उमा संहिता

अध्याय 5: महापातक और उनके समान पाप

इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां महापातकवर्णनं नाम पंचमोऽध्यायः ॥

40 श्लोक · 5 में से 51

इस अध्याय में क्या होता है

महापातक और उनके समान पाप

व्यास पूछते हैं कि कौन-से कर्म जीवों को महानरक में ले जाते हैं। सनत्कुमार मन, वाणी और शरीर के बारह प्रकार के पाप बताते हैं: पराई स्त्री या धन की इच्छा, असत्य, चुगली, हिंसा, अभक्ष्य-भक्षण और चोरी। सबसे भारी पाप हैं महादेव से द्वेष, शिवज्ञान के वक्ता की निन्दा, देवता या ब्राह्मण का धन हरना, और शिवज्ञान की पुस्तक चुराना। शिवपूजा की उपेक्षा, शिवलिंग या गुरु के सामने मनमाना आचरण और संकट में पड़े गुरु को छोड़ देना भी इन्हीं के समान हैं। फिर पाँच महापातक बताए जाते हैं: ब्रह्महत्या, सुरापान, स्वर्ण की चोरी, गुरुपत्नी-गमन और इन पापियों का संग। हर एक के साथ वे कर्म भी गिनाए गए हैं जिन्हें शास्त्र उसी के समान मानता है।

व्यास उवाच

5.1

ये पापनिरता जीवा महानरकहेतवः ।
भगवंस्तान्समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते

ye pāpaniratā jīvā mahānarakahetavaḥ |
bhagavaṃstānsamācakṣva brahmaputra namo'stu te

सनत्कुमार उवाच

5.2

ये पापनिरता जीवा महानरकहेतवः ।
ते समासेन कथ्यंते सावधानतया शृणु

ye pāpaniratā jīvā mahānarakahetavaḥ |
te samāsena kathyaṃte sāvadhānatayā śṛṇu

5.3

परस्त्रीद्रव्यसंकल्पश्चेतसाऽनिष्टचिंतनम् ।
अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम्

parastrīdravyasaṃkalpaścetasā'niṣṭaciṃtanam |
akāryābhiniveśaśca caturddhā karma mānasam

5.4

तु. महाभारतम् अनुशासन
अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् ।
परोक्षतश्च पैशुन्यं चतुर्द्धा कर्म वाचिकम्

tu. mahābhāratam anuśāsana
avibaddhapralāpatvamasatyaṃ cāpriyaṃ ca yat |
parokṣataśca paiśunyaṃ caturddhā karma vācikam

5.5

अभक्ष्यभक्षणं हिंसा मिथ्याकार्य्य निवेशनम् ।
परस्वानामुपादानं चतुर्द्धा कर्म कायिकम्

abhakṣyabhakṣaṇaṃ hiṃsā mithyākāryya niveśanam |
parasvānāmupādānaṃ caturddhā karma kāyikam

5.6

इत्येतद्वा दशविधं कर्म प्रोक्तं त्रिसाधनम् ।
अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम्

ityetadvā daśavidhaṃ karma proktaṃ trisādhanam |
asya bhedānpunarvakṣye yeṣāṃ phalamanaṃtakam

5.7

ये द्विषंति महादेवं संसारार्णवतारकम् ।
सुमहत्पातकं तेषां निरयार्णवगामिनाम्

ye dviṣaṃti mahādevaṃ saṃsārārṇavatārakam |
sumahatpātakaṃ teṣāṃ nirayārṇavagāminām

5.8

ये शिवज्ञानवक्तारं निन्दंति च तपस्विनम् ।
गुरून्पितॄनथोन्मत्तास्ते यांति निरयार्णवम्

ye śivajñānavaktāraṃ nindaṃti ca tapasvinam |
gurūnpitṝnathonmattāste yāṃti nirayārṇavam

5.9

शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ।
देवद्रव्यापहरणं द्विजद्रव्यविनाशनम्

śivanindā gurornindā śivajñānasya dūṣaṇam |
devadravyāpaharaṇaṃ dvijadravyavināśanam

5.10

हरंति ये च संमूढाश्शिवज्ञानस्य पुस्तकम् ।
महांति पातकान्याहुरनन्तफलदानि षट्

haraṃti ye ca saṃmūḍhāśśivajñānasya pustakam |
mahāṃti pātakānyāhuranantaphaladāni ṣaṭ

