कोटिरुद्र संहिता

अध्याय 42: सगुण और निर्गुण शिव

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सगुणनिर्गुणभेदवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥

32 श्लोक · 42 में से 43

इस अध्याय में क्या होता है

सगुण और निर्गुण शिव

ऋषि पूछते हैं कि शिव, हरि, रुद्र और ब्रह्मा कौन हैं, और निर्गुण कौन है। सूत उत्तर देते हैं कि निर्गुण परमात्मा से जो पहले प्रकट हुआ, उसे वेदान्ती शिव कहते हैं। उनसे पुरुष सहित प्रकृति प्रकट हुई, जिन्होंने पंचक्रोशी काशी में मूल जल में तप किया। उस जल पर हरि नारायण रूप में सोए, और उनके नाभिकमल से ब्रह्मा प्रकट हुए। सबके ध्यान के लिए अरूप ने रूप धारण किया। शिव और रुद्र में वास्तव में भेद नहीं, जैसे सोने और आभूषण में। दूसरे क्रम से लय पाते हैं, पर रुद्र शिव में लीन होते हैं। ब्रह्मा से तृण तक जो दिखता है वह सब शिव है; महाकाली सहित महाकाल काल की गणना से परे हैं। फिर मुनि सच्चे ज्ञान के लक्षण पूछते हैं।

ऋषय ऊचुः

42.1

शिवः को वा हरिः को वा रुद्रः को वा विधिश्च कः ।
एतेषु निर्गुणः को वा ह्येतं नश्छिन्धि संशयम्

śivaḥ ko vā hariḥ ko vā rudraḥ ko vā vidhiśca kaḥ |
eteṣu nirguṇaḥ ko vā hyetaṃ naśchindhi saṃśayam

सूत उवाच

42.2

यच्चादौ हि समुत्पन्नं निर्गुणात्परमात्मनः ।
तदेव शिवसंज्ञं हि वेदवेदांतिनो विदुः

yaccādau hi samutpannaṃ nirguṇātparamātmanaḥ |
tadeva śivasaṃjñaṃ hi vedavedāṃtino viduḥ

42.3

तस्मात्प्रकृतिरुत्पन्ना पुरुषेण समन्विता ।
ताभ्यान्तपः कृतं तत्र मूलस्थे च जले सुधीः

tasmātprakṛtirutpannā puruṣeṇa samanvitā |
tābhyāntapaḥ kṛtaṃ tatra mūlasthe ca jale sudhīḥ

42.4

पञ्चकोशीति विख्याता काशी सर्वातिवल्लभा ।
व्याप्तं च सकलं ह्येतत्तज्जलं विश्वतो गतम्

pañcakośīti vikhyātā kāśī sarvātivallabhā |
vyāptaṃ ca sakalaṃ hyetattajjalaṃ viśvato gatam

42.5

संभाव्य मायया युक्तस्तत्र सुप्तो हरिस्स वै ।
नारायणेति विख्यातः प्रकृतिर्नारायणी मता

saṃbhāvya māyayā yuktastatra supto harissa vai |
nārāyaṇeti vikhyātaḥ prakṛtirnārāyaṇī matā

42.6

तन्नाभिकमले यो वै जातस्स च पितामहः ।
तेनैव तपसा दृष्टस्स वै विष्णुरुदाहृतः

tannābhikamale yo vai jātassa ca pitāmahaḥ |
tenaiva tapasā dṛṣṭassa vai viṣṇurudāhṛtaḥ

42.7

उभयोर्वादशमने यद्रूपं स दर्शितं बुधाः ।
महादेवेति विख्यातं निर्गुणेन शिवेन हि

ubhayorvādaśamane yadrūpaṃ sa darśitaṃ budhāḥ |
mahādeveti vikhyātaṃ nirguṇena śivena hi

42.8

तेन प्रोक्तमहं शम्भुर्भविष्यामि कभालतः ।
रुद्रो नाम स विख्यातो लोकानुग्रहकारकः

tena proktamahaṃ śambhurbhaviṣyāmi kabhālataḥ |
rudro nāma sa vikhyāto lokānugrahakārakaḥ

