रुद्र संहिता — पार्वती खण्ड

अध्याय 46: मेना की आरती और शिव को पार्वती-दर्शन

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ॥

36 श्लोक · 46 में से 55

इस अध्याय में क्या होता है

मेना की आरती और शिव को पार्वती-दर्शन

मेना ऋषिपत्नियों के साथ दीप-थाल लेकर वर की आरती करने द्वार पर आती हैं। वे उन्हें चम्पा के फूल-से गौर, एकमुख, त्रिनेत्र, मुस्कराते, रत्नमुकुट, मालती की माला और अग्नि-शुद्ध रेशमी वस्त्र पहने, आँखों में काजल और हाथ में रत्न-दर्पण लिए, करोड़ कामदेवों से सुन्दर देखती हैं। उनका शोक मिट जाता है; वे पाती हैं कि पार्वती ने जैसा कहा था, उससे भी सुन्दर हैं। कुमारियाँ गिरिजा को धन्य कहती हैं, गन्धर्व गाते और अप्सराएँ नाचती हैं, और हिमवान द्वाराचार करते हैं। फिर सखियाँ पार्वती को कुलदेवी की पूजा के लिए नगर के बाहर ले जाती हैं। देवता अपलक उन्हें देखते हैं और जगन्माता को प्रणाम करते हैं, और उनमें सती का रूप देखकर शिव विरह का ताप भूल जाते हैं।

ब्रह्मोवाच

46.1

सर्वैरन्यैर्गिरेर्द्धाम जगाम सकुतूहलम्

sarvairanyairgirerddhāma jagāma sakutūhalam

46.2

मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ।
तत उत्थाय स्वगृहा भ्यंतरं सा जगाम ह

menāpi strīgaṇaistaiśca himācalavarapriyā |
tata utthāya svagṛhā bhyaṃtaraṃ sā jagāma ha

46.3

नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ।
सर्वर्षिस्त्रीगणैस्साकमगच्छद्द्वारमादरात्

nīrājanārthaṃ śambhośca dīpapātrakarā satī |
sarvarṣistrīgaṇaissākamagacchaddvāramādarāt

46.4

तत्रागतं महेशानं शंकरं गिरिजावरम् ।
ददर्श प्रीतितो मेना सेवितं सकलैस्सुरैः

tatrāgataṃ maheśānaṃ śaṃkaraṃ girijāvaram |
dadarśa prītito menā sevitaṃ sakalaissuraiḥ

46.5

चारुचंपकवर्णाभं ह्येकवक्त्रं त्रिलोचनम् ।
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम्

cārucaṃpakavarṇābhaṃ hyekavaktraṃ trilocanam |
īṣaddhāsyaprasannāsyaṃ ratnasvarṇādibhūṣitam

46.6

मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ।
सत्कंठाभरणं चारुवलयांगदभूषितम्

mālatīmālayā yuktaṃ sadratnamukuṭojjvalam |
satkaṃṭhābharaṇaṃ cāruvalayāṃgadabhūṣitam

46.7

वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ।
अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम्

vahniśaucenātulena tvatisūkṣmeṇa cāruṇā |
amūlyavastrayugmena vicitreṇātirājitam

46.8

चन्दनागरुकस्तूरीचारुकुंकुम भूषितम् ।
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम्

candanāgarukastūrīcārukuṃkuma bhūṣitam |
ratnadarpaṇahastaṃ ca kajjalojjvalalocanam

46.9

सर्वस्वप्रभयाच्छन्नमतीवसुमनोहरम् ।
अतीव तरुणं रम्यं भूषितांगैश्च भूषितम्

sarvasvaprabhayācchannamatīvasumanoharam |
atīva taruṇaṃ ramyaṃ bhūṣitāṃgaiśca bhūṣitam

46.10

कामिनीकांतमव्यग्रं कोटिचन्द्राननांबुजम् ।
कोटिस्मराधिकतनुच्छविं सर्वांगसुंदरम्

kāminīkāṃtamavyagraṃ koṭicandrānanāṃbujam |
koṭismarādhikatanucchaviṃ sarvāṃgasuṃdaram

46.11

ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ।
दृष्ट्वा जामातरं मेना जहौ शोकम्मुदाऽन्विता

īdṛgvidhaṃ sudevaṃ taṃ sthitaṃ svapurataḥ prabhum |
dṛṣṭvā jāmātaraṃ menā jahau śokammudā'nvitā

46.12

प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ।
मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः

praśaśaṃsa svabhāgyaṃ sā girijāṃ bhūdharaṃ kulam |
mene kṛtārthamātmānaṃ jaharṣa ca punaḥ punaḥ

46.13

नीराजनं चकारासौ प्रफुल्लवदना सती ।
अवलोकपरा तत्र मेना जामातरं मुदा

nīrājanaṃ cakārāsau praphullavadanā satī |
avalokaparā tatra menā jāmātaraṃ mudā

46.14

गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ।
मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा

girijoktamanusmṛtya menā vismayamāgatā |
manasaiva hyuvācedaṃ harṣaphullānanāmbujā

46.15

यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ।
ततोधिकं प्रपश्यामि सौन्दर्य्यं परमेशितुः

yadvai puroktaṃ ca tayā pārvatyā mama tatra ca |
tatodhikaṃ prapaśyāmi saundaryyaṃ parameśituḥ

46.16

महेशस्य सुलावण्यमनिर्वाच्यं च संप्रति ।
एवं विस्मयमापन्ना मेना स्वगृहमाययौ

maheśasya sulāvaṇyamanirvācyaṃ ca saṃprati |
evaṃ vismayamāpannā menā svagṛhamāyayau