5.11

नाभिनन्दंति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् ।
न नमंत्यर्चितं दृष्ट्वा शिवलिंगं स्तुवंति न

nābhinandaṃti ye dṛṣṭvā śivapūjāṃ prakalpitām |
na namaṃtyarcitaṃ dṛṣṭvā śivaliṃgaṃ stuvaṃti na

5.12

यथेष्टचेष्टा निश्शंकास्संतिष्ठंते रमंति च ।
उपचारविनिर्मुक्ताश्शिवाग्रे गुरुसन्निधौ

yatheṣṭaceṣṭā niśśaṃkāssaṃtiṣṭhaṃte ramaṃti ca |
upacāravinirmuktāśśivāgre gurusannidhau

5.13

स्थानसंस्कारपूजां च ये न कुर्वंति पर्वसु ।
विधिवद्वा गुरूणां च कर्म्मयोगव्यवस्थिताः

sthānasaṃskārapūjāṃ ca ye na kurvaṃti parvasu |
vidhivadvā gurūṇāṃ ca karmmayogavyavasthitāḥ

5.14

ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च ।
असंपूज्य शिवज्ञानं येऽधीयंते लिखंति च

ye tyajaṃti śivācāraṃ śivabhaktāndviṣaṃti ca |
asaṃpūjya śivajñānaṃ ye'dhīyaṃte likhaṃti ca

5.15

अन्यायतः प्रयच्छंति शृण्वन्त्युच्चारयंति च ।
विक्रीडंति च लोभेन कुज्ञाननियमेन च

anyāyataḥ prayacchaṃti śṛṇvantyuccārayaṃti ca |
vikrīḍaṃti ca lobhena kujñānaniyamena ca

5.16

असंस्कृतप्रदेशेषु यथेष्टं स्वापयंति च ।
शिवज्ञानकथाऽऽक्षेपं यः कृत्वान्यत्प्रभाषते

asaṃskṛtapradeśeṣu yatheṣṭaṃ svāpayaṃti ca |
śivajñānakathā''kṣepaṃ yaḥ kṛtvānyatprabhāṣate

5.17

न ब्रवीति च यः सत्यं न प्रदानं करोति च ।
अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च

na bravīti ca yaḥ satyaṃ na pradānaṃ karoti ca |
aśucirvā'śucisthāne yaḥ pravakti śṛṇoti ca

5.18

गुरुपूजामकृत्वैव यश्शास्त्रं श्रोतुमिच्छति ।
न करोति च शुश्रूषामाज्ञां च भक्तिभावतः

gurupūjāmakṛtvaiva yaśśāstraṃ śrotumicchati |
na karoti ca śuśrūṣāmājñāṃ ca bhaktibhāvataḥ

5.19

नाभिनन्दंति तद्वाक्यमुत्तरं च प्रयच्छति ।
गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च

nābhinandaṃti tadvākyamuttaraṃ ca prayacchati |
gurukarmaṇyasādhyaṃ yattadupekṣāṃ karoti ca

5.20

गुरुमार्त्तमशक्तं च विदेशं प्रस्थितं तथा ।
वैरिभिः परिभूतं वा यस्संत्यजति पापकृत्

gurumārttamaśaktaṃ ca videśaṃ prasthitaṃ tathā |
vairibhiḥ paribhūtaṃ vā yassaṃtyajati pāpakṛt

5.21

तद्भार्य्यापुत्रमित्रेषु यश्चावज्ञां करोति च ।
एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः

tadbhāryyāputramitreṣu yaścāvajñāṃ karoti ca |
evaṃ suvācakasyāpi gurordharmānudarśinaḥ

5.22

एतानि खलु सर्वाणि कर्माणि मुनिसत्तम ।
सुमहत्पातकान्याहुश्शिवनिन्दासमानि च

etāni khalu sarvāṇi karmāṇi munisattama |
sumahatpātakānyāhuśśivanindāsamāni ca

5.23

ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
महापातकिनस्त्वेते तत्संयोगी च पंचमः

brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ |
mahāpātakinastvete tatsaṃyogī ca paṃcamaḥ

