo'smād amuṣmācca vihīyate
भिक्षोः धर्मः शमोऽहिंसा तप ईक्षा वनौकसः ।
गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम्
bhikṣoḥ dharmaḥ śamo'hiṃsā tapa īkṣā vanaukasaḥ |
gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam
ब्रह्मचर्यं तपः शौचं संतोषो भूतसौहृदम् ।
गृहस्थस्यापि ऋतौ गन्तुः सर्वेषां मदुपासनम्
brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam |
gṛhasthasyāpi ṛtau gantuḥ sarveṣāṃ madupāsanam
इति मां यः स्वधर्मेण भजन् नित्यमनन्यभाक् ।
सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम्
iti māṃ yaḥ svadharmeṇa bhajan nityamananyabhāk |
sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām
भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् ।
सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः
bhaktyoddhavānapāyinyā sarvalokamaheśvaram |
sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ
इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः ।
ज्ञानविज्ञान सम्पन्नो न चिरात् समुपैति माम्
iti svadharmanirṇiktasattvo nirjñātamadgatiḥ |
jñānavijñāna sampanno na cirāt samupaiti mām
वर्णाश्रमवतां धर्म एष आचार लक्षणः ।
स एव मद्भक्तियुतो निःश्रेयसकरः परः
varṇāśramavatāṃ dharma eṣa ācāra lakṣaṇaḥ |
sa eva madbhaktiyuto niḥśreyasakaraḥ paraḥ
एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् ।
यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम्
etatte'bhihitaṃ sādho bhavān pṛcchati yacca mām |
yathā svadharmasaṃyukto bhakto māṃ samiyāt param
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)