दशम स्कन्ध

अध्याय 67: बलराम द्वारा वानर द्विविद का वध

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विविदवधो नाम सप्तषष्टितमोऽध्यायः ॥

28 श्लोक · 67 में से 90

इस अध्याय में क्या होता है

बलराम द्वारा वानर द्विविद का वध

परीक्षित् बलराम की और लीलाएँ सुनना चाहते हैं। शुकदेव कहते हैं कि सुग्रीव का मन्त्री और नरकासुर का मित्र द्विविद वानर था। मित्र का बदला लेने के लिए वह देश उजाड़ने लगा: नगर और गाँव जलाए, समुद्र तट को डुबोया और आश्रमों पर शिलाएँ फेंकीं। एक दिन रैवतक पर्वत पर उसने बलराम को स्त्रियों के बीच गाते और मधुपान करते देखा। वानर ने उनका उपहास किया, अपना पृष्ठभाग दिखाया, मधुकलश तोड़ा और उनके वस्त्र फाड़े। बलराम ने गदा और हल उठाए। द्विविद पहले साल वृक्ष से, फिर पत्थरों की वर्षा से लड़ा। जब उसने दोनों मुक्कों से प्रहार किया, बलराम ने उसकी हँसली पर मुक्का मारा; वानर रक्त उगलता हुआ गिरा और पर्वत काँप उठा। स्तुति पाकर बलराम नगरी लौटते हैं।

श्रीराजोवाच

67.1

भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः ।
अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभुः

bhūyo'haṃ śrotumicchāmi rāmasyādbhutakarmaṇaḥ |
anantasyāprameyasya yadanyat kṛtavān prabhuḥ

श्रीशुक उवाच

67.2

नरकस्य सखा कश्चिद् द्विविदो नाम वानरः ।
सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान्

narakasya sakhā kaścid dvivido nāma vānaraḥ |
sugrīvasacivaḥ so'tha bhrātā maindasya vīryavān

67.3

सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् ।
पुरग्रामाकरान् घोषान् अदहद् वह्निमुत्सृजन्

sakhyuḥ so'pacitiṃ kurvan vānaro rāṣṭraviplavam |
puragrāmākarān ghoṣān adahad vahnimutsṛjan

67.4

क्वचित् स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् ।
आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरिः

kvacit sa śailānutpāṭya tairdeśān samacūrṇayat |
ānartān sutarāmeva yatrāste mitrahā hariḥ

67.5

क्वचित् समुद्रमध्यस्थो दोर्भ्यां उत्क्षिप्य तज्जलम् ।
देशान् नागायुतप्राणो वेलाकूले न्यमज्जयत्

kvacit samudramadhyastho dorbhyāṃ utkṣipya tajjalam |
deśān nāgāyutaprāṇo velākūle nyamajjayat

67.6

आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पतीन् ।
अदूषयत् शकृत् मूत्रैः अग्नीन् वैतानिकान् खलः

āśramān ṛṣimukhyānāṃ kṛtvā bhagnavanaspatīn |
adūṣayat śakṛt mūtraiḥ agnīn vaitānikān khalaḥ

67.7

पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोणीगुहासु सः ।
निक्षिप्य चाप्यधाच्छैलैः पेशस्क्कास्कारीव कीटकम्

puruṣān yoṣito dṛptaḥ kṣmābhṛddroṇīguhāsu saḥ |
nikṣipya cāpyadhācchailaiḥ peśaskkāskārīva kīṭakam

67.8

एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्त्रियः ।
श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ

evaṃ deśān viprakurvan dūṣayaṃśca kulastriyaḥ |
śrutvā sulalitaṃ gītaṃ giriṃ raivatakaṃ yayau

67.9

तत्रापश्यद् यदुपतिं रामं पुष्करमालिनम् ।
सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम्

tatrāpaśyad yadupatiṃ rāmaṃ puṣkaramālinam |
sudarśanīyasarvāṅgaṃ lalanāyūthamadhyagam

67.10

गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् ।
विभ्राजमानं वपुषा प्रभिन्नमिव वारणम्

gāyantaṃ vāruṇīṃ pītvā madavihvalalocanam |
vibhrājamānaṃ vapuṣā prabhinnamiva vāraṇam

67.11

दुष्टः शाखामृगः शाखां आरूढः कंपयन् द्रुमान् ।
चक्रे किलकिलाशब्दं आत्मानं संप्रदर्शयन्

duṣṭaḥ śākhāmṛgaḥ śākhāṃ ārūḍhaḥ kaṃpayan drumān |
cakre kilakilāśabdaṃ ātmānaṃ saṃpradarśayan