42.9

ध्यानार्थं चैव सर्वेषामरूपो रूपवानभूत् ।
स एव च शिवस्साक्षाद्भक्तवात्सल्यकारकः

dhyānārthaṃ caiva sarveṣāmarūpo rūpavānabhūt |
sa eva ca śivassākṣādbhaktavātsalyakārakaḥ

42.10

शिवे त्रिगुणसम्भिन्ने रुद्रे तु गुणधामनि ।
वस्तुतो न हि भेदोऽस्ति स्वर्णे तद्भूषणे यथा

śive triguṇasambhinne rudre tu guṇadhāmani |
vastuto na hi bhedo'sti svarṇe tadbhūṣaṇe yathā

42.11

समानरूपकर्माणौ समभक्तगतिप्रदौ ।
समानाखिलसंसेव्यौ नानालीलाविहारिणौ

samānarūpakarmāṇau samabhaktagatipradau |
samānākhilasaṃsevyau nānālīlāvihāriṇau

42.12

सर्वथा शिवरूपो हि रुद्रो रौद्रपराक्रमः ।
उत्पन्नो भक्तकार्यार्थं हरिब्रह्मसहायकृत्

sarvathā śivarūpo hi rudro raudraparākramaḥ |
utpanno bhaktakāryārthaṃ haribrahmasahāyakṛt

42.13

अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ।
यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते

anye ca ye samutpannā yathānukramato layam |
yāṃti naiva tathā rudraḥ śive rudro vilīyate

42.14

ते वै रुद्रं मिलित्वा तु प्रयान्ति प्रकृता इमे ।
इमान्रुद्रो मिलित्वा तु न याति श्रुतिशासनम्

te vai rudraṃ militvā tu prayānti prakṛtā ime |
imānrudro militvā tu na yāti śrutiśāsanam

42.15

सर्वे रुद्रं भजन्त्येव रुद्रः कञ्चिद्भजेन्न हि ।
स्वात्मना भक्तवात्सल्याद्भजत्येव कदाचन

sarve rudraṃ bhajantyeva rudraḥ kañcidbhajenna hi |
svātmanā bhaktavātsalyādbhajatyeva kadācana

42.16

अन्यं भजन्ति ये नित्यं तस्मिंस्ते लीनतां गताः ।
तेनैव रुद्रं ते प्राप्ताः कालेन महता बुधाः

anyaṃ bhajanti ye nityaṃ tasmiṃste līnatāṃ gatāḥ |
tenaiva rudraṃ te prāptāḥ kālena mahatā budhāḥ

42.17

रुद्रभक्तास्तु ये केचित्तत्क्षणं शिवतां गताः ।
अन्यापेक्षा न वै तेषां श्रुतिरेषा सनातनी

rudrabhaktāstu ye kecittatkṣaṇaṃ śivatāṃ gatāḥ |
anyāpekṣā na vai teṣāṃ śrutireṣā sanātanī

42.18

अज्ञानं विविधं ह्येतद्विज्ञानं विविधं न हि ।
तत्प्रकारमहं वक्ष्ये शृणुतादरतो द्विजाः

ajñānaṃ vividhaṃ hyetadvijñānaṃ vividhaṃ na hi |
tatprakāramahaṃ vakṣye śṛṇutādarato dvijāḥ

42.19

ब्रह्मादि तृणपर्यंतं यत्किंचिद्दृश्यते त्विह ।
तत्सर्वं शिव एवास्ति मिथ्या नानात्वकल्पना

brahmādi tṛṇaparyaṃtaṃ yatkiṃciddṛśyate tviha |
tatsarvaṃ śiva evāsti mithyā nānātvakalpanā

42.20

सृष्टेः पूर्वं शिवः प्रोक्तः सृष्टेर्मध्ये शिवस्तथा ।
सृष्टेरन्ते शिवः प्रोक्तस्सर्वशून्ये तदा शिवः

sṛṣṭeḥ pūrvaṃ śivaḥ proktaḥ sṛṣṭermadhye śivastathā |
sṛṣṭerante śivaḥ proktassarvaśūnye tadā śivaḥ