46.17

प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ।
दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः

praśaśaṃsuryuvatayo dhanyā dhanyā gireḥ sutā |
durgā bhagavatītyevamūcuḥ kāścana kanyakāḥ

46.18

न दृष्टो वर इत्येवमस्माभिर्द्दानगोचरः ।
धन्या हि गिरिजा देवीमूचुः काश्चन कन्यकाः

na dṛṣṭo vara ityevamasmābhirddānagocaraḥ |
dhanyā hi girijā devīmūcuḥ kāścana kanyakāḥ

46.19

जगुर्गन्धर्व्वप्रवरा ननृतुश्चाप्सरोगणाः ।
दृष्ट्वा शंकररूपं च प्रहृष्टास्सर्वदेवताः

jagurgandharvvapravarā nanṛtuścāpsarogaṇāḥ |
dṛṣṭvā śaṃkararūpaṃ ca prahṛṣṭāssarvadevatāḥ

46.20

नानाप्रकारवाद्यानि वादका मधुराक्षरम् ।
नानाप्रकारशिल्पेन वादयामासुरादरात्

nānāprakāravādyāni vādakā madhurākṣaram |
nānāprakāraśilpena vādayāmāsurādarāt

46.21

हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ।
मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम्

himācalo'pi mudito dvārācāramathākarot |
menāpi sarvanārībhirmahotsavapurassaram

46.22

परपुच्छां चकारासौ मुदिता स्वगृहं ययौ ।
शिवो निवेदितं स्थानं जगाम गणनिर्जरैः

parapucchāṃ cakārāsau muditā svagṛhaṃ yayau |
śivo niveditaṃ sthānaṃ jagāma gaṇanirjaraiḥ

46.23

एतस्मिन्नन्तरे दुर्गां शैलान्तःपुरचारिका ।
बहिर्जग्मुस्समादाय पूजितुं कुलदेवताम्

etasminnantare durgāṃ śailāntaḥpuracārikā |
bahirjagmussamādāya pūjituṃ kuladevatām

46.24

तत्र तां ददृशुर्देवा निमेषरहिता मुदा ।
सुनीलांजनवर्णाभां स्वांगैश्च प्रतिभूषिताम्

tatra tāṃ dadṛśurdevā nimeṣarahitā mudā |
sunīlāṃjanavarṇābhāṃ svāṃgaiśca pratibhūṣitām

46.25

त्रिनेत्रादृतनेत्रांतामन्यवारितलोचनाम् ।
ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम्

trinetrādṛtanetrāṃtāmanyavāritalocanām |
īṣaddhāsyaprasannāsyāṃ sakaṭākṣāṃ manoharām

46.26

सुचारुकबरीभारां चारुपत्रक शोभिताम् ।
कस्तूरीबिन्दुभिस्सार्द्धं सिन्दूरबिन्दुशोभिताम्

sucārukabarībhārāṃ cārupatraka śobhitām |
kastūrībindubhissārddhaṃ sindūrabinduśobhitām

46.27

रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ।
रत्नकेयूरवलयां रत्नकङ्कणमंडिताम्

ratnendrasārahāreṇa vakṣasā suvirājitām |
ratnakeyūravalayāṃ ratnakaṅkaṇamaṃḍitām

46.28

सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ।
मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम्

sadratnakuṇḍalābhyāṃ ca cārugaṇḍasthalojjvalām |
maṇiratnaprabhāmuṣṭidantarājivirājitām

46.29

मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ।
रत्नदर्प्पणहस्तां च क्रीडापद्मविभूषिताम्

madhubimbādharoṣṭhāṃ ca ratnayāvakasaṃyutām |
ratnadarppaṇahastāṃ ca krīḍāpadmavibhūṣitām

46.30

चन्दनागुरुकस्तूरीकुंकुमेनाति च र्चिताम् ।
क्वणन्मंजीरपादां च रक्तांघ्रितलराजिताम्

candanāgurukastūrīkuṃkumenāti ca rcitām |
kvaṇanmaṃjīrapādāṃ ca raktāṃghritalarājitām

46.31

प्रणेमुश्शिरसा देवीं भक्तियुक्ताः समेनकाम् ।
सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम्

praṇemuśśirasā devīṃ bhaktiyuktāḥ samenakām |
sarve surādayo dṛṣṭvā jagadādyāṃ jagatprasūm

46.32

त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ।
शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम्

trinetro netrakoṇena tāṃ dadarśa mudānvitaḥ |
śivaḥ satyākṛtiṃ dṛṣṭvā vijahau virahajvaram

46.33

शिवस्सर्वं विसस्मार शिवासंन्यस्तलोचनः ।
पुलकांचितसर्वाङ्गो हर्षाद्गौरीविलोचनः

śivassarvaṃ visasmāra śivāsaṃnyastalocanaḥ |
pulakāṃcitasarvāṅgo harṣādgaurīvilocanaḥ

46.34

अथ कालीबहिः पुर्य्यां गत्वा पूज्य कुलाम्बिकाम् ।
विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना

atha kālībahiḥ puryyāṃ gatvā pūjya kulāmbikām |
viveśa bhavanaṃ ramyaṃ svapitussadvijāṅganā

46.35

शङ्करोपि सुरैस्सार्द्धं हरिणा ब्राह्मणा तथा ।
हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा

śaṅkaropi suraissārddhaṃ hariṇā brāhmaṇā tathā |
himācalasamuddiṣṭaṃ svasthānamagamanmudā

46.36

तत्र सर्वे सुखं तस्थुस्सेवन्तश्शङ्करं यथा ।
सम्मानिता गिरीशेन नानाविधसुसम्पदा

tatra sarve sukhaṃ tasthussevantaśśaṅkaraṃ yathā |
sammānitā girīśena nānāvidhasusampadā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)