67.12

तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः ।
हास्यप्रिया विजहसुः बलदेवपरिग्रहाः

tasya dhārṣṭyaṃ kapervīkṣya taruṇyo jāticāpalāḥ |
hāsyapriyā vijahasuḥ baladevaparigrahāḥ

67.13

ता हेलयामास कपिः भूक्षेपैः संमुखादिभिः ।
दर्शयन् स्वगुदं तासां रामस्य च निरीक्षितः

tā helayāmāsa kapiḥ bhūkṣepaiḥ saṃmukhādibhiḥ |
darśayan svagudaṃ tāsāṃ rāmasya ca nirīkṣitaḥ

67.14

तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः ।
स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः

taṃ grāvṇā prāharat kruddho balaḥ praharatāṃ varaḥ |
sa vañcayitvā grāvāṇaṃ madirākalaśaṃ kapiḥ

67.15

गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन् ।
निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद् बलम्

gṛhītvā helayāmāsa dhūrtastaṃ kopayan hasan |
nirbhidya kalaśaṃ duṣṭo vāsāṃsyāsphālayad balam

67.16

कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः ।
तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान्

kadarthīkṛtya balavān vipracakre madoddhataḥ |
taṃ tasyāvinayaṃ dṛṣṭvā deśāṃśca tadupadrutān

67.17

क्रुद्धो मुसलमादत्त हलं चारिजिघांसया ।
द्विविदोऽपि महावीर्यः शालमुद्यम्य पाणिना

kruddho musalamādatta halaṃ cārijighāṃsayā |
dvivido'pi mahāvīryaḥ śālamudyamya pāṇinā

67.18

अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् ।
तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा

abhyetya tarasā tena balaṃ mūrdhanyatāḍayat |
taṃ tu saṅkarṣaṇo mūrdhni patantamacalo yathā

67.19

प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम् ।
मूषलाहतमस्तिष्को विरेजे रक्तधारया

pratijagrāha balavān sunandenāhanacca tam |
mūṣalāhatamastiṣko vireje raktadhārayā

67.20

गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् ।
पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा

giriryathā gairikayā prahāraṃ nānucintayan |
punaranyaṃ samutkṣipya kṛtvā niṣpatramojasā

67.21

तेनाहनत् सुसङ्क्रुद्धः तं बलः शतधाच्छिनत् ।
ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत्

tenāhanat susaṅkruddhaḥ taṃ balaḥ śatadhācchinat |
tato'nyena ruṣā jaghne taṃ cāpi śatadhācchinat

67.22

एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः ।
आकृष्य सर्वतो वृक्षान् निर्वृक्षं अकरोद् वनम्

evaṃ yudhyan bhagavatā bhagne bhagne punaḥ punaḥ |
ākṛṣya sarvato vṛkṣān nirvṛkṣaṃ akarod vanam

67.23

ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः ।
तत्सर्वं चूर्णयामास लीलया मुसलायुधः

tato'muñcacchilāvarṣaṃ balasyoparyamarṣitaḥ |
tatsarvaṃ cūrṇayāmāsa līlayā musalāyudhaḥ

67.24

स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः ।
आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत्

sa bāhū tālasaṅkāśau muṣṭīkṛtya kapīśvaraḥ |
āsādya rohiṇīputraṃ tābhyāṃ vakṣasyarūrujat

67.25

यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसललाङ्गले ।
जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद् रुधिरं वमन्

yādavendro'pi taṃ dorbhyāṃ tyaktvā musalalāṅgale |
jatrāvabhyardayatkruddhaḥ so'patad rudhiraṃ vaman

67.26

चकम्पे तेन पतता सटङ्कः सवनस्पतिः ।
पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि

cakampe tena patatā saṭaṅkaḥ savanaspatiḥ |
parvataḥ kuruśārdūla vāyunā naurivāmbhasi

67.27

जयशब्दो नमःशब्दः साधु साध्विति चाम्बरे ।
सुरसिद्धमुनीन्द्राणां आसीत् कुसुमवर्षिणाम्

jayaśabdo namaḥśabdaḥ sādhu sādhviti cāmbare |
surasiddhamunīndrāṇāṃ āsīt kusumavarṣiṇām

67.28

एवं निहत्य द्विविदं जगद्व्यतिकरावहम् ।
संस्तूयमानो भगवान् जनैः स्वपुरमाविशत्

evaṃ nihatya dvividaṃ jagadvyatikarāvaham |
saṃstūyamāno bhagavān janaiḥ svapuramāviśat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)