5.24

क्रोधाल्लोभाद्भयाद्द्वेषाद्ब्राह्मणस्य वधे तु यः ।
मर्मांतिकं महादोषमुक्त्वा स ब्रह्महा भवेत्

krodhāllobhādbhayāddveṣādbrāhmaṇasya vadhe tu yaḥ |
marmāṃtikaṃ mahādoṣamuktvā sa brahmahā bhavet

5.25

ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च ।
निर्द्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत्

brāhmaṇaṃ yaḥ samāhūya dattvā yaścādadāti ca |
nirddoṣaṃ dūṣayedyastu sa naro brahmahā bhavet

5.26

यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् ।
उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः

yaśca vidyābhimānena nistejayati sudvijam |
udāsīnaṃ sabhāmadhye brahmahā sa prakīrtitaḥ

5.27

मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् ।
गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत्

mithyāguṇairya ātmānaṃ nayatyutkarṣatāṃ balāt |
guṇānapi nirudvāsya sa ca vai brahmahā bhavet

5.28

गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् ।
यस्समाचरते विप्र तमाहुर्ब्रह्मघातकम्

gavāṃ vṛṣābhibhūtānāṃ dvijānāṃ gurupūrvakam |
yassamācarate vipra tamāhurbrahmaghātakam

5.29

देवद्विजगवां भूमिं प्रदत्तां हरते तु यः ।
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम्

devadvijagavāṃ bhūmiṃ pradattāṃ harate tu yaḥ |
pranaṣṭāmapi kālena tamāhurbrahmaghātakam

5.30

देवद्विजस्वहरणमन्यायेनार्जितं तु यत् ।
ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः

devadvijasvaharaṇamanyāyenārjitaṃ tu yat |
brahmahatyāsamaṃ jñeyaṃ pātakaṃ nātra saṃśayaḥ

5.31

अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् ।
यदि त्यजति यो मूढः सुरापानस्य तत्समम्

adhītya yo dvijo vedaṃ brahmajñānaṃ śivātmakam |
yadi tyajati yo mūḍhaḥ surāpānasya tatsamam

5.32

यत्किंचिद्धि व्रतं गृह्य नियमं यजनं तथा ।
संत्यागः पञ्चयज्ञानां सुरापानस्य तत्समम्

yatkiṃciddhi vrataṃ gṛhya niyamaṃ yajanaṃ tathā |
saṃtyāgaḥ pañcayajñānāṃ surāpānasya tatsamam

5.33

पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् ।
आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम्

pitṛmātṛparityāgaḥ kūṭasākṣyaṃ dvijānṛtam |
āmiṣaṃ śivabhaktānāmabhakṣyasya ca bhakṣaṇam

5.34

वने निरपराधानां प्राणिनां चापघातनम् ।
द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत्

vane niraparādhānāṃ prāṇināṃ cāpaghātanam |
dvijārthaṃ prakṣipetsādhurna dharmārthaṃ niyojayet

5.35

गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते ।
इति पापानि घोराणि ब्रह्महत्यासमानि च

gavāṃ mārge vane grāme yaiścaivāgniḥ pradīyate |
iti pāpāni ghorāṇi brahmahatyāsamāni ca

5.36

दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ।
गोभूरजतवस्त्राणामौषधीनां रसस्य च

dīnasarvasvaharaṇaṃ narastrīgajavājinām |
gobhūrajatavastrāṇāmauṣadhīnāṃ rasasya ca

5.37

चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम् ।
विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः

candanāgarukarpūrakastūrīpaṭṭavāsasām |
vikrayastvavipattau yaḥ kṛto jñānād dvijātibhiḥ

5.38

हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ।
कन्यानां वरयोग्यानामदानं सदृशे वरे

hastanyāsāpaharaṇaṃ rukmasteyasamaṃ smṛtam |
kanyānāṃ varayogyānāmadānaṃ sadṛśe vare

5.39

पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।
कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम्

putramitrakalatreṣu gamanaṃ bhaginīṣu ca |
kumārīsāhasaṃ ghoramadyapastrīniṣevaṇam

5.40

सवर्णायाश्च गमनं गुरुभार्य्यासमं स्मृतम् ।
महापापानि चोक्तानि शृणु त्वमुपपातकम्

savarṇāyāśca gamanaṃ gurubhāryyāsamaṃ smṛtam |
mahāpāpāni coktāni śṛṇu tvamupapātakam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)