42.21

तस्माच्चतुर्गुणः प्रोक्तः शिव एव मुनीश्वराः ।
स एव सगुणो ज्ञेयः शक्तिमत्त्वाद्द्विधापि सः

tasmāccaturguṇaḥ proktaḥ śiva eva munīśvarāḥ |
sa eva saguṇo jñeyaḥ śaktimattvāddvidhāpi saḥ

42.22

येनैव विष्णवे दत्तास्सर्वे वेदास्सनातनाः ।
वर्णा मात्रा ह्यनैकाश्च ध्यानं स्वस्य च पूजनम्

yenaiva viṣṇave dattāssarve vedāssanātanāḥ |
varṇā mātrā hyanaikāśca dhyānaṃ svasya ca pūjanam

42.23

ईशानः सर्वविद्यानां श्रुतिरेषा सनातनी ।
वेदकर्ता वेदपतिस्तस्माच्छंभुरुदाहृतः

īśānaḥ sarvavidyānāṃ śrutireṣā sanātanī |
vedakartā vedapatistasmācchaṃbhurudāhṛtaḥ

42.24

स एव शंकरः साक्षात्सर्वानुग्रहकारकः ।
कर्ता भर्ता च हर्ता च साक्षी निर्गुण एव सः

sa eva śaṃkaraḥ sākṣātsarvānugrahakārakaḥ |
kartā bhartā ca hartā ca sākṣī nirguṇa eva saḥ

42.25

अन्येषां कालमानं च कालस्य कलना न हि ।
महाकालस्स्वयं साक्षान्महाकालीसमाश्रितः

anyeṣāṃ kālamānaṃ ca kālasya kalanā na hi |
mahākālassvayaṃ sākṣānmahākālīsamāśritaḥ

42.26

तथा च ब्राह्मणा रुद्रं तथा कालीं प्रचक्षते ।
सर्वं ताभ्यान्ततः प्राप्तमिच्छया सत्यलीलया

tathā ca brāhmaṇā rudraṃ tathā kālīṃ pracakṣate |
sarvaṃ tābhyāntataḥ prāptamicchayā satyalīlayā

42.27

न तस्योत्पादकः कश्चिद्भर्ता हर्ता न तस्य हि ।
स्वयं सर्वस्य हेतुस्ते कार्यभूताच्युतादयः

na tasyotpādakaḥ kaścidbhartā hartā na tasya hi |
svayaṃ sarvasya hetuste kāryabhūtācyutādayaḥ

42.28

स्वयं च कारणं कार्यं स्वस्य नैव कदाचन ।
एकोव्यनेकतां यातोप्यनेकोप्येकतां व्रजेत्

svayaṃ ca kāraṇaṃ kāryaṃ svasya naiva kadācana |
ekovyanekatāṃ yātopyanekopyekatāṃ vrajet

42.29

एकं बीजं बहिर्भूत्वा पुनर्बीजं च जायते ।
बहुत्वे च स्वयं सर्वं शिवरूपी महेश्वरः

ekaṃ bījaṃ bahirbhūtvā punarbījaṃ ca jāyate |
bahutve ca svayaṃ sarvaṃ śivarūpī maheśvaraḥ

42.30

एतत्परं शिवज्ञानं तत्त्वतस्तदुदाहृतम् ।
जानाति ज्ञानवानेव नान्यः कश्चिदृषीश्वराः

etatparaṃ śivajñānaṃ tattvatastadudāhṛtam |
jānāti jñānavāneva nānyaḥ kaścidṛṣīśvarāḥ

मुनय ऊचुः

42.31

ज्ञानं सलक्षणं ब्रूहि यज्ज्ञात्वा शिवताम्व्रजेत् ।
कथं शिवश्च तत्सर्वं सर्वं वा शिव एव च

jñānaṃ salakṣaṇaṃ brūhi yajjñātvā śivatāmvrajet |
kathaṃ śivaśca tatsarvaṃ sarvaṃ vā śiva eva ca

व्यास उवाच

42.32

एतदाकर्ण्य वचनं सूतः पौराणिकोत्तमः ।
स्मृत्वा शिवपदाम्भोजं मुनींस्तानब्रवीद्वचः

etadākarṇya vacanaṃ sūtaḥ paurāṇikottamaḥ |
smṛtvā śivapadāmbhojaṃ munīṃstānabravīdvacaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)